________________ 49 उपाधिवादः व्यभिचारित्वस्य तत्रासम्भवात् इति वाच्यम् / महानसत्वव्यभिचारित्वस्य तत्र सत्त्वेऽपि विशेषणान्तरस्याव्यभिचारस्य तत्रसत्त्वात्।तथाहिवह्निधूमव्यभिचारी।महानसीयः वह्निः, वह्निद्रव्यं त्वा(त्व)योगोलके। एतद्धि विशेष्यत्वे सति व्यञ्जनवत्त्वोपाधिव्यभिचारित्वात् / अत्र च विशेषणं तद्वा विशेष(ष्य)त्वं तद्व्यभिचारस्य वह्नौ सत्त्वात् / तथा च सोऽपि ग्रन्थः सङ्गच्छते। न च तद्विशेषणं न साध्यविशेषणं ग्रन्थस्य साध्यविशेषणे एव तात्पर्यात् / अन्यथा शुद्धसाध्यव्यभिचारसिद्धौ तस्यानुपयोगादिति वाच्यम् / महानसीयधूमवान् महानसीयवह्नः इत्यत्र महानसीयधूमत्वावच्छिन्नस्य व्यापकं व्यञ्जनवत्त्वं यत्र अथ च महानसीया!न्धनाप्रभववढेरव्यापकं व्यञ्जनवत्त्वम् एतदभिप्रायेणैव क्वचिन्महानसत्वमित्युक्तम् / वस्तुतस्तु शुद्धसाध्यव्यापकोपाधिस्थल इव प्रकृतेऽपि विशेषणाव्यभिचारीति ग्रन्थस्य न तात्पर्यमिति ध्येयम् / व्यभिचारोन्नयनप्रकारस्तु उक्तदिशाऽवसेयः / सर्वविधस्येति / साधनावच्छिन्नपक्षधर्मावच्छिन्नोदासीनधर्मावच्छिन्नशुद्धसाध्यव्यापकोपाधिसमूहस्य उक्तस्वरूपमिति।। . व्यभिचारोन्नयनस्वरूपमुपपादयति - समव्याप्तस्येति मूलम् / यन्मते समव्याप्त एवोपाधिस्तन्मत(ते) साधारण्येन विषमव्याप्तस्योपदूषकतायामुपयोगं दर्शयति - विषमव्याप्तस्येति मूलम् / वाकारोऽनास्थायाम् / तथा च समव्याप्तो विषमव्याप्तो वोपाधिः स्वव्यभिचारेण साध्यव्यभिचारोनायको भवत्येवेति विषमव्याप्तेन किमपराद्धं येन तस्योपाधिता न स्वीक्रियते इति भावः / समव्याप्तो यथा धूमवाना वह्नः इत्यत्र आर्दैन्धनप्रभवो वह्निः।विषमव्याप्तो यथाधूमवान् वढेः इत्यत्रआर्टेन्धनमुपाधिः / तयोः।साध्यव्यापकस्येति।साध्यस्यधूमस्य शुद्धसाध्यस्य धूमत्वावच्छिन्नस्य साध्यतावच्छेदकावच्छिन्नस्येति यावत् / अन्यथा तद्वत् साध्यव्यापकस्य पाषाणवत्त्वादेः व्यभिचारेणवह्नित्वावच्छिन्नव्यभिचाराव्यापकत्वादितिशुद्धेत्यभिहितम्। पाषाणवत्त्वादेर्वह्नित्वावच्छिन्नस्यसाध्यतावच्छेदकावच्छिन्नस्याव्यापकत्वादितिभावः ।साध्यव्यापकस्यआर्टेन्धनप्रभववढेराइँन्धनस्य * वा व्यभिचारेण साधनवर्तिना साध्यव्यभिचारो धूमस्य व्यभिचार: धूमाभावववृत्तित्वं व्यभिचारः / यथा वह्निः धूमव्यभिचारीआर्टेन्धनप्रभववहिव्यभिचारित्वात् आर्टेन्धनव्यभिचारित्वात्वा, यत्र यत्रआर्टेन्धनप्रभववहिव्यभिचारित्वं तत्र तत्र धूमवद्वयभिचारित्वं यथा द्रव्यत्वादि। अनुद्भवं तर्कमाह - व्यापकव्यभिचारिण इति। यदि व्यापकव्यभिचारे सत्यपि न व्याप्यस्य व्यभिचारः किन्तु व्यापकव्यभिचार(रे) सत्यपि [आधिकरणेऽपि व्याप्यस्य वृत्तित्वं तदा व्यापकतैव न स्यात्। न वा तस्य व्याप्यत्वमिति तदभाववद्वृत्तित्वेन तस्य व्यापकविरहात् व्याप्यविरहात् च / [23 B] स्फुट एवेति / इतराविशेषितेनैव स्वव्यभिचारेण साध्यव्यभिचारोन्नायकत्वात् स्फुटत्वम् / साधनावच्छिन्नेत्यादि / साधनावच्छिन्नस्य मित्रातनयत्वावच्छिन्नश्यामत्वस्य व्यापकं यत् शाकपाकजत्वंतव्यभिचारेण मित्रातनयत्वविशेषितेनश्यामत्वव्यभिचारस्यसाधनात् इतरविशेषितेनेत्यस्फुटस्येति ध्येयम् / एवं पक्षधर्मावच्छिन्नेति / वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र पक्षधर्मो यो बहिरिन्द्रियत्वं