________________ द्वितीयः स्वार्थानुमानपरिच्छेदः / / 2.14. ___कीदृशः स्वभावविशेष इत्याह'यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स स्वभाव विशेषः // 14 // सत्स्वित्यादि / उपलम्भस्य यानि घटाद् दृश्यात् प्रत्ययान्तराणि तेषु सत्सु विद्यमानेषु यः स्वभावः सन् प्रत्यक्ष एव भवति स स्वभावविशेषः। तदयमत्रार्थः-एकप्रतिपत्त्रपेक्षमिदं प्रत्यक्षलक्षणम् / तथा च सति द्रष्टुं प्रवृत्तस्यैकस्य द्रष्टुर्दश्यमान उभयवान् भावः। अदृश्य- . मानास्तु देशकालस्वभावविप्रकृष्टाः स्वभावविशेषरहिताः प्रत्ययान्तरसाकल्यवन्तस्तु / यहि प्रत्ययः स द्रष्टा पश्यति ते संनिहिताः। अतश्च संनिहिता' यद् द्रष्टुं ४प्रवृत्तः सः। न केवलं प्रत्ययान्तरसाकल्यमुपलब्धिलक्षणप्राप्तिः किन्त्वन्यदपीत्याह-स्वभावेति / चस्तुल्यबलत्वं समुच्चिनोति / तदन्यस्मात् पिशाचादेविशिष्यते। ज्ञानजननयोग्यतया विशेषणत्वेऽप्यस्य राजदन्तादिपाठाद् विशेषशब्दस्य पूर्वनिपाता[43a]भावः / कर्मसाधनस्यैव विशेषशब्दस्यार्थमाह--विशिष्ट इति। द्वयमेतन्मिलितमेवोपलब्धिलक्षणप्राप्तिशब्दवाच्यमुपसंहारव्याजेन तदित्यादिना दर्शयति / यतः प्रत्ययान्तरसाकल्यं स्वभावविशेषश्चोपलब्धिलक्षणप्राप्तिविवक्षिता तत्तस्मादुपलब्धिल- . क्षणप्राप्तिशब्दवाच्यमुपलब्धिलक्षणप्राप्तत्वं घटादेः प्रतिषेध्यस्य / / अथ किं स्थवीयान् स्वभावः स्वभावविशेष उतस्बित्पररूपामिश्रस्वलक्षणात्मक इत्यभिप्रेत्य पृच्छति कीदृश इति / सत्स्वित्याद्युत्तरमुपलम्भस्येत्यादिना व्याचष्टे / . ननु किमस्य सम्भवोऽस्ति यदुत प्रत्ययान्तरसाकल्ये सत्यपि 'स्वभावः प्रत्यक्ष एव भवतीति। तथा हि सत्यपि घटस्य तादृशे स्वभावे विदूरवर्तिनः पुरुषस्य लोचनादिप्रणिधानेऽपि नासौ प्रत्यक्षो भवतीत्याशङक्याह-तदयमिति / यस्माद् द्वयमेतदुपलब्धिलक्षणप्राप्तिमवोचदाचार्यस्तत्तस्मादत्र प्रस्तावेऽयमों वाच्योऽभिमतः / कोऽसावित्याह-एकेति / एकश्चासौ विवक्षितः प्रतिपत्ता चेति तथा तदपेक्षमिदं प्रत्यक्षलक्षणम्। यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययान्तरेषु सन् प्रत्यक्ष एव भवतीत्येवंरूपः। एकश्च प्रतिपत्ता स एव वाच्यो योऽव्यवधानादिदेशो द्रष्टुं प्रवृत्तश्च / तथाविधे च द्रष्टरि तथाविधोऽवश्यं प्रत्यक्ष एव भवतीति / तथापि कथं पूर्वपक्षातिक्रम इत्याह-तथा चेति तस्मिश्च प्रकारे सति। दृश्यमान इति हेतुभावेन विशेषणम्। उभयवान् स्वभावविशेषवान् प्रत्ययान्तरसाकल्यवांश्च / यद्यदु - ' यः स्वभाव: सत्स्वन्येषूपलम्भप्रत्ययेषु यत्प्रत्यक्ष एव भवति स स्वभावः B P H सत्स्वन्येषूपलम्भप्रत्ययेषु यः प्रत्यक्ष एव भवति स स्वभावः E 2 'स स्वभावविशेषः' इति नास्ति CD प्रतयोः / हिताय द्रष्टुं A PE हिता यः द्रष्टुं H •हिता यैः द्रष्टुं N .4 प्रवृत्ताः B