SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ 68 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका व्यभिचारनिरूपकाधिकरणइति यावत्।साधनवतिसाध्याभावाधिकरणेसाधनवतिसाध्याभावसाधनेस्वस्योपाधेः साध्यव्यापकस्याभावेन लिङ्गेन साध्याभावसाधने इत्यर्थः / व्यभिचारज्ञानद्वारा साधनस्य साध्यवद्वृत्तित्वद्वारा तस्योपाधेर्दूषकत्वं व्याप्तिग्रहप्रतिबन्धकत्वम्, न तु सत्प्रतिपक्षोत्थापकतयेत्यर्थः / नन्वेवं तन्निवृत्त्या च निवर्तते साध्यसाधनसम्बन्धाभाव इति न [स]गच्छते, भवता साध्याभावस्यैव साधनात् / इत्यत आह - साध्यसाधनेति टीका / यत्रेति / यत्र साधनवति साध्याभावः साध्यते तत्र साध्यसाधनसम्बन्धाभावोऽप्यस्तीति अभिप्रायेणैव मूलेनोक्तम्-साध्यसाधनसम्बन्धाभाव इति। न हि साध्यसाधनसम्बन्धाभावः साध्यते, अपि तु साध्याभाव इति / अत एवेति टीका। यत एव साध्याभावसाधने एव तात्पर्यम् अत एव यव्यावृत्त्या साध्यं निवर्तते इत्युक्तम्, न तु साध्यसाधनसम्बन्धो निवर्तते इत्युक्तम् / अत एवेति। यत एव साध्याभावे एव मूलस्य तात्पर्यम् अत एवेति तद्व्यावृत्त्या आर्टेन्धनव्यावृत्त्या साधनवति वह्निमिति धूमवत्त्वरूपं साध्यं व्यावर्तते तथा च व्यभिचारज्ञानद्वारा उपाधेर्दूषकत्वमिति भावः। अयोगोलकेति / अयोगोलकं धूमवद्वह्नेः इत्यत्रायोगोलक एव पक्षीकृतः / तत्रेति / यत एव साध्यं धूमो व्यावर्तते अत एव साध्यसाधनसम्बन्धाभावोऽपीत्यर्थः / अन्ये त्वित्यादि ग्रन्थं साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वमित्युपाधिलक्षणपरतया ये वर्णयन्ति तन्मतं दूषयति- अत्रेति टीका। तत्रेति टीका। तस्य साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वमिति लक्षणस्य पूर्वपक्षे पूर्वपक्षग्रन्थे दूषितत्वात् अव्याप्त्यादिदूषणैर्दूषितत्वात् / दूषणान्तरमाह - विरुद्धोऽपीति टीका। विरुद्धस्थले य उपाधिः यथा अयं गौः अश्वत्वात् इत्यत्र यथा सास्नावत्त्वं तस्य साधनावच्छिन्नसाध्यस्यैवाप्रसिद्धतया न साधनावच्छिन्नसाध्यव्यापकत्वमितिअस्मिन्मते यद्वयावृत्त्यासास्नावत्त्वव्यावृत्त्यासाधनवत्यश्वत्ववतिगोत्वसाध्यं निवर्तते इत्याधुक्तप्रकारेणतत्रापि लक्षणसमन्वयः इतिभवन्मते तु तत्राव्याप्तिः। एतेनेतिश्रितेन विरुद्धस्थलीयोपाधावव्याप्तिकथनेन साध्यसाधनसम्बन्धव्यापकत्वे सति [32 B] साधनाव्यापकत्वमित्युपाधिपरमेव। अन्ये त्वित्यादिग्रन्थः इत्यपि दूषितम् / तदेव विवृणोति - विरुद्ध इति / विरुद्धे साध्याभावव्याप्यसाधनस्थले अयं गौः अश्वत्वात् इत्यादौ। साध्येति / साध्यसाधनयोः सम्बन्धाभावः गोत्वाश्वत्वयोः सम्बन्धविरहादित्यर्थः / तदुपाध्यसङ्ग्रहात् विरुद्धस्थलीयोपाधेः सास्नावत्त्वादेः असङ्ग्रहः। एवमिति मूलम् / ध्वंसः अनित्यः ध्वंसप्रतियोगीति साध्यम्, अन्यथा ध्वंसप्रागभावप्रतियोगित्वरूपस्यानित्यत्वस्य सत्त्वात् जन्यत्वादित्यत्रभावत्वमुपाधिः, यतः भावत्वव्यावृत्त्या साधनाधिकरणे जन्यत्वाधिकरणे ध्वंसे साध्यसाधनयोः जन्यत्वानित्यत्वयोः सम्बन्धः जन्यत्वध्वंसप्रतियोगित्वयोः सम्बन्धः घटादौ प्रसिद्धः सामानाधिकरण्यमितियावत्।पक्षधर्मताबलात् विशेषणवतिविशिष्टाभावसिद्धो(द्धिः) विशेष्य(ष्या)भावमादाय
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy