________________ उपाधिवादः अनुमितिप्रतिबन्धवत् व्यभिचारभ्रमात्व्याप्तिग्रहप्रतिबन्धेऽपिनक्षतिरिति।नहितत्रभ्रमात् वस्तुतो बाधसिद्धिरिति भावः / गर्भस्थमित्रातनये मित्रातनयत्वावच्छिन्नश्यामत्वव्यापकत्वेन गृहीतशाकपाकजत्वस्य सन्देहे सौकर्यात् तदेवोदाहरति - मित्रातनयत्वेनेत्यादि मूलम् / मित्रातनयत्वेन सागर्भस्था व्यक्तिः श्यामा मित्रातनयत्वात् इत्यत्र शाकाद्याहारपरिणतिजत्वं शाकपाकजत्वमिति यावत् / शाकाहारपरिणामेन जायते यो रसस्तेन आरभ्यते यद्वपुस्तत् श्यामं भवतीतिवैद्यकाद् गृहीतं तादृशरसारभ्यत्वं गर्भस्थशरीरे[35B] वर्तते न वेति सन्देहात् साधनाव्यापकत्वसन्देहेन सन्दिग्धोपाधित्वम्।तत्रेति मूलम्। तत्रमित्रातनयत्वहेतोः श्यामत्वव्यभिचारसंशयाधायकत्वेन सन्दिग्धोपाधित्वम् / न तु प्रकृते श्यामत्वरूपसाध्यव्यापकत्वेन गृहीतस्य साधनाव्यापकत्वसन्देहादेवोपाधे सन्देहो वाच्यः / तत्र बहिःस्थेषु मित्रातनयेषु कार्यत्वेन श्यामत्वेनैव कारणस्य शाकपाकजत्वस्यानुमानान्न तत्र साधनाव्यापकत्वम्।गर्भस्थव्यक्तौ तु कार्यस्यश्यामत्वस्य सन्देहात्नशाकपाकजत्वस्य निर्णयः तन्निर्णायकत्वविरहात् / तत्रैव साधनाव्यापकत्वसन्देहात् तदेव सन्दिग्धोपाधेरुदाहरणम् / तत्र च शाकपाकजत्वस्य निर्णायक हेतुमुपन्यस्य सन्दिग्धोपाधेरुदाहरणं दूषयितुमाशङ्कते-नचेति मूलम्। तेनैव हेतुना [मित्रातनयत्वेनैव हेतुना] / श्यामत्वस्येतिमूलम्। श्यामत्वमुपाधिः, श्यामत्वस्य मित्रातनयत्वावच्छिन्नशाकपाकजत्वरूपसाध्यव्यापकत्वात्। गर्भस्थमित्रातनये साधनाव्यापकत्वसन्देहात् स एव सन्दिग्धोपाधेरुदाहरणं भविष्यतीति भावः / तथा च सन्दिग्धोपाधेरिदमेवोदाहरणं भविष्यतीति / तथा चोदाहरणविरहात् न सन्दिग्धोपाधेरसिद्धिरिति भावः / ननु न तदपि उदाहरणं भविष्यति, मित्रातनयत्वेन हेतुना गर्भस्थे मित्रातनये शाकपाकजत्ववत् श्यामत्वस्यापि साधनात् तथा च साधनाव्यापकसन्देहविरहात् न सन्दिग्धोपाधित्वमिति कथं सन्दिग्धोपाधित्वेन तदुदाहतमित्याशङ्कार्थः। समाधत्ते - अर्थान्तरमिति। अनभिमतसाध्यसाधने एवार्थान्तरत्वम्। तथा चात्र श्यामत्वे एव विवादात् तस्यैव साधनौचित्यात् शाकपाकजत्वसाधनस्य अर्थान्तरत्वमिति / यदि चोभयत्रापि विवादः इति स्वीक्रियते तदोभयोः साध्ययोस्तत्र सन्देहात् मिथः सन्दिग्धोपाधित्वमक्षतमिति / न चोदाहरणविरहात् सन्दिग्धोपाधित्वं नेत्यपि निर्णीतम् / आपातत इति टीका / यत्र विवादस्तदसिद्धावेतन्पमा(तन्मा)त्रसाधने एवार्थान्तरमित्यभिप्रायेणाह - आपातत इति। उभयसाधने श्यामत्वशाकपाकजत्वयोः साधने। प्रत्येकमिति। सश्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वमुपाधिः, स शाकपाकजः मित्रातनयत्वादित्यत्र श्यामत्वमुपाधिरिति दूषणं द्रष्टव्यम्। भ्रान्तः शङ्कते - न चैवमिति मूलम् / एवं साध्यव्यापकत्वादिसन्देहात् सन्दिग्धोपाधित्वे / धूमादिति / वह्निमान् धूमात् इत्यत्र वह्रिसामग्री उपाधिः स्यात् / वह्निसामग्रीति / सामग्र या अतीन्द्रयत्वात् तस्या एव सन्दिग्धोपाधित्वमुपन्यस्तम्।वह्निनेवेतिमूलम्।यथा वह्नः धूमव्यापकत्वं तथा वह्निसामा याअपिधूमव्यापकत्वं