________________ उपाधिवादः नास्ति। पक्षावृत्तीति। साधनव्यापकतानिर्वाहाय / अन्यथा पक्षे हेतुसत्त्वे साध्यव्यापकत्वे सति पक्षावृत्तित्वरूपोपाधेः नसाधनव्यापकत्वसम्भवः पक्षेएव[33B]साधनाव्यापकत्वादितितन्निर्वाहाय पक्षावृत्तिर्हेतुरित्युक्तम् / दृष्टान्तेन द्रढयति - यथेति मूलम् / करका पृथिवी कठिनसंयोगवत्त्वात् इत्यत्रानुष्णाशीतस्पर्शवत्त्वमुपाधिः अनुष्णाशीतस्पर्शस्य पृथिवीत्वव्यापकत्वात् / तदभावस्य पृथिवीत्वाभावव्याप्यत्वात् / अनुष्णाशीतस्पर्शस्य पक्षावृत्तित्वात् / तदभावस्य पक्षवृत्तित्वात् / कठिनसंयोगाभावे व्याप्तिपक्षधर्मतावत्त्वात् / पृथिवीत्वाभावसाधकत्वेन करकायां बाधोन्नायकत्वं द्रष्टव्यम् / साध्याभावसाधकत्वेनैव बाधकत्वात् / अनुष्णाशीतस्पर्शस्य पृथिवीत्वव्यापकत्वेन तदभावस्य पृथिवीत्वाभावव्याप्यतया करकावृत्तितयाचव्याप्तिपक्षधर्मतावत्त्वम्, करकायां तुन कठिनसंयोगो वर्तते अत एव साधनव्यापकत्वमपि कठिनसंयोगस्य पृथिवीमात्रवृत्तित्वादिति भावः / ननु तत्र किमुपाधिना किंवा तदुनीतबाधज्ञानेन?, अनुमितिप्रतिबन्धस्तु स्वरूपासिद्धेरेव सम्भवादित्यत आह - नचेति मूलम् / समाधत्ते - सर्वत्रेति मूलम्। सर्वत्र व्यभिचारिणि उपाधेर्दूषणान्तरसत्त्वात्। अन्ततः व्यभिचारस्याप्रयोजकत्वस्य सत्त्वात् / तथा च तत्तदूषणान्तरास्फूर्तिदशायां तत्तदुपयुज्यते इति चेत् तदा प्रकृतेऽपि दीयतां दृष्टिः, तदस्फूर्तिदशायां स्वरूपासिद्धयस्फूर्तिदशायां बाधोनायकतयोपाधिरुपयुज्यते इति भावः / आहुरिति अस्वरसोद्भावनं तद्बीजंतु सर्वतान्त्रिकसम्मतत्वम्।अन्यथा सिद्धसाधनस्यापिआश्रयासिद्धयुन्नायकतया तस्याप्युपाधितापत्तेः / न हि हेत्वाभासमात्रोनायकतयैवोपाधित्वम् अतिप्रसङ्गादिति भावः / केचित्त्वित्यादेरनभिमतबीजमस्वरसबीजं वर्णयति। ____ अत्रेदमिति टीका। अत्र बाधोनायकोपाधौ अस्वरसबीजं सोपाधौ व्यभिचारसाधने अवश्यं व्यभिचार इति सर्वतान्त्रिकसम्मतत्वात् / प्रकृते च व्यभिचारविरहात् पृथिवीत्वस्य कठिनसंयोगाभावव्यापकत्वात् / न हि कठिनसंयोगः पृथिवीत्वव्यभिचारी येन तत्रोपाधिः स्यात् / तथा च व्यभिचारस्योपाधिव्यापकस्य विरहात् कथमुपाधिसत्त्वमिति।अत्राव्यभिचारित्वे उपाधिव्यापकस्य व्यभिचारस्याभावसत्त्वेतदसम्भव उपाधेरसम्भवः / उपाधेळभिचारव्याप्यत्वमेव नास्तीत्यत आह - न चेति टीका। तत्र धूमवद्वहः इत्यत्र व्यभिचारोन्नायकस्य यथा दूषकत्वं तथा वहिरनुष्णः कृतकत्वात् इत्यत्र बाधोनायकस्यापि दूषकत्वं तथा प्रकृतेऽप्यस्तु / तथा च बाधोन्नायकतयाऽपिउपाधेर्दूषकत्वम्।नचोपाधेर्व्यभिचारव्याप्यत्वम् अप्रयोजकत्वादिति।एवं हेत्वाभासोन्नायकतयैवोपाधित्वे / अनुमितिरिति टीका / अनुमितेविरोधी प्रतिबन्धकतावच्छेदकः / तदुपस्थापकमात्रस्यैव मात्रपदं काार्थम्। उपाधित्वे उपाधित्वाङ्गीकारे।अप्रयोजकत्वादेरितिटीका।अप्रयोजकत्वादेरसिद्धयुन्नायकत्वादेरपि / [34 A] तदन्तर्भावेति। उपाध्यन्त वापत्तेः / तत्रेति। अप्रयोजकत्वादौ।वृद्धव्यवहाराभावात् वृद्धस्य तान्त्रिकस्योपाधित्वेन व्यवहाराभावात्।न तथात्वं न तस्योपाधित्वम् इति यदि तदा व्यभिचारिणीति।साधनाव्यापकस्यैव उपाधित्वेन वृद्धव्यवहारात् अस्यापि व्यभिचारशून्यस्य कठिनसंयोगस्य तद्व्यापकस्यानुष्णाशीत