________________ उपाधिवादः 77 च सामग्री कुत्रचिदुपाधिः भवत्येवेति ग्रन्थान्तरस्यापि भावार्थोऽपि सङ्गच्छते इति। साधनाव्यापकत्वसन्देहात् उपाधिसन्देहेन सन्दिग्धोपाधिं दर्शयित्वा साध्यव्यापकत्वसन्देहेन उपाधिसन्देहात् सन्दिग्धोपाधिं दर्शयति - यथेति मूलम् / ईश्वरानुमाने इति परमताव(तमव)लम्ब्य, स्वमते नु(न) / क्षितिः सकर्तृका कार्यत्वात् इत्यत्र कार्यत्वस्य सकर्तृकत्वस्य त्वौपाधिकत्वात् वह्निमान् धूमात् इत्यत्र व्यञ्जनवत्त्ववत् / अनणुत्वं शरीरजन्यत्वं च नोपाधिः अत एव न तस्य सन्दिग्धोपाधित्वमिति परमतमवलम्ब्यैव तदुक्तम् / क्षितिः सकर्तृका कार्यत्वात् इत्यत्र यथा कार्यत्वसकर्तृकत्वयोर्व्याप्तिग्रहः तथा सकर्तृकत्वानणुत्वयोरेवं सकर्तृकत्वशरीरजन्यत्वयोः व्याप्तिग्राहकसाम्या(त्) कार्यत्वसकर्तृकत्वयोर्व्याप्तिग्राहकतर्कास्फुरणदशायाम् उपाधेः अनणुत्वस्य शरीरजन्यत्वस्य च 'साध्यव्यापकतासन्देहदशायां साध्यव्यापकसन्देहेन सन्दिग्धोपाधित्वमिति। वस्तुतस्तु सकर्तृकत्वकार्यत्वयो प्तिग्राहकतर्कस्फुरणेसकर्तृकत्वव्याप्यकार्यत्वाव्यापकत्वेन उपाधेरनणुत्वादेः नसकर्तृकत्वरूपसाध्यव्यापकत्वमिति ध्येयम् / स्वमतेनाह - यथेति मूलम् / एतेषां मते तृतीयम् / साध्यव्यापकत्वसाधनाव्यापकत्वसन्देहात् यत्र सन्दिग्धोपाधिसन्देहस्तदाह - यथेति मूलम् / स श्यामो मित्रातनयत्वात् इत्यत्र शाकपाकजत्वस्य साध्यव्यापकत्वसन्देहे साधनाव्यापकत्वसन्देहस्तु [36 B] गर्भस्थे मित्रातनये वर्तते एवेति उभयसंशयस्थले सन्दिग्धोपाधित्वमुदाहृतम् / ननु येषां मतेऽनौपाधिकत्वं व्याप्तिः तन्मते उपाधेाप्यत्वासिद्धतया स्वतन्त्रे एव हेत्वाभासतया तदुद्भावने वादिनो निरासात् / येषां मते तु अनौपाधिकत्वं न व्याप्तिः तन्मते उपाधेर्न व्याप्यत्वासिद्धत्वम् / तथा च तदुद्भावने वादिनो निग्रहः स्यादिति अनु(नौ)पाधिकत्वव्याप्तिभिन्नत्ववादिनं प्रत्याशङ्कते - यत्त्विति / उपाधिसन्देहः स श्यामो मित्रातनयत्वात् इत्यत्र शाकपाकजत्वसंदेहः गर्भस्थमित्रातनय इति शेषः / नोपाधिः न श्यामत्वरूपसाध्यव्यभिचारोन्नायक इति। तत्रोन्नायकत्वस्य व्याप्तिपक्षधर्मत्वेन निर्णयस्य स्वरूपयोग्यत्वस्योक्तत्वात्। तच्च न प्रकृते पक्षधर्मतासन्देहात्। न वा अस्मदुक्तानुपाधित्ववत् भवन्मतेऽप्यनु(नौ)पाधिकत्वं व्याप्तिः येन व्याप्यत्वासिद्धतया हेत्वाभासान्तरं स्यादित्याशङ्कते - नवेति मूलम्। तदुद्भावने सन्दिग्धोपाधेरुद्रावने प्रतिवादिनो निग्रहः स्यात्। तत्र निग्रहस्थानमाह - निरनुयोज्यानुयोग इति मूलम् / निरनुयोज्यस्य निर्दोषस्यानुयोगः दोषोद्भावनं निरनुयोज्यानुयोग इति यद् दूषणं सन्दिग्धोपाधिमुपन्यस्तं तस्य दूषणत्वविरहात् वादिनो निरनुयोज्यत्वम्, तत्र सन्दिग्धोपाधिमुपन्यस्य “निगृहीतोऽसि” इति अनुयोगकरणे येनानुयोगः क्रियते तस्यैव निग्रहो भवति इति सन्दिग्धोपाध्युद्भावने निरनुयोज्यानुयोग इत्याशङ्कार्थः।। __दूषणमात्र इति टीका। तत्कारणस्य वा साक्षात्प्रतिबन्धकत्वस्यैव हेत्वाभासत्वात्। उपाधेस्तु व्यभिचारोस्थापनद्वारैवव्याप्तिग्रहप्रतिबन्धकत्वम्।अत एव वक्ष्यते परमुखनिरीक्षकतया सिद्धसाधनवत् न पृथक् इति। तथा च न निरनुयोज्यानुयोग इति भावः / प्रथमे स श्यामो मित्रातनयत्वात् इत्यत्र सन्दिग्धोपाधिना साध्याभाववति 1. साध्य = सकर्तृकत्व इति प्रतौ टिप्पणी।