________________ उपाधिवादः 65 चैवमिति / साध्यमपि नास्ति साध्याभावोऽपि नास्तीति [ता]दृशं स्थलमपि नास्ति, प्रतियोगितदभावान्यतरत्वावच्छिन्नस्य केवलान्वयित्वात्। तथाचेतिमूलम्।तथा चपक्षेतरत्वे साध्यव्यापकतदभावव्यापकत्वसन्देह एव / तथा च स्वयं सन्दिग्धः कथं परान् दूषयेदिति / इत्थमेव पक्षेतरत्वस्य नोपाधित्वमिति यत्तु वादिनो मतं निष्कर्षः / परं स्वयं साध्यं स्वव्यभिचारेण व्यभिचारोत्थापनद्वारा कथं दूषयेदित्यर्थः / इत्थमाकारेण पक्षेतरत्वस्य उपाधित्वदूषकं दूषयति। तन्नेतिमूलम्। तथापीतिमूलम्। तथापिपक्षेतरत्वस्य साध्यव्यापकत्वनिर्णयाभावेऽपि / साध्येति / साध्यव्यापकत्वप्रकारेण संशयमालम्ब्य तथा च स्वव्यभिचारेण व्याप्येन सन्दिग्धेन साधनान] साध्यव्यभिचारसंशयाधायकत्वात् सन्दिग्धोपाधित्वं स्यादिात्येव / तथा च कथमुक्तं स्वयं सन्दिग्धः कथं परं दूषयेदिति / स्वस्य सन्देहेऽपि [31 A] व्यभिचारसंशयाधायकत्वेन दूषाक]त्वमिति भावः। .. साध्यव्यापकताकोटिरिति टीका।साध्यव्यापकताकोटिकः संशय इत्यर्थः। उक्तरीत्या स्वव्याघातकत्वेन वस्तुतः साध्यव्यापकत्वविरहेण वासाध्यसमानाधिकरणत्वेसति साध्यव्यभिचारिसाध्यव्यापकत्वविरहेण वान पक्षेतरत्वमुपाधिरिति अस्मदुक्तं मतमेवाङ्गीकरणीयम्, भवदुक्तमतं तु असमीचीनं मत्वा इति भावः। तेनेति टीका / तेन स्वव्याघातकत्वेन उपाधित्वव्यतिरेकनिर्णयेन सन्दिग्धोपाधित्वमिति भावः / न तत्संशयाधायकत्वं साध्यव्यभिचारसंशयाधायकत्वं स्वस्य साध्यव्यापकत्वाभावनिर्णयात् इति भावः / अनुकूलतर्काभावेन उपाधेर्दूषकत्वम् अन्यथासिद्धयति। ननु यत्रोपाधिस्तत्रानुकूलतों यदि नास्ति तदा तदभावेनैव व्याप्तेरग्रहः,अथास्ति तदा साध्यव्याप्याव्यापकत्वेनोपाधिः साध्याव्यापकत्वनिश्चयात् नोपाधिरित्युभयथापि नोपाधिर्दूषणम्।नच व्याप्त्यभावव्याप्यमुभयमत उपाधिरपि तदभावोन्नयनेन दोष इति वाच्यम्। नन्विति मूलम् / पर्वतोऽयं धूमवान् वह्नः इत्यत्र यदि धूमवढ्योर्व्याप्तिग्राहकः अनुकूलतर्को नास्ति तर्हि तदभावादेव न धूमसाध्यकवह्रिसाधनकव्याप्तिग्रहः किमुपाधिना / अथास्ति तदा व्याप्यस्य वढेरव्यापकत्वा-- देवाट्टैन्धनस्यनधूमव्यापकत्वंतथा चसाध्यव्यापकत्वविरहात्कथमुपाधित्वंतस्य।इत्युभयथाऽपि उपाधेर्दूषकत्वं न स्यादित्याशङ्कार्थः / विनिगमनाविरहेणानुकूलतर्काभावे एवोपाधेरपि दूषकत्वं शङ्कते / न चेति मूलम् / व्याप्त्यभावव्याप्यं धूमवान् वः इत्यत्र धूमनिरूपिता या व्यापकता तन्निरूपिता या व्याप्तिः तदभावव्याप्यम्। उभयम् अनुकूलतर्काभाव उपाधिश्च / तथा च यथा धूमेन नालोकान्यथासिद्धिः विनिगमनाविरहात् उभयोरपि व्याप्यत्वात् वन्युन्नायकत्वमुभयोरपि, तथा अनुकूलतळभावस्य उपाधेश्च व्याप्त्यभावव्याप्यत्वात् उभयोरपि