________________ 2.19. ] हेतुनियामकनिरूपणम् / 109 तवयमर्थः हेतुः साध्यसिद्धचर्थत्वात् साध्यागम्, साध्यं प्रधानम् / अतश्च साध्योपकरणस्य हेतोः प्रधानसाध्यभेदाधेदः, न 'स्वरूपभेदात्। साध्यश्च कश्चिद्विधिः, कश्चित् प्रतिषेधः। विधिप्रतिषेधयोश्च परस्परपरिहारेणावस्थानात् तयोर्हेतु भिन्नौ। विधिरपि कश्चिद्धतोभिन्नः, कश्चिदभिन्नः। भेदाभेदयोरप्यन्योन्यत्यागेनात्मस्थितेभिन्नौ हेत। ततः साध्यस्य परस्परविरोधात् हेतवो' भिन्नाः, न तु स्वत एवेति // कस्मात् पुनस्त्रयाणां हेतुत्वम्, कस्माच्चान्येषामहेतुत्वमित्याशङक्य यथा त्रयाणामेव हेतुत्वमन्येषां चाहेतुत्वं तदुभयं दर्शयितुमाह ___ स्वभावप्रतिबन्धे हि सत्यर्थोऽथ गमयेत् // 16 // अनन्तप्रकारत्वादिति ब्रुवतोऽयं भाव:-सविशेषणनिविशेषणव्यतिरिक्ताव्यतिरिक्तविशेषणत्वादिभेदेनानन्तस्वभावत्वादिति / गमकाविति विवृण्वन साधयत इति साधनाविति कर्तरि ल्युटं दर्शयति / . अत्र च वस्तुनः साधनावेवेत्यवधारणीयं न तु वस्तुन एवेति / इतरव्यवच्छेदस्यापि ताभ्यां साधनात् / प्रतिपत्त्रध्यवसायानरोधात्त विधिसाधनत्वमनयोरुच्यते / प्रतिषेधस्य हेतुरेवेत्यवधारणीयम्। न त्वयमेवेति। पूर्वाभ्यामपि सामर्थ्यात्प्रतिषेधस्य साधनात्। ननु न दृश्यानुपलम्भेनाभावः साध्यते, तस्य प्रत्यक्षसिद्धत्वात् / किन्तु व्यवहारः / तत्कथं प्रतिषेधोऽनुपलम्भसाध्यः ? अथाभावव्यवहारः प्रतिषेध उच्यते / तहि व्यापकानुपलम्भादिना व्याप्याद्यभावे साध्ये केनाभावः साधितः ? ततः किमत्र प्रतिषेधशब्देन प्रतिपत्तव्यमित्याशङक्याह-प्रतिषेध इति / इतिः प्रतिषेधशब्दं प्रत्यवमृशति / तेन प्रतिषेध इत्यनेन शब्देनाभावोऽभावव्यवहारश्चोक्तो द्रष्टव्य इत्यर्थः / एकस्य प्रतिषेधेन इति मुख्यया वृत्त्या सङग्रहोऽन्यस्य प्रतिषेधाश्रयतया गोण्या वृत्त्येति भावः / नास्तीति ज्ञानं नास्तीत्यभिधानं निःशङ्काऽत्र गमनागमनलक्षणा प्रवृत्तिर्व्यवहारः / स च हठात्प्रवर्त्तयितुं न शक्यत इति तद्योग्यतैव साध्यति द्रष्टव्यम् / एवं तु स्वभावहेतावन्तर्भावेऽप्यनुपलम्भस्य ततः पृथक्करणं प्रतिपत्त्रध्यवसायवशादित्यवसेयम् / . ननु विधिप्रतिषेधसाधनत्वेऽप्यमीषां त्रिरूपत्वमविशिष्टम्। तत्त्वादेव चाभेदश्चोदितः / तत्कथमिदमुत्तरं पूर्वपक्षमतिवर्त्ततामित्याशङक्याह-तदयमिति / यस्मादिदमुत्तरीकृतमाचार्येण यथाश्रुति च पूर्वपक्षं नातिकामति तत्तस्मादयमों वाक्यस्यायं तात्पर्यार्थ इत्यर्थः / एतमेवार्थं हेतुरित्यादिना न तु स्वत एवेत्यन्तेन ग्रन्थेन प्रतिपादयति / / अथ कथमन्योऽर्थोऽन्यमर्थं न व्यभिचरति येनते त्रयो हेतवः ? य[45a]था चामीषां स्वसाध्यसाधनाद गमकत्वं तथाऽन्येषामप्यकार्यस्वभावानुपलम्भात्मनां किं न भवतीति मन्वानः प्रश्नेनोपक्रमते-कस्मादिति / कस्मादिति सामान्यतो हेतुं पृच्छति पुनरिति विशेषतः / त्रयाणामनुपलब्ध्यादीनाम् / चः पूर्वनिमित्तापेक्षया निमित्तान्तरसमुच्चयार्थः / अन्येषामनीदृशात्मनां संयोग्यादीनाम् / ' स्वरूपात् C. 2 परस्परं परि० B. D. हेतवोऽपि भिन्ना B