________________ 66 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका साध्यव्यभिचारोन्नायकत्वम्, न हि एकेनापरस्य अन्यथासिद्धिः इत्याशङ्कार्थः / विनिगमनादर्शनेन विनिगमनाविरहरूपं तर्कं दूषयित्वा अनुकूलतर्काभावेन उपाधेरन्यथासिद्धिं दर्शयति / उपाधेरात्मलाभार्थमनुकूलतर्काभावोपजीवकत्वेन तस्यैव दोषत्वादिति चेत् / न। सोपाधावेकत्र साध्यतदभावसम्बन्धस्य विरुद्धत्वात् अवच्छेदभेदेन तदुभयसम्बन्धो वाच्यः, तथाचसाधनेसाध्यसम्बन्धितावच्छेदकं रूपम् उपाधिरावश्यकः तथानुकूलतर्काभावोऽप्यावश्यक इति उभयोरपि विनिगमकाभावात् दूषकत्वात्। उपाधेरिति मूलम् / अनुकूलतर्काभावे उपजीव्यत्वरूपविनिगमनां दर्शयति - उपाधेरिति / उपाधेः आत्मलाभार्थं साध्यव्यापकत्वसिद्धयै अनुकूलतर्काभावस्यावश्यमपेक्षणीयत्वात् / तस्यैव दूषकत्वमस्तु किमुपाधिनेति शेषः / तस्यैव अनुकूलतर्काभावस्यैव दोषत्वादिति चेत् कथमुपजीवकत्वम् ? एतदेव विवृणोति - अनुकूलतर्कसत्त्वे हीति टीका / पुनरपि उपाधौ विनिगमनां दर्शयित्वा उभयत्र तुल्यविनिगमकत्वेन विनिगमनाविरहदर्शनेन सिद्धान्तयति।सोपाधावितिमूलम्।सोपाधौधूमवान् वढेरित्यादौ व्यभिचारिणि साधने, एकत्र वह्नयो(? वह्नौ) व्यभिचारिसाधने।साध्येति।साध्यो धूमः, तदभावः धूमाभावः, तयोः सम्बन्ध: [31 B] सामानाधिकरण्यम् अवच्छेदकभेदं विनादःस्थम्। तयोः साध्यसामानाधिकरण्यसाध्याभावसामानाधिकरण्ययोः विरुद्धत्वात् परस्पराभावव्याप्यत्वात्। तथाचेति।अवच्छेदकभेदोऽवश्यमपेक्षणीयः। यएव साध्यसामानाधिरण्यावच्छेदकःसएवोपाधिः। तथाचसामानाधिकरण्यावच्छेदकतयाअनुकूलतर्काभावमन्तरेणापि उपाधेरवश्यमपेक्षितत्वम्, नानुकूलतर्काभावेनोपाधेरन्यथासिद्धत्वम्न वोपाधिनाऽनुकूलतर्काभावस्यान्यथासिद्धिरित्युक्तमेव / उभयोरनुकूलतर्काभावोपाध्योः विनिगमनाविरहात् दूषकत्वम्, नैकेन अपरस्यान्यथासिद्धिरिति भावः / साधारणे इति टीका।व्यभिचारिणीति शेषः। विरुद्धसाध्ये इति टीका।अयंगोः अश्वत्वात् इत्यादौ साध्येन समं साधनस्य सामानाधिकरण्याभावेऽपि सास्नादिमत्त्वस्य उपाधित्वेन स्वीकारात् / विनिगमकाभावं विवृणोति - उपाध्यभाव इति टीका / यथोपाधेरात्मलाभार्थम् अनुकूलतर्कविरह उपजीव्यः तथा अनुकूलतर्काभावेऽपि उपाधेः सत्त्वमुपजीव्यम् / अनुकूलतर्काभावे कथमुपाधेरुपजीव्यत्वं तदाह - उपाध्यभाव इति टीका। उपाध्यभावे सति यत्रोपाधिरसामान्यपर(रा)न्यत्वं तत्र निरुपाधिसहचारदर्शनमेवानुकूलतर्कः, तथा चोपाधिविरहे सति अनुकूलतर्काभाव एव नास्ति / अनुकूलतर्काभावस्यापि आत्मलाभार्थमुपाधिरवश्यमपेक्षणीय इति भावः / उभयोः अनुकूलतर्काभावोपाध्योः। तथा चानुकूलतर्काभावे उपाधिरुपजीव्यः उपाधौ वाऽनुकूलतर्काभाव उपजीव्यः इत्युक्तमेव।तथा चमिथः उपजीव्यत्वाविशेषः। द्वयोरपि उपजीव्यत्वरूपविनिगमनासाम्ये एकत्राधिाकाबलविरहात् विनिगमनाविरहोद्रष्टव्यः। तथा चविनिगमनाविरहादेवोपाधेर्दूषकत्वम्।ननु साध्यसामानाधिकरण्य