________________ उपाधिवादः . 57 रूपस्यापेक्षया समानाधिकरणेव्य(त्य)स्यैव लाघवेन सर्वसामञ्जस्ये किमेतावता प्रयासेन / त्वयै(ये)व मयाऽपि ऐकाधिकरण्यमेव वैशिष्ट्यं वक्तव्यम् / तथा च मित्रातनयत्वश्यामत्वसामानाधिकरण्यविशिष्टशाकपाकजत्वव्यभिचारित्वमेव हेतुः / तथा च अघटत्वे गौरमित्रातनयरूपाधिकरणान्तर्भावेन अघटत्वस्य शाकपाकजव्यभिचारित्वमित्रातनयत्वसामानाधिकरण्ययोः सत्त्वात् न साधनवैकल्यं दृष्टान्तस्य। श्याममित्रातनयकोकिलान्यतरत्वस्य च न एकाधिकरणान्तर्भावेन मित्रातनयत्वसामान्याधिकरण्यशाकपाकजत्वव्यभिचारौ स्तः इति न तत्साधारण्यमिति लघुप्रकारेणैव सम्भवे गुरुतरप्रकाराम्भ एवास्वरसो बोद्धव्यः / पूर्वमिति / पूर्वं शुद्धसाध्यव्यभिचारोन्नयनप्रकारकथितग्रन्थे / साक्षादिति / साक्षात् शुद्धसाध्यव्यभिचारोन्नायक एवोपाधिः / साक्षात् प्रथमत एवशुद्धसाध्यव्यभिचारोन्नायकएवोपाधिरितिपूर्वमुक्तम्।तथा चशुद्धसाध्यव्यापकोपाधिवत् अवच्छिन्नसाध्यव्यापकोपाधेरपि उक्तप्रकारेण शुद्धसाध्यव्यभिचारोन्नायकतया समव्याप्तविषमव्याप्तोपाधिवत् अनयोरपि लक्ष्यत्वं व्यवस्थापयता समव्याप्त एवोपाधिरिति शुद्धसाध्यव्यापक एवोपाधिरिति वादिद्वयस्य निगर्वं खण्डयता यद्वा इत्याद्यग्रिमो ग्रन्थ उक्तः, अधुना प्रकारान्तरेण तदेव निगर्वं खण्डयति। यद्वा यः साधनव्यभिचारी साध्यव्यभिचारोन्नायकः स उपाधिः तत्त्वं च साक्षात् परम्परया वेति नार्थान्तरम् / किञ्च अर्थान्तरस्य पुरुषदोषत्वात् आभासान्तरस्य तत्राभावादुपाधिरेवभावत्वादिकंदोषः।नचैवंशब्दोऽभिधेयः प्रमेयत्वात् इत्यत्र अश्रावणत्वं जलंप्रमेयं रसवत्त्वात् इत्यत्रपृथिवीत्वम् उपाधिः स्यात्, केवलान्वयित्वसाधकप्रमाणेन तत्र साध्यसिद्धेरुपाधेर्विशिष्टाव्यापकत्वात्। तथात्वं शुद्धसाध्यव्यभिचारोन्नायकत्वम् / सम्प्रतीति / यद्वेत्याद्यग्रिमग्रन्थेन / साक्षात् विशिष्टसाध्यव्यभिचारानुमानद्वारा वा [27B] / वेति वाकारोऽनास्थायाम् / तथा च स्वव्यभिचारेण व्यभिचारोन्नायक एवोपाधिरिति लाघवात् न तु तत्र साक्षात्त्वगर्भगौरवात् इति तेषां वादिनां निगर्वं खण्डयति- यद्वेति। तत्त्वं चेति मूलम् / तत्त्वं साक्षात् परम्परया वा साध्यव्यभिचारोन्नायकत्वम् / नार्थान्तरमिति मूलम् / विशिष्टसाध्यव्यभिचारानुमाने नार्थान्तरमिति भावः। . साधनमिति टीका।साधनंप्रकृतानुमानसाधनं व्यभिचारि।अत्यन्ताभाववद्वृत्तिः यस्यसतथा साधनाव्यापकः साधनसमानाधिकरणात्यन्ताभावप्रतियोगीति यावत् / साध्यव्यभिचारोन्नायकः स्वव्यभिचारित्वेनेति शेषः पूरणीयः / तेनेति। तेन स्वव्यभिचारेणेतिपूरणेन अप्रयोजकत्वादौ नातिप्रसङ्गः नातिव्याप्तिः। यथा अहं(यं) हेतुः व्यभिचारी अप्रयोजकत्वात् इति व्यभिचारानुमापके प्रयोजकत्वेन अव्याप्तिरिति स्वव्यभिचारेण साध्यव्यभि