________________ 74 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका विवादो न तूभयत्र / न चैवं धूमात् वह्नयनुमानेऽपि वह्निसामग्र युपाधिः स्यात्, तत्र वह्निनेवतत्सामर यापिसमंधूमस्यानौपाधिकत्वनिश्चयात्, अत्रतु मित्रातनयत्वव्याप्यश्यामसामग्र या स्थातव्यम् इत्यत्र कार्यकारणभावादीनां व्याप्तिग्राहकाणामभावात्। / अथ उपाधिविभागनिरूपणम् / उपाधिविभागसङ्गतिमाह - प्रसङ्गादितिटीका।स्मृतस्यापेक्षानर्हत्वात् इति। तथा च सर्वत्रोपाधिव्यभिचारस्य साध्याव्यभिचाराननुमापकत्वेऽपि व्यभिचारसंशायक(को)त्थापनद्वारा सन्दिग्धोपाधेरपि दूषकत्वं मन्वान आह - सचेतिमूलम्।सचायं निरुक्तोपाधिः द्विविधः - निश्चितः सन्दिग्धश्च। निश्चितः [35A]साध्यसमानाधिकरणत्वे सति साध्यव्यभिचारिसाधनाव्यापकत्वेन निश्चितः / सन्दिग्धोऽप्युपाधिस्तत्प्रकारेणैव / इत्थं च सद्धेतौ कदाचिदुपाधिभ्रमेणैव तथा सन्देहेऽपि न सन्दिग्धोपाधित्वं साधनस्य साध्यव्यभिचारविरहादिति भावः / निश्चितोपाधिमाह -साध्यव्यापकत्वेनेतिमूलम्।साध्यव्यापकत्वेन साध्यसमानाधिकरणत्वेनसाध्यव्यभिचारिसाधनाव्यापकत्वेन निश्चितः / तेन अवच्छिन्नसाध्यव्यापकस्थले नाव्याप्तिः / व्यापकत्वाभिधानं यन्मूले तद् दूषयत्यभिप्रायेण।व्यापकव्यभिचारे व्याप्यव्यभिचारस्यावश्यंभावात् इतिभावः। तदेवोदाहरति- वह्निमत्त्वेनेति / वह्निमत्त्वेन वह्निना धूमत्वसाधने मतुपो व्यर्थत्वात् / तथा च धूमवान् वढेरित्यत्र आर्टेन्धनप्रभववह्रिमत्त्वम् आर्टेन्धनप्रभववह्निः। ननु उक्तोपाधेः सन्देहदशायामेव सन्दिग्धोपाधित्वेन किं यत्रेत्यादि विशेष्यकथनेनेति चेत्, न, उपाधेः सन्देहमात्रस्य न प्रतिबन्धकत्वं न वा व्यभिचारोन्नायकत्वं न वा तदुन्नीतव्यभिचारज्ञानस्य पक्षीयस्वारसिकव्यभिचारसंशयवत् प्रतिबन्धकत्वम्। तथा सति जितं चार्वाकैः, सर्वत्र साध्यसाधने ऐन्द्रियकोपाधिसामान्यशून्यत्वग्रहेऽपि अतीन्द्रियोपाधेर्व्यतिरेकं निर्णेतुमशक्यत्वात्। तस्यैव सन्देहात् तदुन्नीतव्यभिचारसन्देहे न कुत्रापि व्याप्तिनिर्णयः स्यात्। तथा च तादृशव्याप्तिनिर्णयविरहादेवानुमितेरप्रामाण्यमिति वादिभिः चार्वाकैरेव जितस्यात्। तथा चोभयवादिसमाधेयतया तादृशसंशयस्याप्रतिबन्धकत्वं वाच्यम्। तथा च उपाधिसामान्यसंशयस्य न प्रतिबन्धकत्वम्, किन्तु विशिष्याकारेणैव / तत्र यो विशेषस्तदाह - यत्रेति मूलम् / धूमवान् वह्नः इत्यत्रापि साध्यव्यापकत्वेन निर्णीतस्याइँन्धनवह्नयव्यापकत्वस्य संशयदशायां सन्दिग्धोपाधित्वम्, तत्रैव साधनाव्यापकत्वेन निर्णयदशायां साध्यव्यापकत्वेन संशयदशायामपि सन्दिग्धोपाधित्वम् / एवं तत्रैव साध्यव्यापकत्वांशेऽपि यदा सन्देहस्तदोभयसन्देहदशायामपि सन्दिग्धोपाधित्वम् / यत्रैव वस्तुत उपाधित्वं तत्रैव सन्देहदशायां सन्दिग्धोपाधित्वम् / न तु वह्रिमान् धूमात् इत्यत्र व्यञ्जनवत्त्वादेः साध्यव्यापकत्वदशायां सन्दिग्धोपाधित्वम्, वस्तुतस्तत्र उपाधिविरिहात्। न हि भ्रमात् वस्तुसिद्धिः। व्याप्तिग्रहप्रतिबन्धस्तु बाधभ्रमात् /