________________ कार्यहेतुनिरूपणम् / 107 वृक्षव्यवहारे प्रवर्त्यते / नोच्चत्वादि निमित्तान्तरमिह वृक्षव्यवहारस्य / अपि तु शिंशपात्वमात्र निमित्तं-शिवापाग्रतशाखादिमत्त्वं निमित्तमित्यर्थः॥ कार्यमुदाहर्तुमाह कार्य यथा' वह्विस्त्र धूमादिति // 17 // . २वह्निरिति साध्यम्। अति धर्मी। धूमादिति हेतुः / कार्यकारणभावो लोके प्रत्यक्षामुपलम्भनिबन्धनः3 प्रतीत इति न स्वभावस्येव कार्यस्य लक्षणमुक्तम् // उदाहरणमस्यार्थस्येति प्रकरणात / उदाहियते प्रदर्श्यते स्वभावहेतरनेनेत्यदाहरणं स्वभावहेतुप्रतिपादकं वाक्यम् / इदं च स्वभावहेतोरर्थकथनं न तु तत्प्रयोगोपदर्शनम् / प्रयोगस्तु–यः शिंशपात्वव्यवहारयोग्यः, स वृक्षत्वव्यवहारयोग्यः / यथा प्रवर्तितवृक्षत्वव्यवहारा पूर्वाधिगता शिशपा / शिशपाव्यवहारयोग्यश्चायमिति / ननु च यः शिंशपां पश्यति स वृक्षं जानात्येव / तत्कथमत्र साध्यसाधनभाव इत्याहतदयमिति। यस्मात् शिंशपा साधनत्वेनोपन्यस्ता, वृक्षः साध्यत्वेन / न चैतद् यथाश्रुति सङ्गच्छते तत् तस्मात्, वृक्षोऽयं-वृक्षव्यवहारयो[44a]ग्योऽयं शिंशपात्वात् शिशपाव्यवहारयोग्यत्वादित्ययमों वाच्यः-वृक्षोऽयं शिशपात्वादित्यस्य वाक्यस्येति प्रकरणात्। इतिर्वाक्यार्थस्यैव स्वरूपं दर्शयति / For ननु यो विदितवृक्षव्यवहारः स स्वयं प्रत्यक्षेणैव तं व्यवहारं प्रवर्त्तयिष्यति तत्कथमस्यानुमानस्यावतार इत्याह-तत्रेति वाक्योपक्षेपे। निमित्तमित्यन्तं सुबोधम् / - अनेन च प्रबन्धेन मूढं प्रत्येतद् व्यवहारसाधनमनुमानमिति दर्शितम्। केवलमिदमत्र निरूपणीयम् / [यदा च] वृक्षत्वव्यहारव्युत्पत्तिं कार्यमाण एवारोपितोच्चत्वादिनिमित्तः,. तदा केन दृष्टान्तेन बोधयितव्यः ? आदित एव तेन शाखादिमत्त्वमात्रं निमित्तं न गृहीतमिति / सत्यमेतत् / केवलं बोधे यत्नः करणीयः / तदासौ जाड्यादुच्चत्वमपि निमित्तमवस्यतीतीदमेतस्मिन् मूढे प्रतिपत्तरि योजनीयम् / यः प्रथमं तावत् शिंशपागतं शाखादिमत्त्वमात्रमेव निमित्तमवसाय वृक्षव्यवहारं प्रावर्त्तयत् पश्चाज्जाड्यवशात्तन्मात्रं निमित्तं विस्मृत्यान्यदेव वृक्षव्यवहारकाले उच्चत्वमपि निमित्तमासीदिति व्यामुह्य तदोच्चत्वमपि वृक्षव्यवहारनिमित्तमवकल्पयतीति / स चैवंभूतो जडः शिंशपाव्यवहारयोग्यत्वेन हेतुना प्रथम प्रवर्तिततन्मात्रनिमित्तवृक्षव्यवहारया तदानीं तथास्मारितया शिंशपया दृष्टान्तेन वृक्षव्यवहारयोग्यतां बोधयितुं शक्यत एव / यः पूनरादित एवारोपितोच्चत्वादिनिमित्तस्तं प्रति हेतूपन्यास एव न युज्यते। किन्तर्हि ? वृक्षव्यवहारसमयमेवासौ ग्राहयितव्य इति सर्वमचदातम् // - 'यथाग्निरत्र B. D. P. H. E. N. 2 अग्निरिति B. D. P. H. E. N. / पलम्भः निबन्धनं प्र० B.