________________ उपाधिवादः रूपाधिकरणे प्रत्यक्षत्वे व्यभिचारस्यापि सत्त्वात् न व्यावृत्तिं कर्तुं शक्यते [तेनेति तत्पदम्, इत्थं च घटीयरूपत्वे उद्भूतरूपव्यभिचारस्यसत्त्वात्।25 A]तत्रच प्रत्यक्षत्वव्यभिचारस्यसाध्यस्यासत्त्वात्नाव्यभिचार इति। द्रव्यत्वमिति / द्रव्यत्वमव्यभिचारि व्यापकं यस्य उद्भूतरूपस्येति अन्वयः। न त्विति षष्ठीतत्पुरुष इति। द्रव्यत्वस्याव्यभिचारिद्रव्यत्वस्य व्यापकम्। तथासतीति।यदिषष्ठीतत्पुरुषः द्रव्यत्वस्य व्यापकत्वेसतीत्यर्थः / इत्थं चकिंभवति तदाह - तावन्मात्रेति / तावन्मानं द्रव्यत्वव्यापकम्, तन्मात्रस्य व्याप्यत्वे प्रत्यक्षत्वव्यभिचारित्वरूपसाध्यस्य च व्याप्यत्वे शेषवैयर्थ्यम् इति शेषः / उद्भूतरूपव्यभिचारित्वरूपः तस्य वैयर्थ्यम्। निरर्थकतेति। यथा यद् द्रव्यत्वस्य व्यापकं सत्तापरिमाणादि तदवश्यं गगनादिवृत्तित्वेन प्रत्यक्षत्वव्यभिचारि भवत्येवेति किमर्थमुद्भूतरूपवत्त्वे सतीति विशेषणं देयम् / यन्मते व्यर्थविशेषणत्वं न दूषणावहं तन्मते दूषणान्तरमाह - दृष्टान्तासिद्धिरिति टीका / दृष्टान्तं तावद् महत्त्वम् / तत्र च साध्यस्य प्रत्यक्षत्वव्यभिचारस्य विद्यामानत्वात् / साधनस्य द्रव्यत्वव्यापकत्वे सति उद्भूतरूपव्यभिचारित्वस्यासत्त्वात् / महत्त्वे द्रव्यत्वव्यापकत्वविरहात् परमाण्वादावेव व्यभिचारात् / विशेषणाभावसहकृतहेतुविशिष्टाभावस्य सत्त्वात् / साध्यवान् साधनविकलो दृष्टान्त इति दृष्टान्तासिद्धिः इति / स्वरूपासिद्धावपि ध्येयम् / प्रत्यक्षस्पर्शाश्रयत्वे व्यभिचारसाधनपक्षे द्रव्यत्वव्यापकत्वविरहादेव विशेषणाभावसहकृतविशिष्टाभावस्य सत्त्वात् स्वरूपासिद्धिरिति। तद्घटत्वेति। तद्घटत्वे द्रव्यत्वाव्यभिचारस्य सत्त्वात् / प्रत्यक्षत्वव्यभिचारित्वरूपसाध्यस्य विरहात् व्यभिचारः, तद्वारणाय द्रव्यप्रत्यक्षत्वव्यापकेति। द्रव्यप्रत्यक्षस्ययद् व्यापकम् उद्भूतरूपं तद्व्यभिचारित्वस्य असत्त्वेन तद्घटत्वे विशेष्याभावसहकृतहेतोः विशिष्टाभावस्य सत्त्वात् न व्यभिचारः / यथा साध्यं नास्ति तथा तद्घटत्वे हेतुरपि नास्तीत्यर्थः / यथा विशेषणविशेष्ययोरसन्निवेशेन वैयर्थ्यमाशङ्कते। सन्निवेशे तु न वैयर्थ्यमिति। समाधत्ते - यद्यपीत्यादिना। यद्यपि प्रत्यक्षत्वव्यापकव्यभिचारित्वात् इत्यस्यैव सार्थकत्वे सत्यन्तस्य वैयर्थ्यम् / तथा च प्रत्यक्षपदमपि बहिरिन्द्रियजन्यलौकिकप्रत्यक्षपरं न कार्यम्, यथाश्रुतमेवं सम्यक् / तथा च प्रत्यक्षस्पर्शाश्रयत्वं प्रत्यक्षत्वव्यभिचारि प्रत्यक्षत्वव्यापकात्यन्ताभाववद्वृत्तित्वात् इत्यस्यैव गमकत्वमस्तु इति यद्यपीत्यादेराशङ्कार्थः / समाधत्ते - तथापीति / व्यभिचारस्य प्रत्यक्षत्वव्यापकव्यभिचारस्य अभावगर्भतया अभावघटिततया / द्रव्यत्वेति / पूर्वं द्रव्यबहिरिन्द्रियजन्यप्रत्यक्षत्वस्य यव्यापकम् उद्भूतरूपादि तदत्यन्ताभाववद्वृत्तित्वस्य हेतोः कृतकत्वात् / भवद्भिस्तु प्रत्यक्षत्वव्यापकात्यन्ताभाववद्वृत्तित्वम् एवास्तु कृतकत्वम् / तेन वैयर्थ्यम् / द्रव्यबहिरिन्द्रियजन्यप्रत्यक्षत्वव्यापकत्वात्यन्ताभावात् [25 B] शुद्धप्रत्यक्षव्यापकात्यन्ताभावो भिन्न एवेति न हि तद्घटितो हेतुः कृतः येन वैयर्थ्यमाशङ्क्येत / न हि प्रत्यक्षत्वव्यापकात्यन्ताभावे द्रव्यं विशेषणं येन तस्य वैयर्थ्यमाशङ्क्येत / परमार्थं वर्णयति - वस्तुत इति / तथा च द्रव्यत्वाव्यभिचारित्वे सति उद्भूतरूपव्यभिचारित्वादित्येव हेतुः कृतः / तत्र च न वैयर्थ्यगन्धोऽपीति भावः। नचैवमिति टीका। अस्य उद्भूतरूपत्वस्य उपाधित्वेन पक्षधर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वेन