________________ 72 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका स्पर्शस्य नोपाधित्वेन तान्त्रिकव्यवहार इति। __ साध्यं चेति मूलम्।साध्यं नोपाधिः वादकथायांनोपाधित्वेन उद्भावनीय इतिभावः / अन्यथा धूमवान् वह्नः इत्यत्र धूमस्य साध्यव्यापकतया साधनाव्यापकतया च उपाधित्वं केन वारणीयम् ? परन्तु वादकथायां नोद्भावनीयः तद्व्यभिचारेण साध्यव्यभिचारसाधने साध्याविशेषादिति / अत एवोक्तम् - व्यभिचारे वाऽन्ततः साध्यं स एवोपाधिः, अन्यथा साध्यस्यानुपाधित्वे स ग्रन्थोऽपि न सङ्गच्छेत। वादकथायामुपन्यसनीये बीजमाह - व्यभिचारसाधनेति मूलम्। यथा धूमवान् वह्नः इत्यत्रधूमस्यैवोपाधित्वेधूमव्यभिचारेणधूमव्यभिचारसाधने साध्याविशेषः साध्याविशिष्टत्वादिति। तथा चपक्षे वह्निरूपहेतौवृत्तित्वसन्देहात् कथंसाध्यव्यभिचारं साधयेत् / तथा चपक्षधर्मतानिर्णयस्यैवसाध्यसाधकत्वात्प्रकृते चतद्विरहः। एवं व्याप्तिग्रहकाले एवपक्षे साध्यसिद्धिसत्त्वात् पक्षताविरहोऽपि द्रष्टव्यः / ननु सन्दिग्धोपाधिरेवास्तु साध्यम्, नहिसन्दिग्धोपाधिस्थले पक्षधर्मतानिर्णयोऽपेक्ष्यते येन साध्यं नोपाधिः स्यात् इत्याशक्य दूषणान्तरमाह - अनुमितीति / अनुमितिमात्रम् अनुमितिकारणीभूतव्याप्तिज्ञानमात्रम् / सर्वत्र साध्यसन्देहेन पक्षे साध्यको(?स्यो)पाधित्वात् / उपाधिसन्देहाधीनसाध्यपक्षीयसाध्यसन्देहस्य प्रतिबन्धकत्वात् / इति अनुमितिमात्रमुच्छिद्येतेत्यर्थः / यत्र पक्षावृत्तिर्हेतुरित्यत्र पक्षावृत्तिपदस्य कृत्यमाह - हेतोरिति टीका।हेतोः पक्षवृत्तित्वे हेतुव्यापकीभूतोपाधेरपि पक्षवृत्तित्वमवश्यं वाच्यम् / तथा च उपाध्यभावेन पक्षे साध्याभावसाधने उपाध्यभावः पक्षे न वर्तेत। तथा च हेतोः स्वरूपासिद्धतया कथं साध्याभावसाधकत्वम् ? बाधादीति टीका। बाधाद्यनुपस्थापकत्वात् पक्षे साध्याभावासाधकत्वादित्यर्थः / ननु भेदेनैव व्याप्यव्यापकभावे न त्वभेदेनैवेति मतमवलम्ब्याह - नन्विति मूलम्।साध्यरूपे उपाधौ उक्तलक्षणं साध्यव्यापकत्वे सतिसाधनाव्यापकत्वरूपम् अव्यापकम्, भेदेनैव व्याप्यव्यापकभावात्।नहिस्वंसाध्यंस्वस्यव्यापकम्, स्वस्मिन् स्वभेदविरहात्। तस्य व्यापकत्वस्यस्वाव्यावर्तकत्वात्, स्वस्मिन् वर्तमानत्वात्, व्यापकत्वस्य भेदघटितत्वात् इति भावः / यथा लक्ष्यतावच्छेदके न सङ्ग्राह्यत्वं तथा लक्षणेऽपि न सङ्ग्राह्यत्वम् / लक्ष्यतावच्छेदके असङ्ग्राह्यत्वस्य बीजमाह - साध्याविशेषादिति टीका / तथा च साध्याविशेषात् तद्व्यभिचारेण न स्वाव्याभिचारोन्नायकत्वमिति। न यद्वयभिचारेणेत्यादि लक्ष्यतावच्छेदके न तस्य साध्यस्य सङ्ग्रहः / तथा च लक्ष्यत्वविरहात् तत्र लक्षणागमनेऽपि नाव्याप्तिरिति भावः / अत्रापि लक्षणेऽपि साध्यावैशिष्ट्यस्य प्रकारान्तरेण साध्यतावच्छेदकभिन्नप्रकारेण उपन्यासेन दूषणत्वमित्याशङ्कते - यद्यपीति टीका / [34 B] अयं वह्निः साध्यव्यभिचारी धूमव्यभिचारी धूमव्यापकव्यभिचारित्वात् / उपाधिभेदात् साध्यतावच्छेदकापेक्षया उपाधिव्यभिचारस्य भेदात् न साध्यावे(वै)शिष्टयम्, तथा चेत्थं साध्यव्यभिचारस्य साध्यव्यभिचारसाधने लक्ष्यतावच्छेदकाक्रान्ततया तत्र लक्षणमव्याप्तमित्याशङ्कार्थः / समाधत्ते - तथापीति