________________ 110 द्वितीयः स्वानुमानपरिच्छेदः / [ 2.19. स्वभावप्रतिबन्ध इति / स्वभावेन प्रतिबन्धः 'स्वभावप्रतिबनमः। सायकृता" व्या०. महा० 2.1.33] इति समासः। स्वभावप्रतिबद्धत्वं प्रतिबद्धस्वभावत्वमित्यर्थः। कारणे २स्वभावे च साध्ये स्वभाबेन प्रतिबन्धः कार्यस्वभावयोरविशिष्ट इत्येकन समासेन द्वयोरपि संग्रहः / हिर्यस्मादर्थे। यस्मात् स्वभावप्रतिबन्धे सति साधनार्थः साध्यायं गमयेत्, तस्मात् त्रयाणां गमकत्वम्, अन्येषामगमकत्वम् // कस्मात् पुन स्वभावप्रतिबन्ध एव सति गम्यगमकभावो नान्यथेत्याह तदप्रतिबद्धस्य वदव्यभिचारनिसमाभावात् // 20 // तदप्रतिबद्धस्येति / 'तद्' इति स्वभाव उक्तः। तेन स्वभावेन अप्रतिबद्धः-तदप्रतिबद्धः। यो यत्र स्वभावेन न प्रतिबद्धः तस्य तदप्रतिबद्धस्य तदष्यभिचारनियमाभावात, तस्याप्रतिबन्धविषयस्याव्यभिचारः तदव्यभिचारः, तस्य नियमः तदव्यभिचारनियमः, तस्याभावात् / . "तदयमर्थः-नहि यो यत्र स्वभावेन न प्रतिबद्धः, स तमप्रतिबन्धविषयमवश्यमेव न व्यभिचरतीति नास्ति तयोरव्यभिचारनियमः-अविनाभावनियमः / अव्यभिचार स्वभावेन स्वरूपेण / “साधनं कृता"[व्या० महा०२.१.३३] इति पाणिनीयभाष्यकारस्येदं सूत्रम् / तेन "कर्तृकरणे कृता बहुलम्" [पाणिनि 2.1.32] इति सूत्रमपनीय गलेचोपक इत्यादिसिद्ध्यर्थं "साधनं कृता” इति सूत्रं कृतम् / वालिकासूत्रिकाणां तु "तृतीया"[पाणिनि 2.1.30] इति योगविभागात्समासोऽवसेयः / अनेन च तृतीयासमासेनैव कार्यस्वभावयोः संग्रहादावृत्त्या षष्ठीसप्तमीसमासाभ्यां कार्यस्वभावयोः संग्रह इति यत्पूर्वव्याख्यातं तदपव्याख्यानमिति ख्यापितम् / समस्तस्य पदस्यार्थमाह-स्वभावेति / अनेन प्रतिबन्धसब्देन प्रतिबद्धत्वमायत्तत्वमच्यत इति दर्शयति / अस्यैवार्थ स्पष्टयति / प्रतिबद्धेति / यः स्वरूपेण क्वचिदायत्तस्तस्य स्वभावस्तत्र प्रतिबद्ध आयत्त इत्यर्थाभेदेन प्रतिबद्धस्वभावत्वमित्यर्थ इति स्पष्टीकृतम् / नन पूर्वेषामभिमतसमासव्युदासेन तृतीयासमासं दर्शयता किंस्विदतिशयो लग्धः ? केवलमाहोपुरुषिका प्रकाशितेत्याशङ्कय पूर्वं बद्धिस्थमेव स्फुटयितुमाह-कारण इति / कस्यासौ ' 'स्वभावप्रतिबन्धः' इति नास्ति C 2 स्वभावे स्वोत्पत्तौ सत्यां प्रतिबन्धः स्वभावस्य स्वसत्तायाः प्रतिबन्धः।-टि० लिङ्गस्य-टि० स्वभावेन अप्रतिबद्धस्य-टि. 5 नियमाभाव:-A PH E तस्याप्रतिबद्धविषयस्य A. P. H. तस्य प्रति० N. 7 अयमर्थः A. B. C. D. P. H. E. N. * स्वभावेन प्रति B. 9 तमप्रतिबद्धविष० A. P. H.