________________ 2. 14. ] स्वभावविशेषस्वरूपम् / 105 प्रष्टुमप्रवृत्तस्य तु योग्यदेशस्था अपि द्रष्टुं ते न शक्याः प्रत्ययान्तरवैकल्यवन्तः, स्वभावविशेषयुक्तास्तु। दूरदेशकालास्तु उभयविकलाः। तदेवं पश्यतः कस्यचिन्न प्रत्ययान्तरविकलो नाम, स्वभावविशेषविकलस्तु भवेत् / अपश्यतस्तु द्रष्टुं शक्यो योग्यवेशस्थः प्रत्ययान्तरविकलः; अन्ये तुभयविकला इति // श्यमाना अपि स्वभावविशेषवन्तस्तदा कि स्वभावविशेषग्रहणेनेत्याह-अवश्यमाना इति / तुर्दश्यमानेभ्योऽदृश्यमानान् भिनत्ति / देशादिविप्रकृष्टत्वमदृश्यमानत्वे निबन्धनम, हेतूभावेन विशेषणात् / ते प्रत्ययान्तरसाकल्यवन्तः। तुः स्वभावविशेषविरहात्प्रत्ययान्तरसाकल्यवत्त्वेन तान् विशिनष्टि / द्रष्टुं प्रवृत्तस्यत्यस्यानुवृत्ताविदं द्रष्टव्यम् / अयमत्र प्रकरणार्थ:-एकप्रतिपत्त्रपेक्षया यस्तथाविधः स्वभावः सो ऽपि यधुपलब्धिलक्षणप्राप्तिलक्षणत्वेन नोपादीयते, तदा तेषामपि देशादिविप्रकर्षिणां प्रत्ययान्तरसाकल्यमपलब्धिलक्षणप्राप्तिरस्तीत्युपलब्धिलक्षणप्राप्तानामनुपलम्भादभावव्यवहारः प्रवर्तनीयः स्यात् / न चैतद् युज्यते / तस्माद विशिष्टप्रतिपत्त्रपेक्षमिदं स्वभावविशेषस्य लक्षणमित्युपलब्धिलक्षणप्राप्तिलक्षणं सूक्तमिति। प्रत्ययान्तरसाकल्यवत्त्वमेव तेषां साधयन्नाह-यैरिति / हिर्यस्मादर्थे / एतदेव कुतः सिद्ध्यतीत्याह-अत इति / अत इत्ययं निपातो वक्ष्यमाणहेत्वर्थः। चो वक्तव्यमेतदित्यस्मिन्नर्थे / सन्निहितास्ते प्रत्यया यद् यस्माद् द्रष्टुं प्रवृत्तस्तद् विविक्तं द्रष्टुं प्रवृत्तो यत इत्यर्थः / यद् वा तदेव निरीक्षितुं प्रवृत्तो यत इति / तदा तु[43b] प्रेक्षापूर्वकारीति द्रष्टव्यम्। दर्शनप्रवृत्तपुरुषायेक्षया तावदर्थस्यैवंप्रकारवत्त्वम्, द्रष्टुमप्रवृत्तस्य तु स कीदृश इत्याहद्रष्टुमप्रवृत्तस्येति / तुना द्रष्टुं प्रवृत्तादप्रवृत्तस्य भेदमाह। यावत्येव देशे सति तस्मिन प्रत्ययान्तरे दृश्यन्तेऽर्थाः स एव योग्यो वेशः, तत्रस्थाः। .. तस्माद् दृश्यावन्ये ये चक्षुरादयो हेतवस्तानि प्रत्ययान्तराणि। तेषां वैकल्यमभावस्तद्वन्तः, हेतुभावेन विशेषणाद् / अत एव द्रष्टुं ते न शक्याः। स्वभावविशेषस्तु तेषामस्तीति दर्शयन्नाह-स्वभावेति। तुना प्रत्ययान्तरवैकल्यवत्त्वात्स्वभावविशेषयुक्तत्वेन तान् विशिनष्टि / तथाविधपुरुषापेक्षया देशकालविप्रकृष्टानां तु का वार्तेत्याह-दूरेति। दूरी देशकालौ येषा ते तथोक्ताः। ये हि देशेन विप्रकृष्टास्ते दूरदेशाः, ये च कालेन ते दूरकाला भवन्तीति भावः / तुः पूर्वेभ्य इमान् भिनत्ति। अत्रापि द्रष्टुमप्रवृत्तस्येत्यनुवर्तते / तदेवमित्यादिनोक्तमेवोपसंहरति / अथवा एकप्रतिपत्त्रपेक्षमिदमित्यन्यथा व्याख्यायते-इहोपलब्धिलक्षणप्राप्तस्येत्यनेन देशकालस्वभावविप्रकृष्टतयाऽनुपलब्धिलक्षणप्राप्ताः किल व्यावर्तयितव्याः। न च तेऽप्यनपलब्धिलक्षणप्राप्ताः शक्या वक्तुं यतो व्यवच्छिोरन्, तथापि पिशाचोऽपि सजातीयरुपलभ्यते / एवं देशविप्रकृष्टोऽपि तद्देशीयः / तथा कालविप्रकृष्टोऽपि तत्कालिकैरिति व्यावाभावादुप १०स्तु शक्यो द्रष्टुं योग्य A.P.H. E.N.