________________ 100 द्वितीयः स्वार्थानुमानपरिच्छेदः / [ 2.10. ततोऽभावः साक्षात् सपक्षाभावरूपः प्रतीयते / अन्यविरुद्धौ तु सामर्थ्यावभावरूपी प्रतीयते। ततस्त्रयाणामप्यसपक्षत्वम् // त्रिरूपाणि च त्रीण्येव लिङ्गानि // 10 // उक्तेन त्रैरूप्येण त्रिरूपाणि च त्रीण्येव लिङ्गानि इति / चकारो वक्तव्यान्तरसमुच्चयार्थः। श्ररूप्यमादौ पष्टं त्रिरूपाणि च लिङ्गानि परेण / तत्र रूप्यमुक्तम् / त्रिरूपाणि चोच्यन्ते–त्रीण्येव त्रिरूपाणि लिङ्गानि। त्रयस्त्रिरूपलिङ्गप्रकारा इत्यर्थः / / कानि पुनस्तानीत्याह अनुपलब्धिः स्वभावः' कार्य चेति // 11 // - प्रतिषेध्यस्य साध्यस्यानुपलब्धिस्त्रिरूपा। विधेयस्य साध्यस्य स्वभावश्च त्रिरूपः, कार्य च // वादन्यविरुद्धयोधर्म्यमाह / यतोऽन्यो विरुद्धश्चोक्तया नीत्या सपक्षाभावरूपी ततस्तस्मात् / आस्तामेकस्य द्वयोर्वा त्रयाणामपीत्यपिशब्दः / / अरूप्येण त्रिरूपेणेत्यर्थः / त्रीणि रूपाणि लक्षणानि येषामिति विग्रहः / त्रीण्येव त्रिसंख्यान्येव। त्रिरूपाणीत्यनेनाबाधितविषयत्वादिरूपान्तरयोगेन चतुर्लक्षणत्वं षड्लक्षणत्वं वा पराभिमतं हेतोः प्रतिषेधति त्रीण्येवेत्यनेन संयोग्यादिभेदेन भूयिष्ठसंख्यत्वम् / पृष्ट इति पाठे त्वाचार्य इति शेषः / यत् त्रैरूप्यं पृष्टो यद् वा यत्ररूप्यं पृष्टं तत्त्ररूप्यमुक्तमुक्तेन ग्रन्थेन। अथवा यद् यस्मात्त्रैरूप्यं पृष्ट आचार्यः; पृष्टं वा तत् तस्मात् त्ररूप्यमुक्तमिति / चस्त्ररूप्येण समं त्रिरूपाणामुक्तकर्मतां समुच्चिनोति / ननु न तावत्परस्यैतद् द्वितयप्रश्नवाक्यं श्रुतम् / तत्कथं परस्य द्वेधा प्रश्नः संकीर्त्यत इति चेत् / उच्यते / त्रिरूपाल्लिङ्गादिति श्रुतवता पूर्वपक्षवादिनाऽवश्यं किं तत् त्ररूप्यं कियच्च त्रिरूपं लिङ्गमित्याकाङिक्षतव्यं तेन पृष्टमित्युच्यते / एतदेव कथमवसीयत इति चेत् / रूप्यं लिङ्गस्यैवमात्मकमित्यभिधानादाचार्यस्य पूर्वपक्षवादिन एवंरूप प्रश्नोऽवसीयते / त्रिरूपाणि च त्रीण्येवेत्यभिधानाच्च संख्याप्रश्नः / ततः साधुक्तं रूप्यमादावित्यादि। लिङ्गप्रकारा लिङ्गस्वरूपाणि // संयोग्यादिभेदेन त्रित्वासम्भवात् पृच्छति–कानीति / सामान्यविशेषाकाराभ्यां प्रश्नः / कार्य च विधेयस्येति प्रकृतम् / केवलं विधेयस्येति पूर्व सामर्थ्यादनान्तरस्य विधेयस्य, अधुना त्वर्थान्तरस्य विधेयस्येत्यवसेयम् / विधेयस्यार्थान्तरस्य कार्य त्रिरूपमिति योजनीयम् / चकारी पूर्वापेक्षया समुच्चयाएँ / १०भावकार्य E भावकार्ये D B P H N ...भावस्त्रिरूपः A B D PH EN