________________ 62 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका विनाशित्वेन कार्यता / तथा च जन्यभावत्वस्य नाशव्यापकत्वे भावत्वं सुतरां व्यापकमेव भावत्वस्य [29 B] तद्घटकत्वात् / ननु जन्यभावत्वं न कारणतावच्छेदकं जन्यभावत्वस्य ध्वंसे विरहात् / लाघवात् जन्यत्वेन ध्वंसत्वेन कार्यकारणभावोऽस्तु / न हि तत्र भावत्वमपि निवेशनीयम्, गौरवात् / येन ध्वंसस्य विनाशित्वं न स्यदिति चेत् / तत्र गौरवस्य प्रामाणिकत्वं दर्शयति - घटोन्मजनेत्यादि। त्रिष्विति / प्रथमत्रिषु यथासङ्ख्यं त्रिषु त्रयं हेतुात्रयं] प्रत्येकमेवान्वेतीति भावः / चतुर्थे घटो विनाशी जन्यत्वात् इत्यत्र। ननुघटोन्मज्जनस्य कोऽर्थः ? घटोत्पत्तिरिति चेत् घटध्वंसनाशाभ्युपगमेऽपिघटसामग्रीविरहादेव स घटः नोत्पत्स्यते इति / घटप्रत्यक्षत्वं चेत् तदा तत्रापि तथा तत्सामग्रीविरहादेव न प्रत्यक्षः / आविर्भावश्चेत् तस्याप्युत्पत्तिप्रत्यक्षयोरेवान्तर्भावात्।न हिध्वंसवादिनां मते आविर्भावतिरोभावौ स्तः इत्यत उन्मज्जनपदार्थमाह - प्रतियोगीति।अयं भावः ।यदि घटध्वंसस्य ध्वंसः अङ्गीक्रियते तदा घटध्वंसध्वंससमयं पक्षीकृत्य ध्वस्तघटसमयत्वंसाधनीयं यथा - अयंकालः तद्घटवान्तद्ध्वंसतत्प्रागभावानधिकरणसमयत्वात्यथा तद्घटस्थितिकालः इत्यनुमानमेव घटध्वंसध्वंसे बाधकं विपक्षबाधकं च / जन्यभावत्वेन नाशत्वेन कार्यकारणभावे इदमनुमानं विपक्षबाधकम् / तदेवाह - प्रतियोगीत्यादिना। तथा च यदि घटध्वंसघटप्रागभावानवच्छिन्नसमयेऽपि घटो न स्यात् तदा कालवृत्तिरेव न स्यात् प्रतियोगिनः कालवृत्तितायां तद्ध्वंसप्रागभावयोरेव बाधकत्वात् इति। नन्वेवं : प्रागभावोन्मजनं स्यात्। प्रागभावध्वंसरूपघटस्य नाशदशायां प्रागभावकालत्वं स्यात् / यथा अयं कालः घटध्वंसकालः तत्प्रागभाववान् स्वप्रतियोगिप्रागभावध्वंसानधिकरणसमयत्वात् / यद्वा प्रागभावाप्रतियोगिध्वंसानाधिकरणसमयत्वाद्वा घटपूर्वकालवत् / तथा च प्रागभावोन्मजनमपीत्थं स्यात् / घटध्वंसस्य घटप्रतियोगिकात्वावत् प्रागभावप्रतियोगिाक]त्वमिति। तथा चघटप्रागभावध्वंसस्यानधिकरणमेव स समयो न भवति / तथा च हेत्वसिद्धेरेव न तथानुमानं भविष्यति इति चेत् घटध्वंसध्वंसेऽपि घटप्रतियोगिकत्वमंङ्गीक्रियताम् / तथा च तत्रापिघटध्वंसानधिकरणत्वेन हेत्वसिद्धितयान घटप्रा?ागभावासमयत्वरूपघटोन्मज्जनप्रसङ्गो भविष्यति इति चेत्, न, अनन्तध्वंसधाराकल्पनं तत्र ध्वंसधारासु घटप्रतियोगिकत्वकल्पनप्रसङ्गादिति तद्गौरवापेक्षया लाघवात् जन्यभावत्वेन नाशत्वेनैव कार्यकारणभावोऽस्तु। ननु इत्थमपि कार्यकारणभावो न सम्भवति प्रागभावे व्यभिचारात् इति चेत्, न, नाशपदेन सप्तमपदार्थ एवोक्तः, तथा च घटप्रागभावस्य आद्यनाशस्तु घटरूप एव भवति, तत्र न सप्तमपदार्थः वृत्तिनाशत्वं तथा च न व्यभिचारः, अन्त्यनाशस्तु घटादेव जन्यभावादेव भविष्यतीति न व्यभिचारः / अत्र केचित् यथा सुखत्वेन शरीरत्वेन कार्यकारणभावकल्पनायां स्वर्गीयसहस्रशरीरकल्पना न दूषणावहाफलमुखगौरवत्वेनादूषणत्वात्।अन्यथा लौकिकसुखत्वेन शरीरत्वेन कार्यकारणभावोऽस्तु किं स्वर्गीयसहस्रशरीरकल्पनया। अथ प्रथमतः लाघवात् सुखत्वेन कार्यता शरीरत्वेन कारणता इत्येव कार्यकारणभावग्रहः,