________________ 2.7. j . सपक्षलक्षणम् / अनुमेयोऽत्रेत्यादि। अत्र हेतुलक्षणे निश्चेतव्ये' धर्मी अनुमेयः / अन्यत्र तु साध्यप्रतिपत्तिकाले समुदायोऽनुमेयः। व्याप्तिनिश्चियकाले तु धर्मोऽनुमेय इति दर्शयितुम् 'अत्र'ग्रहणम् / जिज्ञासितो ज्ञातुमिष्टो विशेषो धर्मो यस्य धर्मिणः स तथोक्तः // कः सपक्षः? साध्यधर्मसामान्येन समानोऽर्थः सपक्षः // 7 // समानोऽर्थः सपक्षः। समानः सदशो योर्थः पक्षण स पक्ष उक्त उपचारात। समानशब्देन विशेष्यते। समानः पक्षः सपक्षः, समानस्य च सशब्दादेशः / ननु यदि धर्मर्मिसमुदायो मुख्योऽनुमेयोऽत्र गृह्यते तदा न कस्यचित्साधनस्य तद्धर्मत्वं ग्रहीतुं शक्येत। ग्रहणे वा व्यक्तमेव वैयर्थ्यमित्यभिप्रायवान् पृच्छति-तत्र क इति तेषु मध्ये। अत्रेत्यस्य तात्पर्यार्थमत्रेत्यादिना निरूपयति / धर्मिधर्मयोश्चानुमेयत्वम् / तस्मिंस्तस्मिन् कालेऽनुमेयैकदेशत्वादुपचारतो द्रष्टव्यम्। तदुक्तम् "समुदायस्य साध्यत्वात् धर्ममात्रे चमिणि। अमुख्येऽप्येकदेशत्वात्साध्यत्वमुपचर्यते // " इति // अथ यदि सह पक्षेण वर्त्तते इति सपक्षोऽभिप्रेतस्तदाऽर्थासङ्गतिः। अथापि समानः पक्षेणेति मतं तदा पक्षसमान इति प्राप्नोतीत्यभिप्रेत्य पृच्छति क इति / समानोऽर्थ इति सिद्धान्ती / समानशब्दस्यार्थमाह-समानः सदृशोऽर्थ इति / अर्थशब्दोऽत्र प्रतीयमानार्थोऽर्थ्यते गम्यत इति कृत्वा। न त्वर्थोऽर्थक्रियासमर्थो वाच्यः / क्रमाक्रमायोगेनाक्षणिकस्य सामर्थ्याभाव (वे) साध्येऽम्बरारविन्दादेरपि सपक्षत्वेनेष्टत्वात् / . ननु समानश्चासौ पक्षश्चेति किं नाभिप्रेतम् ? तत्र पक्ष एवासौ दृष्टान्तधर्मी कथं येन समानशब्देन विशिष्यत इत्याह-पक्ष इति / . कथमन्याथन तेन शब्देन स तथोच्यतामित्याह-उपचारादिति / क्वचित्सपक्ष उक्त इति पाठः। तत्र सोऽर्थः पक्ष उक्त इति योज्यम् / उपचारे च साध्यधर्मयोगो निमित्तम् / स उपचाराद् यः पक्ष उक्तः विशि (शे)ष्यते व्यवच्छेद्यते तदसमानात् / यदि समानशब्दो विशेषणमस्य तर्हि सशब्दश्रुतिः कथमित्याह-समानस्येति। समानस्य समानशब्दस्य स्थाने सशब्दादेशश्च "समानस्य" पाणिनि६.३.८४] इति योगविभागात् / समानः पक्षो यस्य स तथेति बहुब्रीहिः किमिति धर्मोत्तरेण नाश्रितो येनैवमात्मा प्रयासित इति चेत् / सत्यम् / केवलं विनिश्चयानुरोधादेवमा नष्टत्वात् / ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्म्यभिधीयते / व्याप्तिकाले भवेद् धर्मः साध्यसिद्धौ पुनर्द्वयम् ।।-टि. २साध्ये प्रति०-C 3 सदृशोऽर्थों यः पक्षण C 4 पक्षेण स सपक्ष B.C.D.P. H. E.N. 1 सशब्द आदेशः E ...