________________ उपाधिवादः [30A] नतुलौकिकसुखत्वेनगौरवात्।तथा चेत्थं कार्यकारणभावे क्लृप्ते तन्मूलप्रवृत्तशरीरसहस्रकल्पनाया गौरवं फलमुखतया न दूषणावहंफलमुखगौरवस्यादूषणत्वात्। तथाप्रकृतेऽपिजन्यत्वेन नाशत्वेनैव कार्यकारणभावोऽस्तु लाघवात्, न तु जन्यभावत्वेन गौरवात् / न च ध्वंसधाराकल्पनरूपगौरवं दूषणावहम्, तस्यापि फलमुखत्वात्, स्वर्गीयसहस्रशरीरकल्पनावत् इतिप्राहुः। तन्न, भावानवबोधात्। फलमुखगौरवज्ञानं नप्रमाणविरोधीति सत्यम्, तदर्थश्च यत्प्रमाणविषयीभूतार्थः(र्थ)निबन्धनगौरवज्ञानं तत्प्रमाणं न विरुणद्धि / यथा शरीरत्वेन सुखत्वेन कार्यकारणभावविषयकप्रमाणेनविषयीकृतस्वर्गीयशरीरसहस्रनिबन्धनगौरवज्ञानंनतत्कार्यकारणभावग्राहकप्रमाणं विरुणद्धि, प्रकृते तु न तथा। तथा हि जन्यभावत्वेन नाशत्वेन क्लृप्तकार्यकारणभावग्राहकप्रमाणेन न ध्वंसधारा विषयीक्रियते न वा ध्वंसधारासु घटप्रतियोगिकत्वं विषयीक्रियते येन तादागौरवज्ञानं जन्यभावत्वेन नाशत्वेन कार्यकारणभावं न विरुध्यात्। तथा चध्वंसधाराकल्पनं तत्रध्वंसधारासुघटप्रतियोगित्वकल्पनं न फलमुखमिति युक्तमुत्पश्यामः / अत एव फलमुखगौरवज्ञानं प्रमाणात् पूर्वं न वृत्तमेव, वृत्ते च प्रमाणे कस्य प्रतिबन्धकं तद्गौरवज्ञानमिति फलमुखगौरवज्ञानस्य न प्रतिबन्धकत्वमिति निरस्तम्, प्रमाणात् पूर्वमपि फलमुखगौरवज्ञानस्य तर्कितोपस्थितिसम्भवात् / यथा ईश्वरज्ञानासिद्धिदशायामपि तत्रानित्यत्वकल्पने तद्ध्वंसतत्प्रागभावतत्कारणसहस्राणां तर्कितोपस्थितिसम्भवेन तदुपस्थितिनिबन्धनगौरवज्ञानम् ईश्वरज्ञाननिष्ठानित्यत्वानेकत्वादिज्ञानप्रतिबन्धकम्, लाघवात् नित्यमेकमेवज्ञानं सिद्धयति; तथा प्रकृतेऽपिस्वर्गीयशरीरसहस्रकल्पनम्, तर्कितोपस्थितिसम्भवात् तन्निबन्धनगौरवज्ञानमपि प्रतिबन्धकं स्यात् इति पूर्वोक्तयुक्तिरेव शरणीकरणीयेति निष्कर्षः / __ननूदाहरणचतुष्टयेषुधूमवान् वढेः इत्यादिषु आर्टेन्धनप्रभववढ्याधुपाधिषु तदुत्कर्षेणेत्यादिना तर्कचतुष्टयं दर्शितम् / तत्र च आद्यत्रयं कार्यकारणभावमूलकम् / अन्त्यस्तु अनिष्टापत्तिमूलकः / तथा च “तत् किं कार्यकारणयोरेव" इतिएवकारोमूलस्थोनसङ्गच्छते, तव्यावर्तनीयस्य कार्यकारणभावामूलकघटोन्मजनापत्तिरूपेऽनिष्टापत्तिमूलकतर्कस्य दर्शितत्वात् / इत्यन्यथा व्याचष्टे - तमदृष्ट्वैवेति / तथा च भ्रान्तः शङ्कते - तत् लिमितीति टीका / भ्रमबीजं तु घटोन्मज्जनापत्तेरदर्शनमेवेति भावः / रसादेरपीति मूलम् / आदिपदात् स्पर्शपरिग्रहः / तथा च रूपं त्रयाणां व्यापकं न स्यात्। न हिरूपत्वेन रसत्वेन कार्यकारणभावः येन तन्मूलकस्तर्कोऽप्रयोजकत्वशङ्कानिवर्तको भवेत् इति भावः / समाधत्ते - नेति टीका / सर्वत्र व्याप्तिग्रहे अप्रयोजकत्वशङ्कानिवर्तनायेत्यादि शेषः / क्वचित् साक्षादिति / धूमवान् वः इत्यत्र आर्टेन्धनप्रभववह्नित्वमिति साक्षात् कार्यकारणभावमूलकानुकूलतर्क एवाप्रयोजकत्वशङ्कानिवर्तकः / परम्परयेति। इदं द्रव्यं [30 B] पृथिवीत्वात् इत्यत्र पृथिव्यां किमपि अवश्यं कार्यं भविष्यत्येव / तत्र द्रव्यरूपसमवाय(यि)कारणं विनाऽसिद्धम् / तथा च कार्यकारणभाव एवव्याप्तिग्राहकमूलको भवति। एवं रूपरसयोरपि।रसाधिकरणे नित्ये परमाणौ यदि रूपंन स्यात्