________________ तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका व्यभिचारानुमापकत्वं शुद्धसाध्यव्यभिचारानुमापकत्वं न निर्वहेत् / केवलतद्वयभिचारेण हेतुना न निर्वहेदित्यर्थः / इतराविशेषितेन तदेव निर्व(र्वा)हयति / यदीति / तस्य उद्भूतरूपस्य पर्यवसितं यत् साध्यं शुद्धसाध्यं तस्य व्यापकत्वज्ञानं साध्यव्यभिचारानुमाने प्रयोजकं भवति / भवद्भिः अवच्छिन्नसाध्यस्यैव व्यापकत्वात् अवच्छिन्नसाध्यव्यभिचारव्याप्य एव एतद्व्यभिचार इति यद्धर्मावच्छिन्नं यस्य व्याप्यं तद्धर्मावच्छिन्नव्यभिचारस्यैव तद्व्यभिचारव्यापकत्वात्। तथा च बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षस्य व्यापकम् उद्भूतरूपवत्त्वं बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यभिचारमेव स्वव्यभिचारेणानुमातुं शक्नोति / कथं स्वव्यभिचारेण बहिरिन्द्रियजन्यप्रत्यक्षत्वव्यभिचारमनुमापयति स्वव्यभिचारस्य तदप्यव्यभिचाराव्याप्यत्वात् इत्याशङ्कार्थः / विपक्षेति टीका / विपक्षबाधकत्वेन विपक्षे अप्रयोजकत्वशङ्का / तद्वाधकत्वेन तदुत्सारकत्वेन व्याप्तिग्रहोपयिकतया शुद्धसाध्यव्यभिचारेण सह उपन्यस्तहेतोः द्रव्यत्वाव्यभिचारित्वे सति उद्भूतरूपव्यभिचारित्वहेतोः व्याप्तिग्रहोपयिकतया, अप्रयोजकत्वशङ्कानिवृत्तिद्वारा व्याप्तिग्रहौपयिकतया तत्प्रयोजकात्व]सम्भभात् / अवच्छिन्नसाध्यव्यापकत्वस्य प्रयोजकत्वसम्भवात् / तथाहि प्रत्यक्षस्पर्शाश्रयत्वं प्रत्यक्षत्वव्यभिचारि बहिर्द्रव्यत्वाव्यभिचारित्वे सति उद्भूतरूपव्यभिचारित्वात् इत्यत्र द्रव्यत्वाव्यभिचारित्वे सति उद्भूतरूपव्यभिचारित्वस्य बहिरिन्द्रियजन्यप्रत्यक्षत्वेन व्याप्तिग्रहे किं प्रयोजकम् ? न हि सहचारदर्शनमात्रेणैव व्याप्तिग्रहः, पाषाणवत्त्वलोहलेख्यत्वयोरपि व्याप्तिग्रहप्रसङ्गात् / तस्मादप्रयोजकत्वाशङ्का अवश्यमपेक्षणीया / सा च शङ्का हेत्वभिमतं वस्तु स्यात् साध्याभिमतं न स्यात् इत्याकारा / तन्निवृत्तिस्तु विपक्षबाधकतर्कादेव भवति / तच्च प्रकृते यथा द्रव्यत्वविशिष्टबहिरिन्द्रियजन्यप्रत्यक्षत्वस्य व्यापकमुद्भूतरूपवत्त्वम् / तद्व्यभिचारश्च द्रव्यत्वविशिष्टबहिरिन्द्रियजन्यप्रत्यक्षत्वव्यभिचारस्य व्याप्यम् / व्यापकव्यभिचारो(रे) व्याप्यव्यभिचारस्यावश्यंसा(भा)वनियमात् व्यापकत्वमेव न स्यादिति / तथा चोद्भूतरूपव्यभिचारे सति वायौ द्रव्यत्वविशिष्टप्रत्यक्षत्वव्यभिचारेण [26 A] अवश्यं भवितव्यम् / तत्र च विशेषणस्य द्रव्यत्वस्याव्यभिचारो हेतौ एव निविष्टः विशेषणाव्यभिचारे विशिष्टव्यभिचारे सति विशेष्यव्यभिचारस्यैव भावात् इति विपक्षबाधकतर्कस्फोरणाय अवच्छिन्नसाध्यव्यापकत्वमुपाधेरुपयुज्यते इति भावः / ननु वायुः बहिरिन्द्रियजन्यप्रत्यक्षः प्रमेयत्वात् इत्यत्र उक्तप्रकारेण व्यभिचारानुमान न सम्भवति / प्रमेयत्वस्य द्रव्यत्वाव्यभिचारित्वविरहात् हेतोः स्वरूपासिद्धिः स्यात् इत्याशङ्कते - यद्यपीति टीका / प्रमेयत्वादिा ति] हेतौ / वायुर्बहिरिन्द्रियजन्यप्रत्यक्षः प्रमेयत्वादिति अनुमाने प्रमेयत्वादिति हेतौ। प्रत्यक्षेति। प्रमेयत्वं प्रत्यक्षत्वव्यभिचारि इति व्यभिचारसाधकानुमाने। निरुक्तमिति। निरुक्तं यत् साधनं द्रव्यत्वाव्यभिचारित्वे सति उद्भूतरूपव्यभिचारित्वात् इत्याकारके / स्वरूपासिद्धिरिति / प्रमेयत्वे द्रव्यत्वाव्यभिचारित्वरूपविशेषणविरहात्स्वस्वहेतोर्विशिष्टाभावस्य सत्त्वात् स्वरूपासिद्धिः।समाधत्ते-तथापीति टीका / तथा च द्रव्यत्वाव्यभिचारित्वे सति इति विशेषणं न हेतौ देयम् / तथा चेत्थमनुमानं प्रत्यक्षं मेयत्वं