________________ उपाधिवादः 73 टीका / साध्यावैशिष्ट्यपदम् अन्यथा व्याचष्टे / साध्यवदिति टीका / अवैशिष्टयम् अविशेषः / अविशेषोऽपि पक्षवृत्तित्वं संशयविषयतया। तथा च वहिधूमव्यभिचारी धूमव्यापकोपाधिव्यभिचारित्वात् इत्यत्र हेतोः वह्नौ धूमव्यभिचारित्ववत्धूमव्यापकव्यभिचारित्वमपि सन्दिग्धमेव इत्येवसाध्यावैशिष्ट्यम्।तथा चसाध्यव्यभिचारस्य न कदाचिदपि साध्यव्यभिचारोन्नायकत्वमिति साध्यव्यापकव्यभिचारित्वस्य न साध्यव्यभिचारव्यापकतावच्छेदकत्वमिति / तथा च साध्यव्यापकव्यभिचारित्वज्ञानमप्रयोजकत्वशङ्कानिराकरणद्वारोपयुज्यते इत्याह - उपाधिव्यभिचारित्वमेवेति। उपाधिव्यभिचारित्वमार्टेन्धनप्रभववहिव्यभिचारित्वम्, तत्र चाप्रयोजकशङ्कायामार्दैन्धने साध्यव्यापकतोपन्यासात्। तथाचव्यापकव्यभिचारे व्याप्यव्यभिचारस्यावश्यंभावनियमादिति भावः / तथा चप्रकृते धूमव्यभिचारसाधने धूमव्यभिचार एवार्दैन्धनव्यभिचारवत् उपन्यसनीयः। न तुधूमव्यापकव्यभिचारित्वप्रकारेण उपन्यसनीयः।धूमव्यापकत्वस्य धूमार्टेन्धनसाधारणस्यैकस्याभावात् विशिष्य विशिष्य वक्तव्यं धूमत्वप्रकारेण आर्टेन्धनत्वप्रकारेण / तथा च धूमव्यभिचारित्वेनैवोपन्यसनीयः / इत्थमेव च साध्याविशेष इति भावः / अत्रेदमिति टीका।सद्धेतौ वह्निमान् धूमात् इत्यादौ साध्यस्य वह्नः धूमाव्यापकत्वविरहादेवानुपाधित्वम् उपाधित्वविरहः कथमनुमितिमात्रोच्छेदप्रसङ्ग इति पूर्वपक्षः / अनन्तरेति टीका / साधनव्यापकोऽप्युपाधिरिति वादिमते इदं दूषणम् अनुमितिमात्रोच्छेदरूपं दूषणम्। यत्र पक्षावृत्तिर्हेतुः तत्रैव तस्यावकाशः, प्रकृते तुपक्षे पर्वते धूमस्य वृत्तित्वात् न प्रकृते सम्भवतीति भावः। तथा च कथं मूले अनुमितिमात्रोच्छेदप्रसङ्ग इति चिन्त्यम् / तद्बीजं तु साध्यस्यानुपाधित्वेऽपि उपाधित्वप्रकारेण सन्देहात् तत्संशयाहितसाध्यसंशयस्यानुमितिप्रतिबन्धकत्वात् अनुमितिमात्रोच्छेद इति। न च साध्यनिर्णयस्थले सिसाधयिषयाऽनुमितेरनुच्छेद इति वाच्यम्। तत्रापि प्राचां मते पक्षताघटिततया संशयस्यावश्यं स्वीकारात् / अन्यानाहितपक्षीयसाध्यसन्देहस्यैवाप्रतिबन्धकत्वात् / यन्मते साध्यमप्युपाधिः तन्मते सर्वस्यैव साध्यसंशयस्यान्याहितत्वात् संशयस्थलीयानुमितिमात्रोच्छेदः इति। ।अथोपाधिविभागः। - स चायं द्विविधः निश्चित: सन्दिग्धश्च / साध्यव्यापकत्वेन साधनाव्यापकत्वेन च निश्चितो व्यभिचारनिश्चयाधायकत्वेन निश्चितोपाधिः यथा वह्निमत्त्वेन धूमवत्त्वे साध्ये आर्टेन्धनप्रभववह्निमत्त्वम् / यत्र साधनाव्यापकत्वसन्देहः साध्यव्यापकत्वसंशयो वा तदुभयसन्देहो वा तत्र हेतुव्यभिचारसंशायकत्वेन सन्दिग्धोपाधिः यथा मित्रातनयत्वेन श्यामत्वे साध्ये शाकाद्याहारपरिणतिजत्वम् / न च तेनैव हेतुना शाकपाकजत्वमपि साध्यम्, तत्र श्यामत्वस्योपाधित्वादुभयस्यापि साधने अर्थान्तरं श्यामत्वमात्रे हि