________________ उपाधिवादः सिद्धयतीति पक्षधर्मताबलात् विशेष्याभावसिद्धिस्तथा चानित्यत्वाभावमादाय सिद्धयतीति / दृष्टान्तेन तदेव दृढयति-तथेति। उभयत्रापिपक्षेवायौध्वंसेच।साध्याभावेति।विनाशित्वाभावसिद्धया प्रत्यक्षत्वाभावसिद्धया च।साध्यसाधनसम्बन्धाभावः विनाशित्वजन्यत्वाभावः प्रत्यक्षत्वप्रत्यक्षस्पर्शाश्रयत्वाभावश्च वर्तते। अत एवेति मूलम्। यत एव साध्यव्यापकत्वमुपाधेरुक्तं स्वनिवृत्त्या पक्षे साध्याभावसाधकत्वं वाअतएव इत्यर्थः / बाधानुनीतेति / पर्वतो वह्निमान् धूमात् इत्यत्र पर्वतेतरत्वस्यानुपाधित्वम् उपाधित्वविरहः / तदभावस्य पक्षे साध्याभावासाधकत्वात्, साध्यस्यैव वह्नः पक्षे वर्तमानत्वात् / तदेव विवृणोति - स्वघातकत्वेनेति टीका। उपाधेः स्वव्याघातकत्वं कुतस्तदेव विवृणोति / तेनापि यथा पर्वतो न वह्निमान् पर्वतेतरत्वविरहात् इत्यत्रापि पर्वतेतरत्वमुपाधिः स्यादित्यर्थः / स्वव्यतिरेकेति टीका / स्वव्यतिरेकद्वारा स्वस्य पक्षेतरत्वस्य व्यतिरेकद्वारा अभावात्मकलिङ्गज्ञानद्वारा साध्याभावसाधक इत्यर्थः / पक्षे पर्वतादौ साध्याभावसाधने तत्रापि पक्षेतरत्वं पर्वतेतरत्वमुपाधिः स्यात् इत्येव स्वव्याघातकत्वप्रसङ्गेनेत्यस्यार्थः / - यत्तूपाधिमात्रस्य लक्षणं व्यतिरेकिधर्मत्वं पक्षेतरोऽपि क्वचिदुपाधिः, तत्तदुपाऽस्तु तत्तत्साध्यव्यापकत्वे सति तत्तत्साधनाव्यापकत्वम् / न च धूमवह्निसम्बन्धोपाधिः पक्षेतरत्वं स्यादिति वाच्यम् / आपाधाप्रसिद्धेरिति / तन्न / अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकमुपाधित्वमिह निरूप्यं तच्चन व्यतिरेकित्वमतिप्रसङ्गात् विशेषलक्षणे वह्निधूमसम्बन्धे पक्षेतरस्योपाधित्वप्रसङ्गात् च। यत्त्विति मूलम् / उपाधिमात्रस्य उपाधिसामान्यस्य / व्यतिरेकाकिधर्मत्वं वृत्तिमत्त्वे सति अत्यन्ता. भावा(व)प्रतियोगित्वम् / गगने अतिव्याप्तिवारणाय वृत्तिमत्त्वे सतीति / न हि गगनं कुत्रापि उपाधिर्भवति / तद्व्यतिरेकेण कुत्रापि साधनवति साध्याभावासाधनात्। गगनस्य केवलान्वयित्वात्। अत्यन्ताभावप्रतियोगित्वं विशेषणं केवलान्वयिन्यतिव्याप्तिवारणाय न हि केवलान्वयी कुत्रापि साध्ये उपाधिर्भवति। तद्व्यतिरेकस्यैवाप्रसिद्धेः / नन्वेवं पर्वतेतरत्वमपि उपाधिः स्यात् तस्यापि व्यतिरेकिधर्मत्वात् / क्वचिदिति मूलम् / पर्वतो जलं पाषाणवत्त्वात् इत्यत्र पर्वतेतरत्वमुपाधिः। ननु कुत्र कउपाधिरिति विशिष्यनिर्वक्तव्यमिति।अत आह- तत्तदिति मूलम् / तत्तदुपाधेः धूमवान् वह्नेः इत्यत्र आर्टेन्धनत्वादेः / ननु वह्निमान् धूमात् इत्यत्र पक्षेतरत्वमुपाधिः स्यात् तस्यापि व्यतिरेकिधर्मत्वात् / व्यतिरेकिधर्मत्वेन साधनेन पक्षेतरस्य [33 A] धूमवह्निसम्बन्धोपाधित्वमापादनीयमिति शङ्कार्थः / .. आपाद्येतिटीका।धूमवह्निसम्बन्धोपाधित्वविरहात्धूमस्यवहिव्याप्यत्वेनारू(?त्वेन निरु)पाधिकत्वात् /