________________ द्वितीयः स्वार्थानुमानपरिच्छेदः। [2.6 पुत्रवदिति तत्पुत्रत्वं हेतुः स्यात् / तस्मानियमवतोरेवान्वयव्यतिरेकयोः प्रयोगः कर्तव्यो येन प्रतिबन्धो गम्येत साधनस्य साध्येन / नियमवतोश्च प्रयोगेऽवश्यकर्तव्ये द्वयोरेक एव प्रयोक्तव्यो'न द्वाविति नियमवानवान्वयो व्यतिरेको वा प्रयोक्तव्य इति शिक्षणार्थ द्वयोरुपादानमिति // ___ रूप्यकथनप्रसंगेनानुमेयः सपक्षो विपक्षश्चोक्तः / तेषां लक्षणं वक्तव्यम् / तत्र कोऽनुमेय इत्याह अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी // 6 // निश्चितमाक्षिपतीति / एवमुपलक्षणत्वादस्यासपक्षे चासत्त्वमेव निश्चितमित्यनेन सपक्षे वत्तिमात्रं लब्धमेव / तेनैव च प्रयोजनमिति कि सपक्ष एव सत्त्वमित्यनेनेति द्रष्टव्यम्। उच्यत इति परिहारः। साध्येनान्वीयमानत्वं सत्येव साध्ये भवितृत्वम् साधनस्य स्वगतो धर्मोऽन्वयः। साध्याभावे व्यतिरिच्यमानत्वम् अभवितत्वम हेतोः स्वगतो धर्मो व्यतिरेकः। स चासश्च प्रयुज्यमानः शब्देन प्रतिपाद्यमानो नियमवानव्यभिचारवान् प्रयोक्तव्योऽन्यथा परोक्षप्रतीत्यङ्गं नोक्तं स्यात् / कथं च तथा प्रयुक्तो भवति? यदाऽन्वयवाक्ये साध्ये नियतं साधनं व्यतिरेकवाक्ये च साधनाभावे नियतः साध्याभावः / साधनानुवादपूर्वसाध्यविधानेन साध्याभावानुवादपूर्वसाधनाभावविधानेन वीप्सापदयुक्तेन सर्वशब्दसंहितेन एवकारोपेतेन / अन्यथा न प्रतिपाद्यते / अनियमेनापि प्रयोगे यद्यन्वयव्यतिरेकयोस्तादृशोः प्रतीतिरस्ति तदा किं नियमवत्प्रयो-: गेणेत्याह-अनियते हीति / हिर्यस्मादनियते विवक्षितनियमाख्यापके। आस्तां तावदेकस्य प्रयोगे द्वयोरप्ययमर्थः स्यादित्यपिशब्दः / इतिरर्थस्याकारं दर्शयति / ' अस्त्वयमर्थः / का क्षतिरित्याह-तथा चेति / काकतालीयन्यायेन चाश्यामेषु निकटवर्तिषु अतत्पुत्रेषु एतद् द्रष्टव्यम् / अन्यथा ह्यनियतोऽपि व्यतिरेकोऽत्र नोक्त इति वचनावकाशः स्यात् / यत एवं तस्मात् येन नियमवत्प्रयोगेण प्रतिबन्धः प्रतिबद्धत्वमायत्तत्वम् / कस्येत्याकाङक्षायामाहसाधनस्येति। कुत्रेत्यपेक्षायामाह-साध्य इति। यद्येवमेकस्मिन्नेव साधनवाक्ये नियमवानेवान्वयो व्यतिरेकश्च प्रयुज्यतामित्याह-नियमवतोश्चेति / चो वक्तव्यान्तरसमुच्चये। अयमाशय :-अन्वयवाक्येनापि तथाप्रयुक्तेन सामर्थ्याद् व्यतिरेकस्य, व्यतिरेकवाक्येनापि सामर्थ्यादन्वयस्य प्रकाशनात् किं प्रतीतप्रत्यायकेन द्वितीयवाक्येन कार्यमिति ? यत एवमितिस्तस्माद् / द्वितीय इतिः शिक्षणस्य स्वरूपं दर्शयति / . शिक्षणमज्ञमुद्दिश्यज्ञापनम् / तदर्थं तन्निमित्तम् / अनेन प्रयो[40b] गसमास एव दर्शितो न रूपसमास इति दर्शितम् / प्रयोगदर्शनाभ्यासात्कश्चित्प्रयोगभङ्गयैव स्वयमपि परोक्षमर्थ प्रतिपद्यत इति स्वार्थेऽप्यनुमाने निर्णीतमिदं लक्षणकथनप्रसङ्गेन। ततो न दोष इति द्रष्टव्यम् / एतच्चोपरिष्टान्निवेदयिष्यते // 'एव कर्तव्यो न A