________________ उपाधिवादः त्वमुपाधिरितिभावः। तेनैवेति।पक्षमात्रव्यावर्तनेनैवोक्तोपाधेः पर्वतावयववृत्त्यन्यत्वोपाधेः साधनाव्यापकत्वनिर्वाहात् धूमाव्यापकत्वनिर्वाहात् इति अभिप्रेत्य तथोक्तं पर्वतावयवावृत्त्यन्यत्वं नोपाधिः पक्षमात्रव्यावर्तक[विशेषणवात्वात् इत्युक्तं मूलकारण। तथा च पक्षमात्रव्यावृत्तिरेव साधनाव्यापकत्वोपयोगितया उपयुज्यते न तु रूपादिव्यावृत्तिरपीति भावः / उपसंहरति - एवं चेति टीका। पर्वतो वह्निमान् धूमात् इत्यत्र पर्वतावयववृत्त्यन्यत्वं नोपाधिः साध्यम् / तत्र हेतुमाह - उपाधितेति टीका। उपाधिता साध्यव्यापकत्वे सति साधनाव्यापकता, तस्याः उपाधिघटकीभूतसाधनाव्यापकतायाः प्रयोजकीभूतं यत् पर्वतावयववृत्तिरूपं विशेषणं तद्वत्त्वात् इत्यर्थः / आहुरितिअस्वरसोद्भावनम्, तद्बीजंतुपर्वतावयववृत्त्यन्यात्व]स्यपर्वतएव साध्याव्यापकत्वादेवनतव्यभिचारेण साधनस्य साध्यव्यभिचारोन्नयनयोग्यता येन तस्योपाधिता स्यात्। न च साधने साध्यव्यभिचारोऽपीति। न वा तत्र लक्षणमपिगच्छतिसाध्याव्यापकत्वात्।नवासाध्यसमानाधिकरणत्वेसति साध्यव्यभिचारिसाधनाव्यापकत्वरूपं तत्र लक्षणं गच्छति, साधनस्य धूमस्य साध्यव्यभिचारित्वविरहादिति / तथा इत्थमेवानुपाधित्वे किमेतावता प्रयासेनेति भावः। अत एव धूमे आर्टेन्धनप्रभववह्निमत्त्वं, द्रव्यबहिरिन्द्रियप्रत्यक्षत्वे उद्भूतरूपवत्त्वं, मित्रातनयश्यामत्वेशाकपाकजत्वं, जन्यानित्यत्वेभावत्वम् उपाधिः, तदुत्कर्षेण साध्योत्कर्षात्, अनन्यथासिद्धान्वयव्यतिरेकतो वैद्यकात् कारणतावगमेन घटोन्मजनप्रसङ्गेन साध्यव्यापकतानिश्चयात्, तत् किं कार्यकारणयोरेव व्याप्तिः, तथा च बहु व्याकुली स्यादिति चेत्। - अत एवेति मूलम् / यत एव साध्यव्यापकताग्राहकोऽनुकूलतर्को वर्तते अत एव एतेषामुपाधित्वमिति अन्वयः ।धूमइतिमूलम्।धूमवान्वः इत्यत्रआर्टेन्धनप्रभववह्निमत्त्वमुपाधिः आर्टेन्धनप्रभववढेधूमव्यापकत्वे कार्यकारणभाव एवानुकूलतर्को द्रष्टव्यः, यथा धूमत्वेन कार्यता आर्टेन्धनप्रभववह्नित्वेन कारणता / तत्र कारणताग्राहकं तदुत्कर्षेणेत्यादिना। वायुः बहिरिन्द्रियजन्यप्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र उद्भूतरूपवत्त्वोपाधेः द्रव्यत्वावच्छिन्नबहिरिन्द्रियजप्रत्यक्षव्यापकतायां कार्यकारणभावएवानुकूलतर्को द्रष्टव्यः, यथा बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षत्वेन कार्यता उद्भूतरूपवत्त्वेन कारणता / तत्र कारणताग्राहकमन्वयव्यतिरेकं स्वयमेव वक्ष्यते / मित्रातनयेति। सश्यामः मित्रातनयत्वात् इत्यत्र शाकपाकजत्वं मित्रातनयत्वावच्छिन्नश्यामत्वव्यापकम् / तथा चनरत्वावच्छिन्नश्यामत्वेन कार्यता शाकपाकजत्वेन कारणतेति आयुर्वेदादेव कार्यकारणभावग्रहं वैद्यकादिति वक्ष्यते / अनित्यत्व इति मूलम् / ध्वंसो विनाशी जन्यत्वात् इत्यत्र भावत्वोपाधेः जन्यभावत्वेन कारणता