________________ उपाधिवांदः 79 सन्दिग्धोपाधेरपि दूषणत्वेन न निरनुयोज्यानुयोगप्रसङ्गः। न वा तदुद्भावयिनि(वने नि)ग्रहापत्तिरितिनवा त्वदुक्तबाधकस्यानुमानमात्रस्योच्छेदस्य प्रसङ्गः / अन्यानाहितव्यभिचारसंशयस्याप्रतिबन्धकत्वात् अन्यानाहितसाध्यसंशयस्थले एवानुमानप्रवृत्तेरप्रत्यूहतया तत्रैवानुमानप्रवृत्तेन( )नुमानमात्रोच्छेदप्रसङ्ग इति भावः दृष्टः / अन्याहितव्यभिचारसंशयस्य प्रतिबन्धकत्वं दृष्टान्तेन द्रढयति - अत एवेति / यत एवाहितव्यभिचारसंशयस्य प्रतिबन्धकत्वमत एव क्षित्यादिकं द्विकर्तृकं कार्यत्वात् घटवत् [37 B] इत्यत्र यथा घटे कुलालरूपम् ईश्वररूपं चादाय द्विकर्तृकत्वंतथा व्यणुकादावपिस्यात्, इत्यत्राप्रयोजकत्वमुद्भाव्यम्, कार्यत्वेन कर्तृत्वेन एव कार्यकारणभावात् न तु द्विकर्तृकत्वेन / तत्र चाप्रयोजकत्वेन जनितव्यभिचारसंशयस्य द्विकर्तृकत्वरूपसाध्याभावांशे संशयात्मकास्य] कार्यत्वरूपवृत्तित्वांशे निश्चयात्मकस्य व्यभिचारसंशयस्य यथा प्रतिबन्धकत्वं तथा प्रकृतेऽपीत्यर्थः / इत्थं च साध्याभावांशे संशयात्मकास्या वृत्तित्वांशे निश्चयात्मकास्य] व्याप्तिग्रहत्वेन प्रतिबध्यत्वं स्वारसिकत्वं वाऽन्यानाहितत्वमित्युक्तमेव / अन्याहितो यो यः संशयः तद्भेदकूटस्यैवावच्छेदकत्वात्। तथा च यादृशयादृशव्यभिचारसंशयसत्त्वेन व्याप्तिग्रहः तद्भिन्नमेव स्वारसिकत्वं वक्तव्यम्, तथा च भेदकूटघटितत्वात् दुर्जेयत्वमित्यस्वरसमादाय / यद्वेति टीका / उपाध्यादिसन्देहेन / आदिपदात् अप्रयोजकत्वादिसंशयपरिग्रहः / तथा चोपाध्यादिसन्देहात्साध्यस्य उत्कटकोटिकः संशयःआधीयते उत्पाद्यतेइति। फलबलात् अनुमितिकारणीभूतव्याप्तिग्रहप्रतिबन्धदर्शनबलेन तस्यसाध्याभावांशे उत्कटकोटिकासंशयात्मकस्यावृत्तित्वांशे निश्चयात्मकस्य प्रतिबन्धदर्शनात् स्वारसिकत्वम् उत्कटकोटिकसंशयातिरिक्तसंशयत्वम् / तथा च पक्षताघटकीभूतः संशयस्तु नोत्कटकोटिकइति नानुमानमात्रोच्छेदः नवाउपाध्युद्भावनेनिरनुयोज्यानुयोगइतिसर्वसमञ्जसम्।केषाञ्चिन्मताम्] उपन्यस्यति / यद्यपीति टीका / उपाधिसन्देहः स्वरूपसत् ज्ञानाविषय एव प्रतिबन्धकः / ननु संशयस्यापि ज्ञानं प्रतिबन्धकम्, तथा चन तस्य हेत्वाभासत्वम्, ज्ञानविषयतयाप्रतिबन्धकस्यैवहेत्वाभासत्वात्। हेत्वाभासभिन्नतया तदुद्भावने निरनुयोज्यानुयोगः स्यादिति भावः / परं प्रति प्रतिवादिनं प्रति / तदुद्भावने सन्दिग्धोपाधेरुद्भावने। तदुद्भावनं तज्ज्ञापकं तद्वयभिचारः। तस्य ज्ञापकं तत्संशयरूपज्ञानजनकम्, न तु तदुत्पादकः। तस्य व्यभिचारस्य साध्याभाववद्वृत्तित्वस्य न उत्पादकं न जनकम् इति यदुक्तं तदकिञ्चित्करमिति / न हि हेत्वाभासव्याप्यानामपि प्रतिबन्धकत्वम् / तथा सति सत्प्रतिपक्षस्थले साध्याभावव्याप्यव्याप्यानामपि प्रतिबन्धकत्वं स्यात् / तथा चोपाधिज्ञानं न प्रतिबन्धकम् / तदुद्भावनमकिञ्चित्करं प्रतिवादिनो न किञ्चित् करोति इत्यर्थः / तथा च निरनुयोज्यानुयोग इत्याद्युक्तदोषस्तदवस्थ एवेति / यद्यपीति आशङ्कार्थः / समाधत्ते - तथापीति टीका / सन्देहज्ञापनमुखेन व्यभिचारसंशयज्ञापकमुखेन तद्वारा पराभिमतव्याप्तिः मित्रातनयत्वश्यामत्वयोः सम्बन्धरूपा, वस्तुतस्तस्य व्याप्तित्वविरहात्। पराभिमतेतिपरेषामभिमानमात्रम्, न तु तत्र वस्तुतो व्याप्तिरित्यर्थः। गौरमित्रातनये एव व्यभिचारस्य स्फुटत्वात्। साधकमानं [38] व्याप्तिग्राहकं तदभावः, तस्य प्रदर्शनपरं तज्ज्ञापकपरम्। तथा च व्याप्तिग्राहकं व्यभिचारादर्शनसहकृतसहचारदर्शनं व्याप्तिग्राहकं तदैव व्याप्तेः साधकमानं तस्याभावो