________________ 78 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका निश्चितसाध्याभाववति शुक्लघटादौ न साधनसन्देहः न मित्रातनयत्वस्य सन्देह आधीयते येन निरुक्तसंशयाधायकत्वेनोपाधेर्दूषकत्वं स्यात् / निरुक्तश्च दूषणावहव्यभिचारसंशयः साध्याभावांशे निश्चयहेतोः वृत्तित्वे संशयरूपः, स च प्रकृते न सम्भवति साध्याभावांशे एव सन्देहात् मित्रातनयत्वस्य साधनस्य गर्भस्थव्यक्तौ वृत्तित्वांशे निश्चयाच्च। किन्तु साध्याभावसंशयाधायकत्वेनैवोपाधेर्दूषकत्वं वाच्यम्, सचसन्देहो न दूषणावहः, सुतरां तदुद्भावकस्योपाधिसन्देहस्य न दूषकत्वम्, तथा च तदुद्भावने निरनुयोज्यानुयोग इति भावः / तदेव विवृणोति - किञ्चिादित्यादिना। साधनवति पक्षे गर्भस्थमित्रातनये पक्षसमे वेति। न हि पक्षे पक्षसमे व्यभिचारो दोषायेतिस्फोरणाय स्वेतिस्वस्यशाकपाकजत्वस्य व्यावृत्तिसन्देहेन अभावसन्देहेन साध्याभावसन्देहः श्यामत्वाभावसन्देहः, स च श्यामत्वरूपस्य साध्यस्याभावांशे सन्देहात्मकः मित्रातनयत्वरूपस्य हेतोः वृत्तित्वांशे निश्चयातत्मकः सन्देहो न [37 A] व्यभिचारसंशयतया प्रतिबन्धक इत्यर्थः / अनुमानमात्रेति / मात्रपदं कात्ार्थकं तथा च अनुमानसामान्योच्छेदापत्तिः / कुतः ? सर्वत्र पक्षे साध्यस्य संशयात् हेतोश्च पक्षवृत्तित्वनिश्चयात्। तथा चेत्थं व्यभिचारसंशयस्य सर्वत्र विद्यमानत्वात् अनुमानमात्रोच्छेदापत्तेरित्यर्थः / इदमपि प्राचां मतमवलम्ब्य / प्राचां मते सन्दिग्धसाध्यधर्मा धर्मी पक्षः इति पक्षताङ्गीकारात् / पक्षतानुरोधेन सर्वत्र साध्यसन्देहस्य स्वीकारात् / तत्र च साध्यनिर्णया(यो) नर्व(वर्तते / सिसाधयिषयाऽनुमितिस्तत्रापि तन्मते आहार्यसंशयस्वीकारात् / वस्तुतस्तु सन्दिग्धस्थले एवानुमितिः प्रवर्तते / सन्दिग्धे हि न्यायः प्रवर्तते इति न्यायात् / तत्र सिद्धे सन्दिग्धे पदारूढे अनुमाने निश्चितस्थलेऽपि तत्कल्पते, अनुभवानुरोधात। यदि च सन्दिग्धे अनुमानं न सिद्धयेत उपदर्शितव्यभिचारसंशयस्य सर्वत्र सत्त्वात् तत्र चानुमानस्यासिद्धौ तदधीनव्यवहारादिकं न सिद्धयेत इति बहुव्याकुलीस्यादिति। एवं निश्चितस्थलेऽपि कथमनुमानं भविष्यति, व्यवहारादेः प्रत्यक्षादिनैव सम्भवात् / इत्यनुमानमात्रोच्छेदापत्तेरित्यस्यार्थः। तस्मात् सन्दिग्धोपाधिना कृतव्यभिचारसंशयस्यानुमानमात्रोच्छेदादेवाप्रतिबन्धकत्वात् तस्यादूषणत्वेन तदुन्नायकस्य सन्दिग्धोपाधेः सुतरामदूषकत्वम्। तथा चश्यामो मित्रातनयत्वात् इत्यत्र शाकपाकजत्वस्योपाधित्वेनादूषणतयोद्भावने निरनुयोज्यानुयोगप्रसङ्गतया उपाध्युद्भावनकर्तुदिन एव निग्रहः स्यात् इति। यद्यपीत्याशङ्कार्थः / समाधत्ते - तथापीति टीका। तदुच्छेदभिया अनुमानमात्रोच्छेदभिया स्वरसवाहिनः स्वारस्ये कस्यान्यान्य(ना)हितस्येति यावत् / साध्याभावांशे सया(संशया)त्मकहेतोर्वृत्तित्वांशे निश्चयात्मकसंशयस्यान्यानाहितस्याप्रतिबन्धकत्वेऽपि। अन्याहितस्येति।अन्यस्तु उपाधिसन्देहो अप्रयोजकत्वादिति], तेनाना]हितः तजनिातः]। तत्संशयस्य प्रतिबन्धकत्वं वाच्यमेवेति। फलबलात् तथानुभवात्। फलंतावत्प्रकृते व्याप्तिग्रहप्रतिबन्धः, सन्दिग्धोपाधिस्थले व्याप्तिग्रहस्य सश्यामो मित्रातनयत्वात् इत्यादौशाकपाकजत्वस्य उपाधित्वेनसन्देहदशायाम् अनुमितिकारणीभूतव्याप्तिग्रहप्रतिबन्धदर्शनरूपफलबलेन उपाधिसंशयाहिताताथाविधव्यभिचारसंशयोऽपि प्रतिबन्धकः / तथा च तत्संशयस्य दूषकत्वे तदुद्भावनक्षमस्य