________________ उपाधिवादः व्यभिचारमादाय विशिष्टव्यभिचारः सिद्धयतीति शेषः / पक्षधर्मतेति पदार्थं विवृणोति। यदाऽऽलिङ्गानेनेति / यस्य विशेष्याभावस्य आलिङ्गनं विषयीकरणं तद्विना [24 A] पक्षे जन्यत्वादौ ध्वंसरूपाधिकरणवर्तिनि साध्यसिद्धिरेव न भवति / साध्यसम्प्रतीते(तेः) साध्यानुमितेः अपर्यवसानाम्] असम्भवः / तदेव साध्यं यदाऽऽलिङ्गानेनैव यद्विषया(यी)कृत्वैव पक्षेऽनुमितिः / पर्वतीयवह्निविषयत्वं भवति तदेव साध्यम्, पक्षधर्मताबलात् सिद्धयतीति / यथा पर्वते महानसीयादिवह्वेर्बाधात् न महानसीयादिवह्रिसिद्धिः / पर्वतो वह्निमान् इत्यनुमितेः पर्वतीयवह्रिविषयत्वम्।अपर्यवक्षानसम्भवः (? अपर्यवसानमसम्भवः)।पर्वतीयवहिंविषयीकृत्वैव पर्वतो वह्निमान् इत्यनुमानमिति पर्वतीयवह्निः पक्षधर्मताबलात् सिद्धयति / तथा प्रकृतेऽपि इति भावः / ___ अन्यथेति मूलम् / यदि बाधवशात् महानसीयादिवढ्यविषयत्वे सति पर्वतीयवह्निमपि न विषयीकृर्यात् तदा किंविषयकं वह्नयनुमानं स्यात् इत्येव प्रतीतेरपर्यवसानम् / तथा प्रकृतेऽपि विशेषणव्यभिचारस्य बाधात् तदविषयीकरणे सति यदि विशेष्यव्यभिाचार]मपि न विषयीकुर्यात् तदा व्यभिचारानुमानं किंविषयकं स्यादिति भावः / न हि निर्विषयकम् अन्यविषयकं वा सल्लिङ्गपरामर्शजन्यानुमानम् / एतच्च विशेषणाव्यभिचारीत्यादि प्रकृताभिप्रायेण / अवच्छिन्नसाध्यव्यापकोपाधिव्यभिचारेण शुद्धसाध्यव्यभिचारानुमानाभिप्रायेण / अन्यत्र धूमवान् वढेः इत्यादौआर्टेन्धनप्रभववहिव्यभिचारेणार्दैन्धनव्यभिचारेण शुद्धसाध्यस्यधूमस्य व्यभिचारानुमाने / उक्तेति। उक्तप्रकारेण शुद्धसाध्यव्यभिचारानुमानप्रकारेण। व्यभिचारोन्नयने व्यभिचारानुमाने।नार्थान्तरम्, प्रकृतसम्बद्धत्वात् / शुद्धसाध्यव्यभिचारानुमानस्यैव प्रकृतोत्तरत्वादिति भावः / ननु विशेषणाभावविशेष्याभावतत्सम्बन्धाभावेभ्यो अतिरिक्त एव विशिष्टाभावः शक्तिवादे व्यवस्थापितः, तत् कथं विशेषणाभावबाधे विशेष्याभावं विषयीकृत्वैव विशिष्टाभावसिद्धिरित्युक्तम् / तुष्यतु दुर्जन इति न्यायेन भवतु वा विशिष्टाभावो नातिरिक्त: किन्तु विशेषणाभावो विशेष्याभावस्तत्सम्बन्धभावो वाऽस्तु / तथापि विशिष्टाभावत्वेनैव सिद्धिर्भवतु, न तु विशेष्याभावत्वादिना प्रकारेण / न हि दण्डवति पुरुषाभावदशायां दण्डी नास्तीत्यत्र पुरुषाभावत्वप्रकारेण न विशिष्टाभावसिद्धिः किन्तु विशिष्टत्वाभावत्वप्रकारणैव / तथा च जन्यत्वविशिष्टविनाशित्वव्यापकभावत्वव्यभिचारेण जन्यत्वविशिष्टव्यभिचारसिद्धौ कथं विनाशित्वव्यभिचारं विषयीकृत्वैव सिद्धयति / तस्य विनाशित्वव्यभिचारस्य जन्यत्वविशिष्टविनाशित्व(त्वं) व्यभिचारी(रि) [त]दतिरिक्तत्वात् / अनतिरिक्तत्वेऽपि जन्यत्वविशिष्टविनाशित्वप्रकारेणैव सिद्धयतु, न विनाशित्वव्यभिचारप्रकारेणैव / तथा च शुद्धसाध्यव्यभिचारस्याकाक्षितत्वात् / तत्त्वेनैवोत्तरस्याणु(स्यान्वि)तत्वात् / ननु विशिष्टव्यभिचारित्वप्रकारेणैव विशिष्ट उत्तरे अर्थान्तरम् इत्याशङ्कते - नन्विति / विशिष्टाभावविशेष्याभावयोः जन्यत्वविशिष्टविनाशित्वाभावयोर्भेदेनातिरिक्तत्वेन घटितयोः विशिष्टव्यभिचारशुद्धसाध्यव्यभिचारयोरप्यतिरिक्तत्वेन