________________ 2.13.] उपलब्धिलक्षणप्राप्तिस्वरूपम् / का पुनरुपलब्धिलक्षणप्राप्तिरित्याहउपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च // 13 // उपब्धिलक्षणप्राप्ति:-उपलब्धिलक्षणप्राप्तत्वं घटस्य उपलम्भप्रत्ययान्तरसाकल्यमिति / ज्ञानस्य घटोऽपि जनकः, अन्ये च चक्षुरादयः। घटाद् दृश्यादन्ये हेतवः प्रत्ययान्तराणि / तेषां साकल्यं संनिधिः। स्वभाव एव विशिष्यते तदन्यस्मादिति विशेषो विशिष्ट इत्यर्थः / तवयं विशिष्टः स्वभावः प्रत्ययान्तरसाकल्यं चैतद् द्वयमपलब्धिलक्षणप्राप्तत्वं घटावेष्टव्यम् // यद्यस्मिन् ज्ञाने ययोः संसर्गोऽस्ति तयोरेकतरोपलम्भस्तदितरानुपलम्भनिश्चहेतुत्वाद् . अनुपलम्भस्तस्माच्च तस्याभावव्यहारस्तदा नीलज्ञानानुभवे पीतज्ञानाभावव्यवहारो न स्यात तयोरेकज्ञा[42b]नसंसर्गाभावात् / न हि भवन्मते ज्ञानं ज्ञानान्तरेण वेद्यते, स्वसंवेदनत्वाभावप्रसङ्गादिति चेत् / सत्यमेतत्। केवलमेकज्ञानसंसर्गिशब्देनान्योन्याव्यभिचरितोपलम्भत्वमिह विवक्षितम् / तच्च ज्ञानेऽप्यस्ति / यदि हि तज्ज्ञानं विद्यमानं स्यात् तदा नीलज्ञानवत्संविदितमेव भवेत् / न च संवेद्यते / तस्मान्नास्तीति व्यवह्रियत इति किमवद्यम् / स्यादेतत् / किं पुनर्ज्ञातृज्ञेयधर्मोपलब्धिव्युदासेन पर्युदासवृत्तिना नजा ज्ञातृज्ञेयधर्मलक्षणा द्विविधोपलब्धि: / प्रतिपाद्यते ? न तूपलम्भाभावमात्रं प्रसज्यप्रतिषेधाश्रयेणोच्यते यथेश्वरसेनो मन्यत इत्याशङक्याह-दर्शनेत्यादि। दर्शनमुपलब्धिस्तस्य निवृत्तिरभावस्तुच्छरूपः सैव तन्मात्रं वस्त्वन्तरसंसर्गविरहः / तुः पूर्वस्मादनुपलम्भाद् वैधर्म्यमस्य द्योतयति / स्वयमनिश्चितत्वादिति ब्रुवताऽनुपलम्भात् तत्प्रतिपत्तावनवस्थादोषप्रसङ्गेन तस्य साधकाभावः . . सचितः। अनिश्चितत्वादेवागमकः / एवञ्च व्याचक्षाणेन इंदं सूचितम्-तथाविधानुपलब्धिः प्रमाणनिवृत्तावप्यर्थाभावाभावादभावव्यवहारे साध्येऽनैकान्तिकीति / वचनसामर्थ्यादित्युपलब्धिलक्षणप्राप्तस्यतिवचनसामर्थ्यादन्यथैतदतिरिच्यतेति भावः / / .. ननपलब्धिलक्षणप्राप्तः स उच्यते यस्योपलब्धिलक्षणप्राप्तिरस्ति। यथा यस्याप्तिर्यथार्थदर्शनादिरूपास्ति स आप्त इत्युच्यते / सा चोपलब्धिलक्षणप्राप्तिर्यद्यात्ममनःसन्निकर्षः, इन्द्रियमनःसयोगः, इन्द्रियार्थसन्निकर्षः, विषयप्रकाशसंयोगः, अनेकद्रव्यवत्त्वं, रूपं चोद्भुतं . समाख्यातं तदा त्वन्मतेऽमीषामभावादुपलब्धिलक्षणप्राप्तिरसम्भविनीति मन्यमानः पुच्छति का पूनरिति / सामान्यविशेषाकाराभ्यामयं प्रश्नः / आचार्यस्यापि नामन्युपलब्धिलक्षणप्राप्तिशब्देन विवक्षितानि / कि तहीयमित्यभिप्रायेण यदुपलब्धिलक्षणेत्यादिप्रतिवचनं तदुपलब्धीत्यादिना व्याख्यातुमपक्रमते / व्याख्ययमेवोपलब्धिलक्षणप्राप्तिशब्दसमानार्थेनोपलब्धिलक्षणप्राप्तत्वशब्देनानुवदति। अयं चास्याशय:--यस्योपलब्धिलक्षणप्राप्तिस्तस्यावश्यमुपलब्धिलक्षणप्राप्तत्वमस्तीति / अत एवोपलब्धिलक्षणप्राप्तिरुपलब्धिलक्षणप्राप्तत्वमित्युक्तम् / कस्येत्याकाक्षायामाहघटस्येति / ननु साकल्यं नामानेकधर्मः। न च ज्ञानस्य हेतवो बहवः / किञ्च यदि प्रतिषेध्योऽपि झाकस्य हेतुः स्यात्तदा तस्मात्प्रत्ययादन्ये प्रत्ययाः प्रत्ययान्तराण्युच्यन्त इत्याशङक्याह-ज्ञानस्येति /