________________ 80 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका व्यभिचारदर्शनं तस्य जनकमुपाधिसन्देहः / तथा चोपाधिसन्देहस्य स्वतोऽदूषकत्वेऽपि व्यभिचारसंशयद्वारा दूषकतायामुपयुज्यते / यथासिद्ध(द्धति)। स्वतोऽदूषकत्वेऽपि आश्रयासिद्धिरूपपक्षविघटनद्वारा सिद्धसाधनं दूषकतायामुपयुज्यते, तथाव्यभिचारसंशयद्वारा उपाधिज्ञानमुपयुज्यते इतिभावः / परस्यपतिवादिनः। तत्र व्याप्तौ साधकाभावं व्यभिचारादर्शनस्य साधकस्याभावं व्यभिचारदर्शनमापादयन् जनयन् तत्संशयं व्याप्तिसंशयमापादयतीति सप्रयोजनं सन्दिग्धोपाधेरुद्भावनं सप्रयोजनं तथा च निग्रहस्थानमिति भावः / आहुरिति अस्वरसोद्भावनम् / तद्बीजंतु उपाधिसन्देहात् उपाध्यभावस्य साध्याभावव्याप्यतया व्याप्यसन्देहस्य व्यापकसन्देहजनकत्वात् व्यभिचारसंशयस्यैव व्यभिचारनिश्चय एव।व्याप्तिग्रहाप्रतिबन्धकत्वेन ऋजुवम॑नैव सन्दिग्धोपाधेर्दूषकत्वेन किं व्याप्तिग्रहे साधकमानाभावप्रदर्शनमुखेन व्याप्तिसन्देहद्वारा प्रतिबन्धकत्वेन ?, व्याप्तिसन्देहस्याप्रतिबन्धकत्वात् / व्याप्तिनिश्चयस्य कारणत्वात् व्याप्तिसन्देहदशायां व्याप्तिनिश्चयस्य कारणस्याभावादेवानुमितेरनुत्पादोऽस्तु, किं व्याप्तिसन्देहस्य प्रतिबन्धकत्वेन ? तदेव प्रतिबन्धकं स्वाभावातिरिक्तसकलसामग्रीसत्त्वे यत्सत्त्वे कार्यानुत्पादः / न हि प्रकृते तथात्वं व्याप्तिसन्देहदशायां व्याप्तिनिश्चियस्यैवाभावात् / न वा व्याप्तिनिश्चये व्याप्तिसंशयः प्रतिबन्धकः ग्राह्यसंशयस्यैव प्रतिबन्धकत्वादितिभावः।अत्रनव्याः पक्षीयव्यभिचारसंशयोऽपि प्रतिबन्धकः, न चानुमानमात्रमुच्छिद्येत / व्याप्तिनिश्चयदशायां व्यभिचारसंशयेन किं कर्तव्यम् ?, तत्कर्तव्यस्य व्याप्तिग्रहप्रतिबन्धस्याशक्यत्वात् व्याप्तिग्रहस्योत्पन्नत्वात् / अत एवोक्तं हेत्वाभासे करणे पूरणे . किमसिद्धया करणे व्याप्तिनिश्चये पूरणे उत्पन्ने सति किमसिद्व्या किं व्यभिचारज्ञानेन प्रतिबन्धकत्वेन / प्रतिबन्धकं तावत् कार्यस्योत्पत्तिं विरुणद्धि, न तु स्थितिं विरुणद्धि / तथा च सामान्यतः व्यभिचारज्ञानत्वेन प्रतिबन्धकत्वं न तु स्वारसिकसंशयातिरिक्तव्यभिचारज्ञानत्वेन गौरवात् इति भावः / इत्युपाधिटिप्पणम् / अथोपाधेर्दूषकताबीजम्। . इदानीमुपाधेर्दूषकताबीजं चिन्त्यते / नाप्यस्य स्वव्यतिरेकद्वारा सत्प्रतिपक्षत्वेन दूषकत्वम्, तदा हि सत्प्रतिपक्षे सत्प्रतिपक्षान्तरवत् उपाधेरुद्भावनं न स्यात् / न च प्रतिपक्षबाहुल्येनाधिकबलार्थमुद्भावनम्, शतमप्यन्धानांन पश्यतीति न्यायात् एकेनापि बहूनांप्रतिबन्धाच्च, व्याप्तिपक्षधर्मते हि बलंतच्च तुल्यमेव, नतुभूयस्त्वमपि, एकस्मादप्यनुमितेः सन्दिग्धोपाधेरदूषकतापाताच्च तद्व्यतिरेकस्य सन्दिग्धत्वात्। ।अथोपाधेर्दूषकताबीजं निरूप्यते। प्रसङ्गादुपाधेर्दूषकताबीजं निरूपयति / प्रसङ्गश्च स्मृतस्योपेक्षानहत्वम् / उपेक्षानर्हत्वं हि तदा स्यात् यदि