________________ 76 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका व्यापकव्यापकस्य सुतरां व्यापकत्वात्। तथा च न धूमाव्यापकत्वं वह्रिसामग्र याः इति साधनाव्यापकत्वविरहात् न तस्या उपाधित्वम्, उपाधित्वविरहादेव न सन्दिग्धोपाधित्वं सन्दिग्धोपाधित्वस्योपाधित्वव्याप्यत्वात् / वह्रिमान् धूमात् इत्यत्र वह्रिसामग्रीतो वैलक्षण्यं श्यामसामग्र या आह - अत्रेति मूलम् / अत्र स श्यामो मित्रातनयत्वात् इत्यत्र श्यामसामर याः सन्दिग्धोपाधित्वं स्यादेवेति। न तु वह्रिसामग्र या यथा धूमे अनुपाधित्वं .. तथा श्यामसामा या अपि मित्रातनये अनुपाधित्वं स्यात् इत्यत[36 A]आह - मित्रातनयत्वेति। मित्रातनयत्वश्यामत्वव्याप्यश्यामसामग्र यास्थातव्यमित्यत्रव्याप्तिग्राहकाभावादिति योजना। तथा चश्यामत्वंनश्यामसामग्र या व्याप्यं तादृशव्याप्तिग्राहकविरहादितिश्यामसामा याः सन्दिग्धोपाधित्वम्।न हिमित्रातनयत्वेनश्यामसामग्रीत्वेन कार्यकारणभावः येन श्यामसामर या व्याप्यं मित्रातनयत्वंस्यादितिभावः।वह्रिसाम यास्तुधूमव्यापकत्वमनायत्या स्वीकर्तव्यम् / वह्रिसामग्रीत्वेन वह्नित्वेन कार्यकारणभावः / वह्रिव्यापकत्वं वह्रिसामग्र याः / वह्नित्वेन धूमत्वेन कार्यकारणभावात् धूमव्यापकत्वं वह्नेः / तथा च व्यापकव्यापकस्य सुतरां व्यापकत्वात् वह्निसामग्र याः धूमव्यापकत्वं न सन्दिग्धमेवेति न सन्दिग्धोपाधित्वम् / अत एव साध्यसामर या सह हेतोरपि यत्र व्याप्तिग्राहकमस्ति तत्र सामग्री नोपाधिः, यत्र तु तन्नास्ति तत्र साप्युपाधिरित्यभिसन्धाय सामग्री च क्वचिन्नोपाधिन तु सर्वत्र इत्युक्तम्, यथा तुल्ययोगक्षेमयोरुपाधेापकतासन्देहे ईश्वरानुमाने शरीरजन्यत्वाणुत्वादिः, यथा चशाकपाकजत्वस्य साध्यव्यापकतासन्देहे मित्रातनयत्वें। यत्तु उपाधिसन्देहो नोपाधिर्न वा हेत्वाभासान्तरमिति तदुद्भावने निरनुयोज्यानुयोग इति / तन्न / सन्दिग्धानैकान्तिकवत् व्यभिचारसंशयाधायकत्वेन दूषकत्वादुपाधेरिव व्यभिचारनिश्चयाधायकतया। अत एवेति मूलम् / यत एव साध्यव्यापकत्वसाधनाव्यापकत्वघटितं सन्दिग्धोपाधित्वमुक्तमत एव सामग्री चकुत्रचिन्नोपाधिर्न तु सर्वत्रेत्युक्तमिति योजना। यत्र सामर या नोपाधित्वं तदेव विवृणोति - साध्येति। साध्यसामग्र या वह्निमान् धूमात् इत्यत्र वह्रिसामा या / व्याप्तिग्राहकम् धूमेन सह व्याप्तिग्राहकम् / व्याप्तिग्राहकः धूमवढ्योः व्याप्तिग्राहकः कार्यकारणभावः। स एव कार्यकारणभावः धूमवह्रिसाम योरपि परम्परया व्याप्तिग्राहकः / तत्र च वह्निमान् धूमात् इत्यत्र सामग्री वह्निसामग्री नोपाधिः / यत्र स श्यामो मित्रातनयत्वात् इत्यत्र / तत् श्यामसामग्रीमित्रतनयत्वयोर्व्याप्तिग्राहकं नास्ति / तत्र श्यामो मित्रातनयत्वात् इत्यत्र श्यामसामग्री उपाधिः / ग्रन्थान्तरं संवादयति - उक्तमिति। उक्तं क्वचिदित्यनेन। तथा च क्वचिन्नोपाधिरित्युक्तौ न सर्वत्रेति लभ्यते। तथा