________________ उपाधिवादः 67 साध्याभावसामानाधिकरण्ययोः विरुद्धतया साध्यसामानाधिकरण्यावच्छेदकतयोपाधेः सिद्धिरिति मूलोक्तं यथाश्रुतमेव न तत्र निपूरः कार्यः / अयं गौः अश्वत्वात् इत्यत्र गोत्वस्य अश्वत्वेन सह सामानाधिकरण्यविरहात् कुतस्तत्रसास्नावत्त्वस्योपाधित्वमिति।वायुः प्रत्यक्षः प्रमेयत्वात् इत्यत्र उद्भूतरूपवत्त्वस्य साध्यसामानाधिकरण्यन्यूनवृत्तितया न साध्यसामानाधिकरण्यावच्छेदकत्वमिति ध्येयम् / तथा च पूर्वम्] अस्मदुक्तविनिगमनाविरहरूपयुक्तिरेवोपाधेर्दूषकत्वे अनुसन्धेया / ननु मूलोक्तं साध्यसामानाधिकरण्यमिति क्वाचित्काभिप्रायेण, क्वचिदिति टीका। __अन्ये तु यद्वयावृत्त्या यस्य साधनस्य साध्यं निवर्तते स धर्मस्तत्र हेतौ उपाधिः। सच धर्मो यस्याभावान् पक्षे साध्यसाधनसम्बन्धाभावः यथा आर्टेन्धनवत्त्वं, व्यावर्तते हि तद्वयावृत्त्या धूमवत्त्वमयोगोलके / अत एव तत्र साध्यसाधनसम्बन्धाभाव: पक्षे एवं भावत्वव्यावृत्त्या ध्वंसे जन्यत्वानित्यत्वयोः सम्बन्धो निवर्तमान: पक्षधर्मताबलात् अनित्यत्वाभावमादाय सिद्धयति, तथा वायौ उद्भूतरूपवत्त्वं निवर्तमानं बहिर्द्रव्यत्वे सति प्रत्यक्षत्वं निवर्तयत् प्रत्यक्षत्वाभावमादाय सिद्धयति, तथा चोभयत्रापि पक्षे . साध्याभावसिद्ध्या साध्यसाधनसम्बन्धाभावोऽस्तीति / अत एव बाधानुन्नीतपक्षेतरस्यानुपाधित्वं स्वव्याघातकत्वेन तद्वयतिरेकस्य साध्याव्यावर्तकत्वादिति। अन्ये इति साधनवतिसाध्याभावाधिकरणीभूतसाधनाधिकरणे अयोगोलोकेयद्वयावृत्त्याआर्टेन्धनव्यावृत्त्या लिङ्गेन आर्टेन्धनाभावरूपव्याप्येनेत्यर्थः / साधनस्य वढेः / साध्यव्यावृत्तिः साध्यस्य धूमस्य व्यावृत्तिरभावववृत्तित्वम् / अनुमातुं शक्यते इति योग्यता विवक्षिता। सा च[व्याप्ति-]पक्षधर्मताभ्याम् / सा तूक्तैव / तस्मिन् साधने वह्रिरूपे स आर्टेन्धनमुपाधिरिति। सचेतिमूलम्।धर्म उपाधिरूपः आर्टेन्धनप्रभववढ्यादिरूपः यस्याभावादार्टेन्धनप्रभववढेरभावात्पक्षे साध्यशून्यसाधनवति।साध्येति।साध्यस्यधूमस्य।साधनस्यवहः।सम्बन्धाभावः तत्सामानाधिकरण्याभावः / [32 A)तदेवविवृणोति-आर्दैन्धनवत्त्वमिति।अतएवेतिमूलम्।यतएवसाध्यसाधनसामानाधिकरण्याभावमुपाधेः / पक्षे इति पदं यथाश्रुताभिप्रायेण दूषयति - एतच्चेति टीका। एतदुक्तप्रकारः पक्षावृत्तिः उपाधिः पक्षे अन्यथा पर्वते धूमवान् वढेरित्यत्र न सम्भवति, पक्षे पर्वते आर्टेन्धनव्यावृत्त्यभावात्, न तद्व्यावृत्त्या धूमव्यावृत्तिरिति भावः / हृदो वह्निमान् ह्रदत्वात् इत्यत्र वह्रिसामग्रीरूपोपाधौ तथा बोध्यम् / तथा च वह्निसामग्रीव्यावृत्त्या हृदे वहिव्यावृत्तिसम्भवादिति भाव / तदन्येति टीका / यत्र पक्षावृत्तिरुपाधिस्तदन्यस्थले अन्यत्रैव पक्षादन्यत्र