________________ हेतोस्त्रीणि रूपाणि / नास्ति। ततो न हेतुः स्यात् / ततः पूर्व न कृतम् / निश्चितग्रहणेन संदिग्धविपकमहावृत्तिकोऽनकान्तिको निरस्तः / ननु च सपक्ष एव सत्त्वमित्युक्ते विपक्षेऽसत्त्वमेवेति गम्यत एव / तत् किमर्थ २पुनरुभयोस्वानं कृतम् ? उच्यते / अन्वयो व्यतिरेको वा नियमवानेव प्रयोक्तव्यो मान्यथेति वर्शयितुं द्वयोरप्युपादानं कृतम्। अनियते' हि द्वयोरपि प्रयोगेऽयमर्थः स्यात्-सपक्षे योऽस्ति विपक्षे च यो नास्ति स हेतुरिति / तथा च सति स श्यामः तत्पुत्रत्वात् दृश्यमान वधारणेन एवकारेणेति यावत् / असपक्ष एवेति किं नावधार्यत इत्याह-असत्त्वेति / हिर्यस्मात् / भवत्वेवं का क्षतिरित्याह-तथा चेति। प्रयत्नानन्तरीयकग्रहणं पूर्ववद्रपलक्षणम् / निश्चितग्रहणस्य व्यावृर्थमाह-निश्चितेति / विपक्षाद् व्यावृत्तिविपक्षव्यावृत्तिः / सन्दिग्धा विपक्षव्यावृत्तिर्यस्य स तथा / ननु न सन्दिग्धविपक्षव्यावृत्तिकत्वं नामायं हेतुदोषः। तत्कथं निरस्यते ? तथाहिय एव विपक्षे वीक्षितो हेतुः स एव प्रमेयत्वादिवदभिमतं न साधयेत् / यः पुनमहलाऽपि प्रयत्नेन मृग्यमाणोऽसपक्षे नोपलक्षितः स कथमङ्ग साध्यं न साधयेदिति ? तदेतदवद्यम् / यतो योऽपि विपक्षे वीक्षितो हेतुः सोऽपि इष्टो दुष्टः / कथं ? साध्यं विनाऽप्युपलब्धेरिति चेत / नन यदि नामासौ साध्यमन्तरेणान्यत्र दृष्टस्तथापि विवादाध्यासिते धर्मिणि साध्यं किं न साधयति ? नहि अयमत्रापि साध्यं विनव वर्तत इति प्रसाधकं प्रमाणमस्ति / न चैकत्र येन विना यो दृष्ट: सर्वत्रासौ तेन विनव वर्तते इति सिद्धम् / अन्यथाऽपि बहुलं दर्शनात् / . अथ साध्यमन्तरेण यो वृत्तः साध्ये सत्येवासौ वर्तत इति नियमाभावाद् विवादाध्यासिते सन्देहहेतुर्न सम्यग हेतुर्भवितुमर्हति / हन्त तहि विपक्षे वीक्षणं तस्य साध्यमिणि साध्यविनाकृतां वृत्ति सम्भावयद् हेतुमनिश्चयहेतूकरोतीति आयातम् / सति चैवं साध्यविपर्यये हेतुसत्ता बाधकप्रमाणादर्शनमपि-यद्ययं च धर्मो भविष्यति, न च ततः साध्यमित्येवंविधां वृत्तिमस्य. . संभावयति तदा किमयं निश्चयहेतुर्भवितुमर्हति ? ततो वि[40a]पक्षे दर्शनं वा तथा शडका- बीजमस्तु विपर्यये वा बाधकप्रमाणादर्शनं वेति को विशेषः ? तथा चाह वात्तिककार:-"न तु सपक्षविपक्षयोः सत्वमसत्त्वं वा निश्चयापेक्षम्। निश्चयेपि सन्देहमुखेनैव दोषात् / सोऽनिश्चयेऽपि तुल्य इति तथाविधोद्भावनमप्यत्र दूषणमेव / तथा विपक्षप्रचाराशङ्काव्यवच्छेदेन लभ्यं गमकत्वं कथमात्मसात्कुर्याद्” इति / ननु चेत्यादिना लक्षणे चोद्यमाश ङ्कते। विपक्षेऽसत्त्वमेवेति गम्यत इति ब्रुवतोऽय भावः / पक्षे वृत्तौ लब्धायां सपक्ष एव सत्त्वं निश्चितमिति खलु समुच्चीयमानावधारणोऽयं निर्णयः। अयं चासपक्षेऽसत्वेऽनिश्चिते सन्दिग्धे वा न घटत इति अवश्यमसपक्षेऽसत्वमेव : 'असर्वज्ञः कश्चित् वक्तृत्वात्-टि० अर्थमुभ CD / तदुच्यते-A P HE. ४इयोरुपादानं-BCD 5 अनियमे हि A PHEN. च नास्ति स A B D P H EN * श्यामः त्वत्पुत्र. C