________________ 94 [ 2.5. द्वितीयः स्वार्षानुमानपरिच्छेदः / सत्वग्रहणेन विरुद्धो निरस्तः / स हि नास्ति सपक्षे। एवकारेण साधारपानकान्तिकः'। स हि न सपक्ष एव वर्तते किन्तूभयत्रापि / सत्त्वग्रहणात् पूर्वावधारणवचनन सपक्षाव्याकि सत्ताकस्यापि प्रयत्नानन्तरीयकस्य हेतुत्वं कथितम् / पश्चादवधारणे त्वयमर्थः स्यात-सपने सत्त्वमेव यस्य स हेतुरिति प्रयत्नानन्तरीयकत्वं न हेतः स्यात् / निश्चितवचनेन संदिग्धान्वयोऽनकान्तिको निरस्तः। यथा सर्वज्ञः कश्चिद् वक्तृत्वात्। वक्तत्वं हि सपक्षे सर्वशे संदिग्धम्। असपक्षो वक्ष्यमाणलक्षणः / तस्मिन्नसत्त्वमेव निश्चितम्-तृतीयं रूपम् / तत्रा.. सत्त्वग्रहणेन विरुद्धस्य निरासः / विरुद्धो हि विपक्षेऽस्ति / एवकारेण साधारणस्य विपक्षकदेशवृत्तनिरासः / प्रयत्नानन्तरीयकत्वे साध्ये ह्यनित्यत्वं विपक्षकदेशे विधुदादौ अस्ति, आकाशादौ नास्ति / ततो नियमेनास्य निरासः। 'असत्त्वशब्दाद्धि पूर्वस्मिन्नवधारणेऽयमर्षः स्यात-विपक्ष एवं यो नास्ति स हेतुः / तथा च प्रयत्नानन्तरीयकत्वं सपक्षेपि सर्वत्र %3 ___ साधारणश्चासौ सपक्षासपक्षवृत्तित्वादनकान्तिकश्चैकस्मिन्नन्ते साध्ये विपर्यये वाऽव्यवस्थितश्चेति तथा निरस्त इति वर्त्तते / सपक्षाव्यापिनी सकलसपक्षावर्तिनी ससा यस्येति विग्रहः / प्रयत्नानन्तरीयकत्वमप्यनित्यत्वसिद्धौ समर्थों हेतुरिति दर्शयितुं सकलसपक्षाव्यापि . प्रयत्नानन्तरीयकत्वमुदाहृतमिति द्रष्टव्यम् / वस्तुतस्तु सर्व एव कार्यहेतु—मादि: सपक्षक-.. देशवृत्तिर्बोद्धव्यः / इतिरेवमर्थे / एवं सति प्रयत्नानन्तरीयकत्वमुपलक्षणत्वादस्य धूमादिकमपि न हेतुः स्यात् / सन्दिग्धोऽन्वयो यस्य स तथा / इहाश्रयत्वादार्थेन न्यायेन सपक्षलक्षणस्य धर्मिणो विशेष्यत्वादनेन सहोदितो निपातः पक्षे वृक्षे वृत्तौ लब्धायां समुच्चीयमानावधारणत्वादसपक्षलक्षणधर्म्यन्तरयोगस्य व्यवच्छेदको द्रष्टव्यः / तृतीयं रूपं व्याख्यातुमाह-असपक्ष इति / वक्ष्यमाणं लक्षणमस्येति विग्रहः / कथमस्य निरास इत्याह-विरुद्धो हीति / हिर्यस्मात् / साधारणस्य सपक्षासपक्षसाषारणस्य / कस्मिन् साध्ये किन्तदीदृशमित्याह-प्रयत्नेति / प्रयत्नः पुरुषव्यापारः / नियमेना 1 अत्र D प्रतौ पडिक्तबाह्यभागे 'अनित्यः शब्दः प्रमेयत्वात्' इति टिप्पणं वर्तते / तच्च B प्रतौ मूले निवेशितम् इति प्रतिभाति / HNप्रतावपि एवमेव-सं० 2 सपक्षव्या० BH णे हि अय० AC 4 निश्चयवच. A 5 पूर्ववदत्रापि D प्रती 'नित्यः शब्दः कृतकत्वात् खवत्' इति पडिक्तबाह्यं टिप्पणत्वेन लिखितः पाठः B प्रतौ मलत्वेन संनिविष्ट इति भाति-N प्रतौ अपि तथैव कृतम् / H प्रतौ तु 'विपक्षकदेशवृत्तेनिरासः' इत्यनन्तरं मुद्रित:-सं० प्रयत्नानन्तरीयक: शब्दः, अनित्यत्वात् घटवत्-टि. 7 नियमतोऽस्य C 8 असत्त्ववचनात् पूर्व० APHEN शब्दात् पूर्व० BCD 9 ०पि नास्ति-BE