________________ तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका वक्तव्यम् / तथा च घटभेदस्य यत्किञ्चिदधिकरणं गौरमित्रातनयः तन्निष्ठो योऽत्यन्ताभावः तदप्रतियोगित्वस्य मित्रातनयत्वे सत्त्वात् मित्रातनयत्वाव्यभिचारित्वस्य इत्थंभूतस्याघटत्वेऽपि सत्त्वात् न दृष्टान्तासिद्धिः / तच्याव्यभिचरितत्वं तत्सामानाधिकरण्यमात्रपर्यवसन्नम्। तथा च मित्रातनयत्वाव्यभिचारित्वे सति इत्यस्यार्थः / मित्रातनयत्वसमानाधिकरणेति / तथा च किं यत्किञ्चिदित्यादिविवक्षया इत्याशङ्कार्थः / यद्यपीत्यस्य व्यभिचारिसाधारणमित्रातनयत्वस्य यद्यभिचारि सत्ताद्रव्यत्वादि तत्साधारणसत्ताद्रव्यत(त्व)योः यत्किञ्चिन्मित्रातनयरूपाधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वात्।तथा चसत्ताद्रव्यत्ववत्श्याममित्रातनयकोकिलान्यतरत्वेऽपि मित्रातनयत्वाव्यभिचारित्वस्य सत्त्वात् शाकपाकजत्वव्यभिचारित्वस्य सत्त्वात् उक्तहेतोर्व्यभिचारात् व्यभिचार इति भावः / समाधत्ते - तथापीति टीका।सतीति। मित्रातनयत्वाव्यभिचारित्वे सतीतिसूत्रस्थसप्तमीमहिम्ना विशिष्टवैशिष्ट्यलाभः। विशिष्टवैशिष्टयमेव दर्शयति-यदधिकरणावच्छेदेनेति।अयंभावः- सतिसप्तम्या समभिव्याहतपदार्थः, समकालत्वं समभिव्याहतपदार्थतावच्छेदकावच्छिन्नत्वं चार्थः / यथा गोषु दुह्यमानासु आगतः इत्यत्रगोदोहनसमकालीनत्वंगोदोहनस्य प्रतीयते एवं गुणकर्मान्यत्वेसतिसत्त्वात् इत्यत्रगुणकर्मान्यत्वावच्छिन्नसत्त्वं प्रतीयते / तत्र च यथा यदधिकरणगुणकर्मान्यत्वं तत्रैव सत्त्वाधिकरणमित्येव विशिष्टवैशिष्ट्यं गुणकर्मान्यत्वाधिकरणतावच्छिन्नसत्ताधिकरणताकत्वमिति यावत् / तेन गुणकर्मान्यत्वस्य सत्तया सह द्रव्ये सामानाधिकरण्यसत्वेऽपिनगुणे कर्मणिवा गुणकर्मान्यत्वविशिष्टसत्ताप्रतीतिः। तथा मित्रानतयत्वाव्यभिचारित्वे सतिशाकपाकजत्वव्यभिचारित्वात् इत्यत्रयदधिकरणान्तर्भावेन मित्रातनयत्वस्याव्यभिचारित्वं तदधिकरणान्तर्भावेन शाकपाकजत्वव्यभिचारित्वं हेतुः, तथा च कोकिलश्याममित्रातनयत्वान्यतरत्वस्य शाकपाकजत्वव्यभिचारित्वनिरुक्तमित्रातनयव्यभिचारित्वसत्त्वेऽपि नैकाधिकरणान्तर्भावेन तयोः सत्त्वम्, श्याममित्रातनयरूपाधिकरणान्तर्भावेन [27 A] निरुक्तमित्रातनयाव्यभिचारित्वं कोकिलाधिकरणत्वेन च शाकपाकजत्वव्यभिचारित्वमितिनैकाधिकरणान्तर्भावेन तयोः सत्त्वमिति न मित्रातनयत्वाव्यभिचारित्वविशिष्टशाकपाकंजत्वव्यभिचारित्वं श्याममित्रातनयकोकिलान्यतरत्वे वर्तते येन श्यामत्वव्यभिचारित्वस्य साध्यस्य तत्र विरहेण व्यभिचारः स्यादिति तथापीत्यादेराखण्डलार्थः। तेनन व्यभिचारीति।व्यभिचारोऽत्रश्यामत्वरूपव्यभिचारित्वरूपसाध्यस्य व्यभिचारो बोध्यः / व्यभिचारिसाधारण्यमुपात्तमित्रातनयकोकिलान्यतरत्वादिरूपव्यभिचारिसाधारण्यम् / तत्तूक्तमेव / इदं चेति / इदं च रूपं मित्रातनयत्वाव्यभिचारित्वम्, अश्यामो मित्रातनयः गौरमित्रातनयः, अघटत्वस्य यत्किञ्चिदधिकरणं गौरमित्रातनयः, तद्वृत्तिोऽत्यन्ताभावः तदप्रतियोगित्वस्य मित्रातनयत्वे सत्त्वात्। मित्रातनयत्वमघटत्वस्य निरुक्ताव्यभिचार्येव तदेव गौरमित्रातनयरूपाधिकरणान्तर्भावेन शाकपाकजत्वव्यभिचारित्वसत्त्वात् न साधनविकलो दृष्टान्तः इत्यर्थः / इत्याहुरिति उपाध्याया आहुरिति / अस्वरसोद्भावनम्, तद्बीजं मित्रातनयत्वाव्यभिचारित्वस्य यत्किञ्चिदधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्व