________________ 2.9.] . विपक्षलक्षणम् / ततोऽन्यस्तद्विरुद्धस्तदभावश्चेति // 6 // ततः सपक्षाद् अन्यः / तेन च२ विरुद्धः / तस्य च सपक्षस्याभावः / सपक्षादन्यत्वं तद्विरुद्धत्वं च न तावत् प्रत्यतुं शक्यं यावत् सपक्षस्वभावाभावो न विज्ञातः / तस्मादन्यत्वविरुद्धत्वप्रतीतिसामर्थ्यात् सपक्षाभावरूपौ प्रतीतावन्यविरुद्धौ। एवं सत्यन्यविरुद्धयोरसपक्षत्वं न स्यादित्यसपक्षशब्देन तदभावतदन्यतविरुद्धानां त्रयाणामपि सङग्रहं दर्शयितुं कश्चेत्यादिना प्रश्नपूर्वमुपक्र[म]ते। चकारः पुनःशब्दस्यार्थे / अन्य इति विवक्षितधर्मानाधारः / अन्यविषयेऽपि नजि विभागेन नियोगवृत्तेः / न हि स एव ब्राह्मणस्तज्जातियोगाद्, अब्राह्मणश्च धर्मान्तरसमावेशाल्लोके प्रतीयत इति / विरुद्ध इति सहस्थितिलक्षणेनाऽन्योन्यात्मपरिहारंस्थितिलक्षणेन च विरोधेन विरुद्धः / चोऽन्यापेक्षया विरुद्धमसपक्षत्वेन समुच्चिनोति / तस्य चाभावस्तुच्छरूप: प्रसज्यात्मा व्यवहर्त्तव्यकस्वभावः / अयमत्र प्रकरणार्थ:-सपक्षाभावोऽसपक्षः। साध्यधर्मवान् यो न भवतीत्यर्थः / साध्यधर्माभावार्थत्वादसपक्षशब्दस्य / न चैवं निषेधमात्रमसपक्षः / किन्तहि ? सर्वः प्रतियोगी निषेधः पर्युदस्तश्च / अतत्त्वलक्षणत्वादसपक्षस्य तद्विवक्षिते प्रतियोगिनि तुल्यं व्यतिरेकगतेः सर्वत्र तुल्यत्वात् , साक्षादर्थापत्त्या वेति / चः पूर्वापेक्षः समुच्चये। अन्यविरुद्धयोरपि वस्तुसतोः कल्पितयोश्चासपक्षत्वात्तत्र वर्तमानस्य साधारणानकान्तिकत्वान्न तदभावदोषः, अन्यविरुद्धयोश्च स्वरूपकथनेन तदसपक्षत्वपक्षोक्तो दोषो निरस्त इति सर्वमवदातम् / ननु च सपक्षो यो न भवतीति वचनेन यस्य सपक्षाभावस्वभावत्वं तस्यैवासपक्षत्वं [41b]प्रतिपाद्यते / न चान्यविरुद्धयोस्तदभावस्वभावता सम्भव(वि)नी विधिरूपत्वात् / तत्कथं तयोस्तथात्वमित्याशङक्याह-सपक्षादिति / अन्यत्वं ततो भिद्यमानत्वं पृथक्त्वमिति यावत् / तेन च विरुद्धत्वं तावन्न शक्यं ज्ञातुम , यावत्सपक्षाभावस्वभावो न विज्ञातो भवति / सोऽन्यो विरुद्धश्चेत्यर्थात् / . अयमाशयः-यदि तस्यान्यत्वाभिमतस्य यतोऽन्यत्वं व्यवहर्त्तव्यं तद्रूपता चेत्तस्यासिद्धा सन्दिग्धा वा भवेत् तदाऽन्यत्वमेव न स्यात् तदात्मवत् / धूमस्येव वा बाष्पादिभावेन सन्दिामानस्य न बाष्पादेरन्यत्वनिश्चयः / येन च विरुद्धं यत् तद्रूपं चेत् सिद्धं संदिग्धं वा ताद्रूप्येण तदा तेन सह तस्यास्थितिस्तदात्मपरिहारेण वाऽवस्थानं कथम्, कथं च निश्चीयेत तदात्मवत् पूर्वोक्तधूमवत् / यत एवं तस्मात् / तयोः साध्यधर्मवत्त्वाभावादित्यर्थः / यत एवं ततो हेतोः साक्षा दव्यवधानेन / अनेन यद्येक एवासपक्षो वक्तव्यः तदा तदभाव एवेति सूचितम् / तुरभा . इयं पृथ्वी, गन्धवत्त्वात् / यत्तु पृथ्वी न भवति तद् गन्धवदपि न, यथा अबादिः / अत्र अबादिर्दृष्टान्तीकृतः साध्यादन्य इति-टि० 2 तेन विरु० B 3 वह्निनिवृत्तौ धूमनिवृत्तेरास्पदं जलाशय इति साध्येन सह विरुद्ध:-टि. * यथा क्षणिकत्वनिवृत्ती सत्त्वनिवृत्तेरास्पदं खरविषाणमिति साध्याभावमात्रम-टि०