________________ तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका सहचारदर्शनादेरिति मूलम्। तेन विना अनुकूलतर्केण विना। तथा चाप्रयोजकत्वशङ्कया जनितव्यभिचारसंशयेन व्याप्तिग्राहकं व्यभिचारादर्शनमितिन पक्षेतरत्वस्य साध्यव्याप्तिग्रह इति नोपाधित्वं तस्येतिभावः इत्युक्तं पूर्वपक्षग्रन्थे इति शेषः / ननु पर्वतो वह्निमान् धूमात् इत्यत्र पर्वतेतरत्ववत् वह्निरनुष्णः कृतकत्वात् इत्यत्र वहीतरत्वमपि उपाधिनस्यात् तस्य स्वव्याघा]तकत्वेनपक्षेतरत्वस्योपाधित्वविरहात् इत्यतआह - बाधोनीतेति मूलम् / बाधोनीतो वहिरनुष्णः कृतकत्वात् इत्यादौ वहीतरत्वोपाधौ अनुकूलतर्कोऽस्त्येव / अनुकूलतर्कस्तु वह्नित्वेन उष्णत्वेन कार्यकारणभावः / यद्यप्युष्णत्वं सौरकिरणादावपि तथाप्युष्णत्वव्याप्यवह्रिस्पर्शवृत्तिजातिविशेषपुरस्कारेण कार्यकारणभावो बोद्धव्यः / एवमिति / एवं वह्निमान् धूमात् इत्यत्र पर्वतेतरत्वे अनुकूलतर्कविरहेण साध्यव्यापकानिर्णये यथा नोपाधित्वं तथा पर्वतावयववृत्त्यन्यत्वादेरपि नोपाधित्वम् अनुकूलतर्कविरहेण तादृशसाध्यव्यापकत्वानिर्णयादिति भावः। विपक्षाव्यावर्तकेत्यादिग्रन्थस्याकिञ्चित्करेणानुकूलतर्काभावे एव तात्पर्य विवृणोति यद्यपीत्यादिना / एतदुपाधौ पर्वतो वह्रिमान् धूमात् इत्यात्र] पर्वतावयववृत्त्यन्यत्वोपाधौ पर्वतस्य यदवयवं यद्वृत्तिर्यथा पर्वतस्तथा रूपादिरपि तथा च पर्वतावयववृत्तिरूपं वह्निसाध्ये विपक्षं भवत्येव। तथा च तव्यावर्तकं पर्वतावयववृत्त्यन्यत्वं भवत्येव।तथा चविपक्षाव्यावर्तकविशेषणशून्यत्वमस्त्येवप्रकृतोपाधौ कथं सनोपाधिरिति यद्यपीत्याशङ्कार्थः / समाधत्ते - तथापीति। तथाचविपक्षाव्यावर्तकेत्यादिग्रन्थस्यापिअनुकूलतर्कविरहेणाप्रयोकत्वशङ्कया जनितव्यभिचारशङ्काया अनुवर्तमानत्वात् न व्यभिचारादर्शनसहकृतसहचारदर्शनस्य व्याप्तिग्राहकस्य सत्त्वम् इति। न वह्निरूपसाध्यस्य पर्वतावयववृत्त्यन्यत्वोपाधेापकत्वनिश्चयइति तन्निश्चायकविरहादितिभावः। तदेव विवृणोति -यद्यपीत्यादिना। पर्वतपदमिति। वह्निमान्धूमात् इत्यत्रपर्वतावयववृत्त्यन्यत्वमुपाधिः / तत्रोपाधौ पर्वतावयववृत्तिपदं विपक्षस्य निश्चितवन्यभाववतो रूपादेः / यद्यपीति योजना / तथा च विपक्षाव्यावर्तकविशेषणशून्यत्वमुपाधौ वर्तत एवेति कथं न तस्योपाधित्वमिति यद्यपीत्याशङ्कार्थः। समाधत्ते - तथापीति / उक्तस्य पर्वतावयववृत्त्यन्यत्वादिरूपस्योपाधेः तत्त्वं विपक्षं यद्रूपं [29 A] तद्रूपव्यावर्तकत्वं हृदपर्वतान्यतरेतरत्ववत् उपाधितायांसाध्यव्यापकत्वे साधनाव्यापकत्वेचन प्रयोजकम्, तेन विनाऽपि पर्वतेतरत्वस्य साध्यव्यापकत्वसाधनाव्यापकत्वादिसम्भवात्। किन्त्विति। तस्य पर्वतावयववृत्तिपदस्यपर्वतेतरत्ववत्पक्षमात्रव्यावर्तकत्वमुपाधितायामुपयुज्यते पक्षे साधनाव्यापकत्वोपयोगित्वादुपयुज्यते / न तु रूपव्यावर्तनमपि तत्प्रयोजकं तत्र साधनधूमविरहात् / तथा च पक्षमात्रव्यावर्तकत्वमेवोपाधितायां भवन्मते उपयुज्यते इति / तत् तु न सम्भवति विपक्षाव्यावतीकाविशेषणशून्यत्वस्यैवोपाधितायांप्रयोजकत्वात्। तत्तुप्रकृतेनास्तीतिन पर्वतावयववृत्त्यन्य