________________ 70 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका साधनव्यापकत्वेनेति टीका / तत्र साधनव्यापकत्वमित्यकिञ्चित्करं स्वव्यतिरेकाप्रसिद्धरित्यपि द्रष्टव्यम् / वहीति टीका। वह्निधूमसम्बन्धस्य निरुप(पा)धित्वात्। न हीति टीका।न हि वह्निधूमसम्बन्धोपाधित्वमापाद्यं येनापाद्याप्रसिद्धिः स्यात् / किन्तु वह्निधूमसम्बन्धे पर्वतेतरत्वस्योपाधित्वमापाद्यते। तत्तु प्रसिद्धमेव / एतच्चेति टीका / एतत् पक्षेतरत्वस्योपाधित्वं पर्वतेतरत्वस्योपाधित्वं पर्वते बाधितसाध्यके पर्वते बाधितं साध्यं यस्य साधनस्य पर्वतावृत्तिसाध्यकपर्वतवृत्तिहेतौ पर्वतेतरत्वस्योपाधित्वं प्रसिद्धम् / तथा च नापाद्याप्रसिद्धिः / न चेत्यादिग्रन्थस्यान्यथा विवरणं केचित् कुर्वन्ति। धूमाव्यापकत्वेनेति। पर्वतो वह्निमान् धूमात् इत्यत्र धूमाव्यापकत्वेन धूमसमानाधिकरणात्यन्ताभावप्रतियोगित्वेन निश्चिते साधनाव्यापकत्वेन निश्चिते साध्यव्यापकत्वम् आपाद्यं तथा चाप्रसिद्धिः, वह्रिव्यापकत्वस्य वह्रिसाम याऽप्रसिद्धत्वात् / व्यतिरेकिधर्मत्वमुपाधिलक्षणं दूषयति-तन्नेतिमूलम्।अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकम् अनुमितिकारणीभूतव्याप्तिज्ञानप्रतिबन्धकव्यभिचारज्ञानं तद्विषयतावच्छेदकं यद् रूपं साध्यव्यभिचारित्वंतन्निरूपितव्याप्यताशालिव्यभिचारिप्रतियोगित्वमुपाधित्वं वाच्यम् / तादृशं चोपाधित्वं न व्यतिरेक(कि)धर्मवत्त्वम् अतिप्रसङ्गात् / वह्निमान् धूमात् इत्यत्र व्यतिरेकिधर्मज्ञानेऽपि अनुमितिकारणीभूतव्याप्तिज्ञानाप्रतिबन्धादिति अर्थः / विशेषलक्षणे साध्यव्यापकत्वे सति साधनाव्यापकत्वलक्षणे वह्रिधूमसम्बन्धे पर्वतो वह्निमान् धूमात् इत्यत्रापि पर्वतेतरत्वस्योपाधित्वप्रसङ्गादित्यर्थः / यथा सत्प्रतिपक्षोत्थापकतयाऽपि दूषकत्वं सम्भवत्येव तथा बाधोत्थापकतयाऽपि दूषकत्वम् / उपाधिस्तु नस्वतो दूषकः किन्तु हेत्वाभासोत्थापनद्वारा। तच्चहेत्वाभासत्वं साधारणादिपञ्चहेत्वाभाससाधारणमेवेति भावः / तथा च सत्प्रतिपक्षोत्थापने बाधोत्थापने च यत् प्रयोजकं तदेवाह - साध्येति टीका। साध्यव्यापकत्वं तु साध्याभावसाधकतयोपयुज्यते व्यापकाभावस्य व्याप्याभावव्याप्यत्वात् / पक्षावृत्तित्वं पक्षे साध्याभावसाधने साध्यव्यापकाभावरूपव्याप्यस्य पक्षधर्मतालाभाय / यथा ह्रदो वह्निमान् धूमात् इत्यत्र वह्रिसामग्र याः साधनव्यापकत्वेऽपि धूमव्यापकत्वेऽपि साध्यव्यापकतया तदभावस्य साध्याभावव्याप्यतया ह्रदरूपपक्षे वृत्तितया च साध्याभावसाधकत्वं वर्तते एव वह्नयभावनिरूपितव्याप्तिपक्षधर्मतासत्त्वात् / यथा ह्रदो न वह्निमान् वह्रिसामग्रीविरहात् इत्यत्र वह्रिसामग्रीविरहस्य व्याप्तिपक्षधर्मतावत्त्वमिति भावः। केचित्तु साधनव्यापकोऽप्युपाधिः क्वचिद् यत्र पक्षावृत्तिर्हेतुः यथा करका पृथिवी कठिनसंयोगात् इत्यत्रानुष्णाशीतस्पर्शवत्त्वम्।नचतत्रस्वरूपासिद्धिरेवदोषः, सर्वत्रोपाधेर्दूषणान्तरसङ्करादित्याहुः।साध्यं च नोपाधि: व्यभिचारसाधने साध्याविशिष्टत्वात् अनुमितिमात्रोच्छेदप्रसङ्गाच्च। क्वचिदिति मूलम् / क्वचिद् ह्रदो वह्निमान् धूमात् इत्यादौ / तत्र पक्षावृत्तिः हेतुः, पक्षो हृदः, तत्र हेतुडूंमो