________________ .. तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका पक्षधर्मताबलादपि विशिष्टव्यभिचारः जन्यत्वविशिष्टविनाशित्वव्यभिचारः सिद्धयति / अनुमितेः व्यभिचारानुमितेः व्यापकतावच्छेदकप्रकारेण विशिष्टसाध्यव्यापकव्यभिचारनिष्ठा या[24B] व्याप्यतातन्निरूपिता या व्यापकता तदवच्छेदकं विशिष्टव्यभिचारित्वं तत्प्रकारेणैव साध्यानुमितिरिति नियमात् / तथा च कथं विनाशित्वव्यभिचारित्वप्रकारेणानुमितिः विनाशित्वव्यभिचारस्य भावत्वव्यभिचारव्यापकतावच्छेदकत्वादिति / न हि यत्र यत्र भावत्वव्यभिचारः तत्र तत्र विनाशित्वव्यभिचारः प्रागभावत्वे व्यभिचारात् / कथं व्यापकतानवच्छेदकविनाशित्वव्यभिचारित्वप्रकारेण साध्यसिद्धिः इति / न हि पक्षधर्मताबलात् पर्वतीयवह्नित्वप्रकारेण वह्निसिद्धिः किन्तुवह्नित्वप्रकारेण वह्निसिद्धिरिति, पर्वतीयवह्नित्वस्य व्यापकतानवच्छेदकत्वात् / तथा च प्रकृते विशिष्टव्यभिचारित्वप्रकारेण सिद्धौ अर्थान्तरं विशेष्यव्यभिचारित्वप्रकारेण सिद्धौ विशेष्यव्यभिचारित्वस्य व्यापकतावच्छेदकत्वात् तत्प्रकारकपरामर्शविरहात् कारणबाधः इति / अपरितोषादाह - यद्वेति मूलम् / वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र उद्भूतरूपवत्त्वमुपाधिः / तस्य यथा शुद्धसाध्यव्यभिचारोन्नायकत्वं तदाह - प्रत्यक्षस्पर्शाश्रयत्वमिति मूलम् / साधने साध्यव्यभिचार उन्नेय इति साधनमेव पक्षीकृतम् / तच्च साधनं प्रत्यक्षस्पर्शाश्रयत्वम्, प्रत्यक्षत्वं यत् साध्यं तद्व्यभिचारि तदत्यन्ताभाववर्ति / साध्यं प्रत्यक्षत्वं बहिरिन्द्रियपरतया व्याख्येयम् / तेन नात्मनि व्यभिचारः, आत्मनि द्रव्यत्वाव्यभिचारित्वे सति उद्भूतरूपव्यभिचारस्य सत्त्वात् प्रत्यक्षत्वव्यभिचारस्याभावात् / व्यभिचारसाधने व्यभिचारः इत्थं तु न भवति / बहिरिन्द्रियजन्यप्रत्यक्षत्वस्य व्यभिचारस्य साध्यस्य आत्मन्यपि सत्त्वात् न व्यभिचारइतिभावः।हेतुमाह - द्रव्यत्वाव्यभिचारीति। द्रव्यत्वाव्यभिचारित्वेसति द्रव्यत्वात्यन्ताभाववदवृत्तित्वे सतीत्यर्थः / द्रव्येति। द्रव्यप्रत्यक्षं द्रव्यबहिरिन्द्रियजन्यप्रत्यक्षम्, तद्व्यापकं यदुद्भूतरूपवत्त्वं तद्वयभिचारित्वात् तदत्यन्ताभाववद्वृत्तित्वात्इतिहेत्वर्थः।महत्त्ववदितिमूलम्।महत्त्वं यथाद्रव्यत्वाव्यभिचारि उद्भूतरूपव्यभिचारि बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षव्यभिचारि च तथा प्रत्यक्षस्पर्शाश्रयत्वं द्रव्यत्वाव्यभिचारि उद्भूतरूपव्यभिचारि बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षव्यभिचारि इत्यर्थः / पदकृतिमाह - साध्ये हेताविति / प्रत्यक्षत्वव्यभिचारीति यत् साध्यं तन्निविष्टं यत् प्रत्यक्षपदं तद् बहिरिन्द्रियजन्यप्रत्यक्षपरतया व्याख्येयम्, तच्च प्रत्यक्षं लौकिकमपि ध्येयम्। अन्यथा आत्मनि अप्युप(पा)यवशा[स] बहिरिन्द्रियजन्यप्रत्यक्षत्वसत्त्वात् स दोषः तदवस्थ एवेति ध्येयम् / हेतावपि प्रत्यक्षपदं बहिरिन्द्रियजन्यप्रत्यक्षत्वपरम् / अन्यथा उद्भूतरूपवत्त्वस्य प्रत्यक्षत्वव्यापकत्वविरहात् हेत्वसिद्धिर्हेतुविशेषणासिद्धिः / एतदपि प्रत्यक्षं लौकिकप्रत्यक्षपरम् / अन्यथा द्रव्यबहिरिन्द्रियजन्यप्रत्यक्षत्वस्यापि न व्यापकम् उद्भूतरूपमिति तथैव हेत्वर्थेऽसिद्धिरिति ध्येयम् / तद्रूपत्वादाविति / तद्रूपत्वे प्रत्यक्षात्मकघटादिरूपत्वे। तत्पदं तु रूपत्वे अतीन्द्रिय