________________ [ 2.8. द्वितीयः स्वार्थानुमानपरिच्छेदः / स्यादेतत्-कि तत् पक्षसपक्षयोः 'सामान्यं येन समानः सपक्षः पक्षणेत्याह-साध्यधर्मसामान्येनेति / साध्यश्चासौ असिद्धत्वात, धर्मश्च पराश्रितत्वात साध्यधर्मः। न च विशेषः साध्यः, अपि तु सामान्यम् / अत इह सामान्यं साध्यमुक्तम् / साध्यधर्मश्चासौ सामान्यं चेति साध्यधर्मसामान्येन समानः पक्षण सपक्ष इत्यर्थः / कोऽसपक्ष इत्याह न सपक्षोऽसपक्षः॥८॥ न सपक्षोऽसपक्षः। सपक्षो यो न भवति सोऽसपक्षः॥ कश्च सपक्षो न भवति ? चरितम्। विनिश्चये हि नवपक्षधर्मप्रवेदननिर्देशप्रकरणे “साध्यधर्मसामान्येन समानः पक्षः सपक्षस्तदभावोऽसपक्षः" इत्युक्तम् / अतो वातिककारस्यैव दृष्टान्तधर्मी पक्षोऽभिप्रेत उपचारादित्यत्राप्येवमयं व्याचष्ट इत्यदोषः / येन सामान्येन पक्षण समानः सपक्ष इत्याहेति योज्यम / साध्यशब्देनोपचाराद् वढ्यादिकमभिप्रेतम् / साध्यत्वे हेतुमाह-असिद्धत्वात् तत्रानिश्चितत्वात्। नन साध्यधर्मश्चासौ सामान्यं चेति कर्मधारयगर्भः कर्मधारय इहाभिप्रेतः विशेषश्च साध्यत इति कथं सामान्यशब्देन साध्यधर्मशब्दस्य समास इत्याशङक्याह-न चेत्यादि / चो यस्मादर्थे अवधारणे वा। सामान्यमतद्रूपव्यावृत्तवस्तुमात्रम् / तथाविधेनैव हेतोः 141a] व्याप्यत्वादित्यभिप्रायः / यत एवमतोऽस्माद्धेतोरिह सपक्षलक्षणकाले / सामान्यस्य साध्यतामुक्त्वा साध्यधर्मशब्देन सह सामान्यशब्दस्य विग्रहं दर्शयति–साध्यति / साध्यधये(में)त्यादिनोपसंहरति / समान एवेत्यवधारणीयम् / न तु सामान्येनैवेति, अन्येनापि वस्तुस्वादिना सादृश्यात् दृष्टान्तर्मिणः सपक्षत्वाभावप्रसङ्गादिति // . यदि सपक्षादन्योऽसपक्षोऽन्यधर्मयोगाच्चान्यस्तदा सपक्ष एवान्यधर्मयोगादन्य इति तत्रासपक्षे वर्तमानो हेतुः सर्व एवानकान्तिकत्वादहेतुः प्रसज्येत / अथ विरुद्धे नत्रा विधानात् सपक्षविरुद्धोऽसपक्षः। सहानवस्थानलक्षणेन विरोधेन विरुद्धस्तदाऽग्निलक्षणो हेतरोष्ण्यं न गमयेत् / अथाभावे ननिष्यते, तदाऽभावे कस्यचित्सत्त्वासम्भवात् साधारणानैकान्तिको न कश्चित्स्यादिति मनसि निवेश्य पृच्छति----कोऽसपक्ष इति / अनीदृशाशयस्याज्ञस्यैव वा प्रश्नः / म सपक्ष इत्याधुत्तरम् / सपक्षो यो न भवतीति साध्यधर्मवान् यो न भवतीत्यर्थः / एवञ्चाचक्षाणः प्रसज्यप्रतिषेधवृत्ति ननं दर्शयति / यद्येवं समासः कथमिति चेत् / गमकत्वादसूर्यम्पश्यानीत्यादिवत् / अपुन यानि सामानि, अलवणभोजी, असूय॑म्पश्यानि मुखानि “सुडनपुंसकस्य" [पाणिनि 1-1-43] इति / प्रयोगसंख्यानियमस्तु भाष्यकारीयो यथाऽनुपपन्नस्तथा चाचार्येणैव विनिश्चये "दुःखं बतायं तपस्वी" इत्याधुपहासपूर्वकं-"यथा निकेतेन प्रतिपत्ते:"इत्यादिना प्रतिपादित इति नेहोच्यते // 'साम्यम् B २पक्ष-टि.