________________ 2.12.]. ___ अनुपलब्धिस्वरूपम् / 101 ___अनुपलब्धिमुदाहर्तुमाहतत्रानुपलब्धिर्यथा—न प्रदेशविशेषे क्वचिद् घटः, उपलब्धिलक्षणप्राप्तस्यानु पलब्धेरिति // 12 // यथेत्यादि / यथेत्युपप्रदर्शनार्थम् / यथेयमनुपलब्धिस्तथान्यापि / न त्वियमेवेत्यर्थः / प्रदेश एकदेशः। विशिष्यत इति विशेषः प्रतिपत्तप्रत्यक्षः / तादृशश्च न सर्वः प्रदेशः / तदाह-क्वचिद् इति / प्रतिपत्तप्रत्यक्षे क्वचिदेव प्रदेश इति धर्मी। न घट इति साध्यम् / 'उपब्धिर्ज्ञानम्। तस्या लक्षणं जनिका सामग्री। तया हि उपलब्धिलक्ष्यते। तत्प्राप्तोऽर्थो जनकत्वेन सामग्रयन्तर्भावात् / उपब्धिलक्षणप्राप्तो दृश्य इत्यर्थः। तस्यानुपलब्धेःइत्ययं हेतुः। अथ यो यत्र नास्ति स कथं तत्र दृश्यः ? दृश्यत्वसमारोपादसन्नपि दृश्य उच्यते / "यश्चैवं संभाव्यते-यद्यसावत्र भवेद् दृश्य एव भवेदिति। स तत्र अविद्यमानोऽपि दृश्यः समारोप्यः। कश्चैवं संभाव्यः ? यस्य समग्राणि स्वालम्बनदर्शनकारणानि भवन्ति / कदा च तानि समग्राणि गम्यन्ते ? यदकज्ञानसंसर्गिवस्त्वन्तरोपलम्भः। एकेन्द्रियज्ञानग्राह्य लोचनादिप्रणिधानाभिमुखं वस्तुद्वयमन्योन्यापेक्षमेकज्ञानसंसगि कथ्यते / तयोहि न घट इति घटाभावव्यवहारयोग्यतेति द्रष्टव्यम् / घटाभावस्य प्रत्यक्षसिद्धत्वात् / एतच्च परस्तादभिधास्यते / तया लक्ष्यत इति ब्रुवता लक्ष्यतेऽनेनेति लक्षणमिति व्यक्तीकृतम् / तदित्युपलब्धिलक्षणम् / कथं तत्प्राप्त इत्याह-जनकत्वेन / किं तेनैकेन सा जन्यते ये[42a]नैवमुच्यत इत्याह-सामग्र्यन्तर्भावादिति / - समुदायार्थ स्फुटयति / दृश्यो दर्शनयोग्यः। इतिरेवमर्थे / एवमभिधेयो यस्योपलब्धिलक्षणप्राप्तशब्दस्य / * यद्यविद्यमानः समारोपाद दृश्य उच्यते तदा भिन्नेन्द्रियग्राह्यमपि तत्रानेकमस्ति / तस्यापि तहि तथात्वमायातमित्याशङक्याह—यश्चैवमिति / चोऽवधारणे। स तादृशो दृश्यतया समारोप्यो न सर्व इत्यर्थात् / कश्चैवं सम्भाव्य इति पृच्छति। पुनःशब्दार्थश्चकारः / यस्येति सिद्धान्ती। यस्येति प्रतिषेध्यस्य / स्वमात्मानमालम्बत इत्यालम्बनं / यस्य वर्शनस्य। तस्य कारणानि / तच्चेन्नास्ति कथं तद्दर्शनकारणसामग्र्यावगतिरित्याशयः पृच्छति कदेति। चः पूर्ववत् / एकस्मिन् ज्ञाने संसर्गः प्रतिभासः स यस्यास्ति / तच्च तद् वस्त्वन्तरं चेति तथा तस्योपलम्भो यदेत्युक्तम् / ' उपलब्धिज्ञानम् / तस्य लक्षणं जनिका-A 1 कारणम्-टि. ह्यनुपल० H 4 आलम्बनत्वेन-टि० 5 यश्चार्थ:-टि० पट-भूतल-टि० 7 गम्यते B.. .