________________ उपाधिवादः बहिरिन्द्रियजन्यप्रत्यक्षत्वव्यभिचारि द्रव्ये उद्भूतरूपव्यभिचारित्वात् इत्येव हेतुः कर्तव्यः / तथा च न स्वरूपासिद्धिरिति द्रव्ये वायौ उद्भूतरूपव्यभिचारस्य प्रमेयत्वेऽपि सत्त्वात्। तन्त्रमिति। शुद्धसाध्यव्यभिचारानुमाने इत्थमेवानुमानंतन्त्रमितिभावः। ननु विशिष्टसाध्यव्यापकोपाधिस्थले मूलोपदर्शितप्रकारारि(दि)त्याशङ्कते।नहीति टीका। नहिएकेनरूपेणमूलोपदर्शितरूपेणैवसर्वत्रसर्वसाधनसाधारणाव्यभिचारानुमितिः येन मूलस्यासङ्गतिमाशङ्कयेत।उक्तप्रकारमिति टीका। उक्तप्रकारं शुद्धसाध्यव्यभिचारोन्नयनप्रकारं साधनावच्छिन्नसाध्यव्यापकोपाधिस्थले दर्शयति। तथा मित्रेति।कोकिलः श्यामः मित्रातनयत्वात् इत्यत्रशाकपाकजत्वोपाधौ मित्रातनयत्वं पक्षः पूर्वोक्तानुमाने यत् साधनं श्यामत्वव्यभिचारि। श्यामत्वात्यन्ताभाववद्वृत्तिहेतुमाह - मित्रातनयत्वेति। मित्रातनयत्वस्य अभेदेन स्वाव्यभिचारित्वं सिद्धमेव। न स्वव्यभिचारित्वे व्याप्यत्वे स्वतोऽप्यपेक्षिते अप्रयोजकत्वात्। परार्थानुमाने दृष्टान्तविरहान्न तथा प्रयुज्यते इत्येवमात्रम्, कदाचित् प्रयुज्यतेऽपि तथा समयब(बा)धात्। श्याममित्रातनयत्वस्य व्यापकं यत् शाकपाकजत्वं तद्वयभिचारित्वात् तदत्यन्ताभाववद्वृत्तित्वात् / अघटत्ववदिति / घटभेदतदवत्(त्क्वत्)। सामान्यशब्दो विशेष्यपर: गौरमित्रातनयत्ववदित्यर्थः।अन्यथा अघटत्वस्य घटभेदस्य मित्रातनयत्वाव्यभिचारित्वविरहात् घटादौ मित्रातनयत्वव्यभिचारसत्त्वात् साधनविकलो दृष्टान्तः इति दृष्टान्तासिद्धिः / सामान्यशब्दस्य अघटत्वस्य विशेषपरत्वे गौरमित्रातनयत्वपरत्वे न दृष्टान्तासिद्धिः / गौरमित्रातनयत्वस्य मित्रातनयत्वाव्यभिचारादित्यर्थः / अव्यभिचारश्चेति / तत्समानाधिकरणात्यन्ताभावाप्रतियोगित्वम् / तच्चाभेदेऽप्यस्तीति / तथा च मित्रातनयत्वात्यन्ताभावाप्रतियोगित्ववर्तमानत्वात् मित्रातनयत्वाव्यभिचारित्वं मित्रातनये वर्तते एवेति न स्वरूपासिद्धिरिति भावः। .. न चेति टीका / अघटत्वे घटभेदे मित्रातनयत्वाव्यभिचारित्वस्य विरहात् साधनविकलः साध्यवान् दृष्टान्तः इत्याशङ्कार्थः।समाधत्ते[26B] - यत्रेति टीका। मित्रातनये गौरमित्रातनये अघटइति नामनि।आप्तवाक्यादिनेति / आप्तवाक्यादिनातस्मिन् गौरमित्रातनये शाकपाकजत्वाभावोऽवगतः। तत्रशाकपाकजत्वव्यभिचारस्त(स)त्त्वात् मित्रातनयत्वाव्यभिचारस्य सत्त्वात् न दृष्टान्तासिद्धिः इति / तथा च अघटत्वं चैत्रत्वादिवत् गौरमित्रातनयवृत्तिजातिविशेष एव, न त्वस्य घटभेदः, न च दृष्टान्तस्य साधनवैकल्यम्। तत्रेति टीका। तत्र गौरमित्रातनये उपाध्यभावस्यानवगतौ सन्दिग्धत्वापत्तिः। स मित्रातनयो गौरो न वेति / यथा डित्थ इति संज्ञाभेदः तथा अघट इत्यपि नाम / तद्वृत्तीति अघटवर्तिधर्मोऽघटत्वमिति / न त्वव्यभिचारित्वं तदवच्छिन्नसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं येन अघटत्वे घटभेदे मित्र(भिन्न)घटभेदसमानाधिकरणपटादिवृत्त्यत्यन्ताभावस्य प्रतियोगित्वाऽव्यभिचारित्वं न स्यात्। किन्तु प्रकृताव्यभिचारिपदेन त्वस्य यत्किञ्चिदधिकरणवृत्त्यत्यन्ताभावाप्रतियोगित्वमेव