________________ द्वितीयः स्वार्थानुमानपरिच्छेदः / [ 2.12. सतो.कनियता भवति प्रतिपत्तिः। योग्यताया द्वयोरप्यविशिष्टत्वात् / तस्मादेकज्ञानसंसगिणि दृश्यमाने' सत्येकस्मिन्नितरत् समग्रदर्शनसामग्रीकं यदि भवेत् दृश्यमेव भवेदिति संभावितं दृश्यत्वमारोप्यते। तस्यानुपलम्भो दृश्यानुपलम्भः। तस्मात् स एव घटविविक्तप्रदेशस्तदालम्बनं च ज्ञानं दृश्यानुपलम्भनिश्चयहेतुत्वात् दृश्यानुपलम्भ उच्यते / यावद्धि एक ज्ञानसंसगि वस्तु न निश्चितम्, तज्ज्ञानं च; न तावद् दृश्यानुपलम्भनिश्चयः। ततो वस्तु अनुपलम्भ उच्यते, तज्ज्ञानं च। दर्शननिवृत्तिमात्रं तु स्वयमनिश्चि-.. तत्वादगमकम् / ततो दृश्यघटरहितः प्रदेशः, तज्ज्ञानं च वचनसामदेिव दृश्यानुपलम्भरूपमुक्तं द्रष्टव्यम् // तत्र यदि निराकारं विज्ञानमिति स्थितिस्तदैकशब्दो द्वयादिसंख्यानिरासार्थः / यदा तु साकारमिति स्थितिस्तदा पक्षद्वयम्-एकमेव वाऽनेकाकारमशक्यविवेचनं चित्रं ज्ञानम्, प्रतिवस्त्वनेकमेव वा तत्तदाकारानुकारि। पूर्वस्मिन् पक्षे पूर्ववदेकशब्दः / शेषपक्षे त्वेकचक्षुरायतनप्रभवत्वादेकरूपालम्बनत्वाच्चैकशब्दो गौणः / ननु यदि तत् प्रतिषिध्यमानमनेन भूतलादिना सहकस्मिन् ज्ञाने प्रतिभासेत तदपेक्षमिदमेकज्ञानसंसर्गि कथ्यत / यावतेदमेव नास्तीत्याशङक्य तथात्वमेव तयोरेकेन्द्रियेत्यादिना दर्शयति / लोचनादीनां प्रणिधानं स्वज्ञानोपजनने योग्यीभवनं तत्राभिमुखमनुगुणम् / अन्योन्यापेक्षमिति घटाद्यपेक्षं भूतलादि, तदपेक्षं च घटादीत्यर्थः / यदि नाम द्वयं तत्रावस्थितं तथाप्येकमेव तत्रावभासिष्यत इत्याह-तयोरिति / हिर्यस्मात् / उपपत्तिमाह- योग्यताया इति / यत एव तयोर्घटादिभूतलाद्योरेकज्ञानसंसर्गः सम्भवी तस्मात् / एकस्मिन् भूतलादिके दृश्यमाने सतीतरद् घटादिर्क परिपूर्णदर्शनसामग्रीक ज्ञातव्यम् / तथासदविद्यमानमपि समारोपाद् दृश्यमुच्यत इति दर्शयति / / भवेदितिना सम्भावनाया आकारः कथितः / तस्यैव सम्भावनार्हस्यानपलम्भस्तद्विविक्तान्योपलम्भरूपः / यस्मात्तस्यैकज्ञानसंसर्गिणो भूतलादेर्दर्शनात् तदनुपलम्भो निश्चीयते तस्मात् / ननु भूतलादिज्ञाननिश्चय एव तदनुपलम्भनिश्चयहेतुत्वादनुपलम्भोऽस्तु भूतलादिकं तु कथमित्याह-यावदिति / हिर्यस्मात् / अनेन ज्ञानविशिष्टं भूतलादि, भूतलाधवच्छिन्नञ्च ज्ञानं दृश्यस्यानुपलम्भमुपलम्भाभावं व्यवहर्तव्यैकंस्वभावं निश्चाययतीति दर्शितम् / वस्त्विति भूतलादि। ज्ञानमिति तद्ग्राहि / चस्तुल्योपायत्वं समुच्चिनोति / 1 भूतल-टि. 2 घट-टि० / दृश्यमा० A. P. H. E.N. 4 घटादिविविक्त० B. 5 वस्तु तज्ज्ञानं चा(वा) न निश्चितम् न तावद् B वस्तु तज्ज्ञानं वा न निश्चितम् न तावद् D . गमकमेव C 7 ०कम् / तादृशघटरहित: B