________________ 59 उपाधिवादः अन्यथा तस्य प्रमेयत्वस्य केवलान्वयित्वं न स्यात् शब्दवृत्त्यात्यान्ताभावप्रतियोगित्वादिति भावः / पक्षधर्मावच्छिन्नेति टीका / शब्दोऽभिधेयः प्रमेयत्वात् इत्यत्र शब्दः पक्षः, तद्वृत्ति गुणत्वं पक्षधर्मः, तदवच्छिन्नसाध्यस्याभिधेयत्वस्य व्यापकमश्रावणत्वंनभवति, शब्दे एवाभिधेयत्वस्य केवलान्वयित्वसाधकप्रमाणेनाभिधेयत्वस्य सिद्धेः तत्रैव गुणत्वावच्छिन्नाभिधेयत्वस्य सत्त्वात् शब्दस्य च श्रवणेन्द्रियजन्यलौकिकप्रत्यक्षविषयत्वेनाश्रावणत्वाभावात् / न गुणत्वावच्छिन्नाभिधेयत्वस्य व्यापकमश्रावणत्वमिति / साधनावच्छिन्नेति। जलं प्रमेयं रसवत्त्वात् इत्यत्र रसवत्त्वावच्छिन्नप्रमेयत्वस्य केवलान्वयित्वसाधकप्रमाणेन जलेऽपि प्रमेयत्वसिद्धौ तत्र च रसवत्त्वस्य साधनस्य विद्यमानत्वात् रसवत्त्वावच्छिन्नप्रमेयत्वस्य जलेऽपि सत्त्वात् / तत्र च पृथिवीत्वविरहेण रसवत्त्वावच्छिन्नप्रमेयत्वस्य साध्यस्य न पृथिवीत्वं व्यापकमिति न स उपाधिरिति भावः। न च पक्षेतरे स्वव्याघातकत्वेनानुपाधौ अतिव्याप्तिः तत्रानुकूलतर्काभावेन साध्यव्यापकत्वानिश्चयात् सहचारदर्शनादेस्तेन विना संशायकत्वादित्युक्तम् / बाधोनीते चानुकूलतर्कोऽस्त्येवेति, एवं पर्वतावयववृत्त्यन्यत्वादेरपि नोपाधित्वं पक्षमात्रव्यावर्तकविशेषणवत्त्वात्। न च पक्षेतर इति / पर्वतो वह्निमान् धूमात् इत्यत्र पर्वतेतरत्वस्य / स्वव्याघातकत्वेनेति मूलम् / स्वव्याघातकत्वेन स्वव्यभिचारेणसाधनस्य साध्यव्यभिचारित्वविरहेणस्वव्याघातकत्वेन, तद्यथासाधनं साध्यव्यभिचारि साध्यव्यापकपक्षेतरव्यभिचारित्वात् इत्यत्रापि पक्षेतरत्वस्योपाधितापत्तिः, तस्मात् पक्षेतरत्वरूपोपाधेः न व्यभिचारोन्नायकत्वम्, अत एव न लक्ष्यत्वं तस्य, अत एव तत्र लक्षणगमने अतिव्याप्तिरिति आशङ्कार्थः / समाधत्ते - तत्रेति / तत्र पक्षेतरत्वोपाधौ अनुकूलतर्कविरहेण साध्यव्यापकताग्राहकानुकूलतर्कविरहेणेत्यर्थः / यद्यपीति टीका / ग्रन्थकृन्मत इति मणिकारमते व्यभिचारादर्शनस्यैव व्याप्तिग्राहकत्वेन, तर्कस्य व्याप्तिमूलकत्वेन तत्रापि तर्कान्तरापेक्षायामानवस्थादुःस्थितया न तर्कस्य व्याप्तिग्राहकत्वम् / तथा च कथमनुकूलतर्कविरहेण न पक्षेतरत्वस्य व्याप्तिग्रह इत्युक्तम् / व्याप्तिग्रहे अनुकूलतर्कस्याकारणात्वात् कथं तदभावे(व)स्य व्याप्तिग्रहाभावप्रयोजकत्वम् / न हि अकारणाभावस्य कार्याभावे प्रयोजकत्वम्, कारणाभावस्य कार्याभावे प्रयोजकत्वादिति / यद्यपीत्याशङ्कार्थः / समाधत्ते - तथापीति / तदभावे अनुकूलतर्काभावे, निवर्तकाभावेन अप्रयोजकत्वशङ्काया निवर्तकाभावेन, अप्रयोजकत्वशङ्कानिवृत्तौ अनुकूलतर्कस्य प्रयोजकत्वेन ग्रन्थकृताऽपि [28 B] यावदाशङ्क तर्कानुसरणादित्युक्तत्वात् / तथा चाप्रयोजकत्वशङ्कायां सत्यां तजनितव्यभिचारसंशयस्याप्यनुमानत्वात् / व्यभिचारज्ञानाविरहेण न व्याप्तिग्रह इति ग्रन्थकृत आशयमुद्घाटयति / तथापीत्यादि भाव इत्यन्तेन योजना।