________________ उपाधिवादः 81. तन्निरूपणस्येष्टसाधनत्वं स्यात् / इष्टसाधनत्वं च प्रकृते वर्तत एव तत्त्वनिर्णयविजयप्रयोजनद्वारा / यद्वा स्वव्यभिचारेणेत्यादिलक्ष्यतावच्छेदकलक्षणोपोद्घातसङ्गत्या उपाधेर्दूषकताबीजंव्यभिचारोन्नायकत्वंस्थापयति (38 B] | इदानीमिति मूलम् / इदानीमुपाधिलक्षणपरीक्षानिरूपणानन्तरं दूषकताबीजं हेत्वाभासोत्थापनं तस्य स्वतो दूषकत्वात्। नाप्यस्येति मूलम्। अस्योपाधेः नस्वव्यतिरेकद्वारा प्रतिबन्धकत्वम्।स्वस्योपाधेः व्यतिरेकः साध्यव्यापकाभावतया साध्याभावव्याप्यो भविष्यति / उपाधेश्च पक्षावृत्तित्वात् पक्षधर्मोऽपि तथा च साध्याभावसाधको भविष्यति। यथा स्थापनाहेतुना साध्यं साध्यते तथा साध्याभावहेतुनाऽपि साध्याभावः साध्यते इति सत्प्रतिपक्षोत्थापकत्वम्। एतद्वादिमते.चसाध्यव्यापकत्वे सति पक्षावृत्तित्वमेवोपाधेर्लक्षणं भविष्यति।साध्यव्यापकत्वेन तदभावस्य उपाध्यभावस्य साध्याभावव्याप्यत्वं सत्प्रतिपक्षतायामुपयुज्यते। पक्षावृत्तित्वेनोपाध्यभावस्य पक्षधर्मतालाभः तथा चसाध्याभावनिरूपितव्याप्तिपक्षतावत्त्वादुपाध्यभावस्य साध्याभावसाधकत्वमिति भावः / इति सत्प्रतिपक्षोत्थापकत्वं व्यवस्थाप्य सम्प्रदायविरोधितयाऽपसिद्धान्ततया दूषयति / तदा हीति मूलम्। तदोपाधेः सत्प्रतिपक्षोत्थापकतया दूषकत्वेसत्प्रतिपक्षे यथा सत्प्रतिपक्षान्तरं नोद्भाव्यते तथा सत्प्रतिपक्षे उपाध्युद्भावने निग्रहः स्यात् इतिसत्प्रतिपक्षेऽप्युपाधेरुद्भावनं व्यवस्थापयति।नचेति मूलम्। प्रतिपक्षबलार्थमुपाधेरुद्भावनं क्रियते / अयं भावः सत्प्रतिपक्षे सत्प्रतिपक्षोत्थापने एकेनैव हेतुना साध्यसिद्धौ पुरुषोऽधिकेन निगृह्यते / यथा पर्वतो वह्निमान् धूमात् आलोकात् इत्यादौ धूमरूपहेतुनैव साध्यसिद्धौ सत्यामालोकात् इत्यस्य निरर्थकत्वंतथा सत्प्रतिपक्षे उपाधेरुद्भावनेऽपिप्रथमोक्तसाध्याभावसाधकहेतुनैव साध्याभावसिद्धौ उपाध्यभावरूपहेतोः साध्याभावसाधकस्य निरर्थकत्वम् / न चेत्यादि तस्य सार्थकत्वं व्यवस्थापयति / प्रतिपक्षबलार्थं प्रतिहेतोर्बलार्थं तथा च स्थापनाहेतोः दुर्बलतया न सत्प्रतिपक्षितत्वं समानबलोपस्थित्या प्रतिरुद्धकार्यत्वस्यैव तदर्थत्वात् / इत्थं च सत्प्रतिपक्षे उपाधेरुद्भावनं न निरर्थकं प्रतिहेतोर्बलवत्त्वव्यवस्थापनेन सार्थकत्वात् इति वाच्यम् / न च बहुभिर्हेतुभिर्बलाधिक्यं क्रियते, शतमपि अन्धानां न पश्यतीति न्यायात् / तथा च एकत्र बहवो व्यभिचारिणोऽसिद्धा वा हेतवः उपन्यस्ताः तेषु हेत्वाभासोद्भावने साध्याभावसाधकतया कार्याक्षमत्वं नाथ तुल्यत्वम् एकेन सद्धेतुना व्याप्तिपक्षधर्मतावता बहूनामसिद्धहेतूनां प्रतिबन्धात् तत्साध्यानुमितेः प्रतिबन्धात् इति . भावः। तथा च साहित्यं न बलं किन्तु व्याप्तिपक्षधर्मते, तच्चैकस्याप्यस्ति द्वयोरपि चास्तीति तुल्यम्। सहित्यस्य बलत्वे शतव्यभिचारिहेतूनामुपन्यासे प्रतिवादिनो जयः स्यात्, न चैवम्,शतमप्यन्धानां न पश्यतीति न्यायात् [39AJIतुल्यमेवेति। अत्र ज्ञानमेवेति शेषः। वस्तुतः साध्याभावस्य साध्यस्य च यद्वयाप्यद्वयं तदेकत्राधिकरणे न वर्तते एवेति ज्ञानमित्युक्तम् / यथा पर्वतो वहिव्याप्यधूमवान् वन्यभावव्याप्यपाषाणमयत्ववान् इति सत्प्रतिपक्षदशायामुभयोर्व्याप्तिपक्षधर्मतावत्त्वे न निर्णयो वर्तते, स च पाषाणमयत्वे वह्नयभावव्याप्यत्वस्य विरहात्। न त्वल्पत्वं किन्तु तुल्यतया ज्ञानमेव। तच्च ज्ञानंभ्रमः। तथा चसत्प्रतिपक्षे सत्प्रतिपक्षोत्थापने एकेनैव