________________ 108 द्वितीयः स्वार्थानुमानपरिच्छेदः / [ 2.18. ननु त्रिरूपत्वादेकमेव लिङ्ग' युक्तम् / अथ प्रकारभेवाद्देवः / एवं सति स्वभावहेतोरेफस्यानन्तप्रकारत्वात् त्रित्वमयुक्तमित्याह अत्र द्वौ वस्तुसाधनौ। एक प्रतिषेधहेतुः // 18 // अत्र द्वौ इति / अत्रेत्येषु त्रिषु हेतुषु मध्ये द्वौ हेतू वस्तुसाधनौ-विधेः साधनौ गमको। एकः प्रतिषेधस्य हेतुर्गमकः / प्रतिषेध इति चाभावोऽभावव्यवहारश्चोक्तो व्रष्टव्यः / इदानीं कार्यहेतं विवरीतुमाह-कार्यमिति / हेतोः प्रकृतत्वात्कार्यमिति कार्यहेतुमित्य- . वसेयं सुखप्रतिपत्त्यर्थम् / साध्यादिस्वरूपमाह वह्निरिति / एतदपि हेतोरर्थकथनम् / न तु प्रयोगप्रदर्शनम् / व्याप्तेर्दर्शयितव्याया अप्रदर्शनात् / अनिर्देश्यायाश्च प्रतिज्ञाया निर्देशात् / व्याप्तिवेदिन्यपि पुंसि हेतुरनुवाद्येनैव रूपेण निर्दिश्यमान. प्रथमान्त एव निर्देश्यः-अत्र धूम इति / न तु धूमादिति / न च तथाविधं प्रत्यपि प्रतिज्ञा प्रयोज्या अन्यथा क एनामसाधनाङ्गं ब्रूयात् / / ' साधनाङ्गत्वे च शतमुखी बाधा वादन्यायस्यापद्येत / ईदृशस्तु प्रयोगः करणीयः—यत्र धूमस्तत्र सर्वत्र वह्निर्यथा महानसे, धूमश्चात्रेति / स्वभावानुपलब्ध्योरिव कार्यहेतोरपि कस्माल्लक्षणमाचार्येण न प्रणीतमित्याशङ्कामपाकुर्वन्नाहकार्येति / लोके व्यवहर्तरि जने। प्रतीतः प्रसिद्धः / इतिर्हेतौ / नोक्तमाचार्येणेति शेषः / अयमभिप्रायः-अनुपलब्धौ खलु बहवो विप्रतिपन्नाः। उपलब्ध्यभावमात्रमनुपलब्धिमीश्वरसेनो मन्यते / कुमारिलस्तु वस्त्वन्तरस्यकज्ञानसंसर्गितामनपेक्ष्यवान्यमात्रस्य ज्ञानमनुपलब्धिमभावप्रमाणतया वर्णयति / तथा, विवक्षितज्ञानानाधारतालक्षणमात्मनोअरिणाम स्वापादिसाधारणम[44b]पि तथात्वेन वर्णयति / यदाह-"सात्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि" [श्लोकवा० अभाव० 11] इति / तथा स्वभावेपि हेतौ बहवो विप्रतिपेदिरे / केचिदर्थान्तरापेक्षिण्यपि धर्मे स्वभावं हेतुमध्यवसिताः / केचित्तु वस्तुनो धर्मविशेषमाश्रितं स्वभावमिति / तद्विप्रतिपत्तिनिराकरणार्थ तयोर्लक्षणमाख्यातम् / अत्र तु कार्यस्वरूपे न केचिद् विप्रतिपद्यन्त इति नास्य लक्षणमुक्तमिति / कार्यकारणभावेन गम्यगमकभावे सर्वथा गम्यगमकभावप्रसङ्ग इत्यादिकायां विप्रतिपत्तावपि न कार्यस्य लक्षणे विप्रतिपत्तिः / किन्तर्हि ? तस्य गमकत्वे। सा चान्यत्र निराकृताऽत्रापि प्राज्ञैः स्वयमभ्यूह्या प्राज्ञजनाधिकारेणास्य प्रारम्भादिति // सम्प्रति त्रिरूपाणि च त्रीण्येवेत्यसहमानः प्राह-नन्विति। ननुः प्रश्न / अपशब्दो यदिशब्दस्यार्थे / प्रकारस्य स्वरूपस्य भेदाद् विशेषात् भेवो नानात्वम् / एवमभ्युपगमे सति / एकस्येत्यभिन्नस्य / अभिन्नत्वञ्चास्वभावहेतुत्वव्यावृत्तेः सर्वत्र भावात् / ' लिङ्गमयुक्तम् B.C.D. P. H. E.N