________________ तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका चारोन्नायकत्वविरहात्।न हिअप्रयोजकत्वंस्वव्यभिचारेणसाध्यव्यभिचारोन्नायकंकिन्तुस्वयमेवेतिनातिप्रसङ्गः / अप्रयोजकत्वादौ[आदि]पदा[] आर्टेन्धनादिव्यभिचारपरिग्रहः। तस्य व्यभिचारोन्नायकत्वं यथा वह्निः धूमव्यभिचारी आर्दैन्धनव्यभिचारित्वात् / इत्या!न्धनव्यभिचारित्वस्य व्यभिचारोनायकत्वेऽपि न स्वव्यभिचारद्वारेति न धूमसाध्यकवहिहेतौ उपाधिः तस्य स्वव्यभिचारेण व्यभिचारोन्नायकत्वविरहात् इति भावः / अभ्युपेत्य अभिगमवादपुरस्सरं समाधत्ते - अर्थान्तरस्येति। मित्रातनयत्वं मित्रातनयत्वविशिष्टश्यामत्वव्यभिचारि मित्रातनयत्वविशिष्टश्यामत्वव्यापकशाकपाकजत्वव्यभिचारित्वात् इत्यत्र शुद्धसाध्यव्यभिचारस्य प्रकृतत्वात् विशिष्टसाध्यव्यभिचारस्य नाकाक्षितत्वात् अर्थान्तरत्वंप्रकृतासम्बद्धत्वात्।प्रकृतासम्बद्धमुत्तरमर्थान्तरमिति परिभाषितत्वात् / तस्याश्च(तस्य च) प्रकृतानाकाङ्क्षितमुत्तरत्वमर्थः / ननु तस्यापि विशिष्टसाध्यव्यभिचारस्यापि शुद्धसाध्यव्यभिचारोन्नयनोपयोगित्वात्प्रकृतसम्बद्धत्वात् नार्थान्तरत्वंमिति चेत् तत्राह - अप्राप्तेति।अप्राप्तकालत्वम् यद्यदाकाक्षितं भवति तत्तदोपन्यसनीयम्। न हि यदाकदाचिदाकाक्षितमेव प्रथमत उपन्यसनीयम् / तथा सति प्रतिज्ञापूर्वमपि हेतोरुपन्यासापत्तिरिति / तथा च प्रकृतेऽपि शुद्धसाध्यव्यभिचार एव प्रथमत उपन्यसनीयः / तत्र हेत्वाकाङ्क्षायां विशेषणवति विशिष्टसाध्यव्यभिचार उपन्यसनीयः / तथा च प्रथमतो विशिष्टसाध्यव्यभिचारोपन्यासे प्रतिज्ञापूर्वं हेतूपन्यासवत् अप्राप्तकालत्वमिति दोषान्तरमिति द्रष्टव्यम्। किञ्चेति मूलम् / तत्र ध्वंसो विनाशी जन्यत्वात् इत्यत्र भावत्वमुपाधिः दोषः अर्थान्तरस्य। ध्वंसो विनाशी जन्यत्वात् इत्यत्र जन्यत्वं भावत्वावच्छिन्नविनाशित्वव्यभिचारि भावत्वव्यभिचारित्वात् इत्यत्र विनाशित्वव्यभिचारित्वस्य प्रकृतोपयोगित्वात् विशिष्टव्यभिचारित्वस्यार्थान्तरत्वमप्राप्तकालत्वं वोवर्थः (वाऽर्थः) / ननु अर्थान्तरत्वादिकं वादकथायां नोपयोगि तत्र वस्तुदोषस्यैवोपयोगात्। तथा च किमत्र वस्तुदोष इतिप्रश्ने उपाधिरेवोद्भावनीय इत्याह - आभासान्तरस्य। हेत्वाभासान्तरस्य अभावात् उपस्थितिविषयत्वेन अभावात् अनुपस्थितत्वात् इति भावः / यथाश्रुते तु व्यभिचारस्यैव सत्त्वात् कथं हेत्वाभासान्तरस्याभावः ? तत्र अनुमाने भावत्वादिकमुपाधिर्दोष उद्भावनीय इति शेषः / [28 A] यद्यप्युपाधेरपि नो साक्षात् दूषकत्वं किन्तु व्यभिचारज्ञानद्वारैव तथापि सिद्धसाधनवत् उपन्यसनीय एव। न हि सिद्धसाधनं स्वतो दूषकं किन्तु पक्षताविघटनद्वारैव। तस्य यथा स्वतो दूषकत्वाभावेऽपि वादकथायामुपयोगः उपन्यासार्हत्वं तथा उपाधेरपीति भावः / न चैवमिति मूलम्।एवमवच्छिन्नसाध्यव्यापकस्यापि उपाधिलक्ष्यत्वेशब्दोऽभिधेयः प्रमेयत्वात् इत्यत्रअश्रावणत्वमुपांधिः / अश्रावणत्वं श्रवणेन्द्रियजन्यलौकिकप्रत्यक्षाविषयत्वमुपाधिः / तत्रपक्षे साध्यसन्देहात्पक्षातिरिक्ते पृथिवीत्वपक्षे चसाधनाव्यापकमितिपृथिवीत्वमुपाधिः स्यात् इत्याशङ्कार्थः।साधनावच्छिन्नसाध्यव्यापकत्वंपृथिवीत्वमुपाधिः, पक्षेएव गृहीतसाधनाव्यापकत्वंच, पक्षेएवेतिअवच्छिन्नसाध्यव्यापकत्वस्योपाधित्वेइदमपि उपाधिद्वयं स्यात् / पूर्वं पक्षधाान्वयित्वसाधकं यत् प्रमाणं तेन प्रमेयत्वस्य केवलान्वयित्वे सिद्धे शब्देऽपि प्रमेयत्वं सिद्धमेव /