________________ तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका वर्तते येन पाषाणवत्त्वव्यभिचारेण सोऽनुमेयः / तत एव बाधादेव अनुमित्यभावात् व्यभिचारोनयनानुमित्यभावादित्यर्थः / ननु यदा बाधस्य ज्ञानं न जातं तदा तथानुमानं स्यात्, न हि बाधः स्वरूपसत् एव प्रतिबन्धकः / इष्टापत्त्या समाधत्ते - इष्टापत्तिरिति / तद्धमानुमितेः वह्निव्यभिचारिभ्रमानुमितेः साध्यस्य वह्निव्यभिचारित्वस्य [22B] धूमे बाधादेव भ्रमः। नचेति। लक्ष्यतावच्छेदकेनैव सर्वसङ्ग्रहे पक्षधर्मावच्छिन्नाधुपाधीनां सङ्ग्रहे किमिति अनेन साध्यसमानाधिकरणत्वे सति साध्यव्यभिचारिसाधनाव्यापकत्वमिति लक्षणेन / तस्य यद्वयभिचारित्वेनेत्यादेः लक्ष्यतावच्छेदके एवोपयोगात् / अस्य चेति / अस्य साध्यसमानाधिकरणेति लक्षणे लक्ष्यतावच्छेदकस्य लक्षणकरणे ग्रन्थकृतस्तात्पर्य वर्णयति - अत एवेति / यत एव सर्वतान्त्रिकाणां यत्र यत्र उपाधित्वेन व्यवहारः स एवोपाधित्वेन मया लक्षणीयः / सर्वतान्त्रिकाणां कुत्रोपाधित्वेन प्रत्यक्षत्वव्यवहारः ? यद्वयभिचारित्वेनेत्यत्र / अत एव ग्रन्थकृता लौकिकप्रत्यक्षस्य यल्लक्षणं कृतं तल्लक्ष्यतावच्छेदकमभिधायैव / तथा प्रकृतेऽपि उपाधिलक्षणं यद्यभिचारित्वेन लक्ष्यतावच्छेदकं विधाय पर्यवसितसाध्यव्यापकेति लक्षणं कृतम् / इतरभेदेति / उपाधिः इतरभेदानुमाने / उपाधिः इतरेभ्यो भिद्यते साध्यसमानाधिकरणे सति साध्यव्यभिचारिसाधनाव्यापकत्वात्। एकस्येति। एवं लक्ष्यतावच्छेदकत्वेन यदुक्तं तत्पक्षतावच्छेदकम्। यथा साध्यव्यभिचारानुमापकस्वव्यभिचारकः इतरेभ्यो भिद्यते साध्यसमानाधिकरणत्वे सति साधनाव्यापकत्वादिति / इत्थम् इतरभेदानुमाने लक्ष्यतावच्छेदकस्य पक्षतावच्छेदकत्वंलक्षणस्य हेतुत्वमिति भावः / संक्षेपः लक्षणव्याख्यायाइति शेषः। ध्वंस इति। ध्वंसो विनाशी जन्यत्वात् इत्यत्र भावत्वमुपाधिः / अत्र पर्यवसितो धर्मः जन्यत्वम् / तथा च यत्र यत्र जन्यत्वावच्छिन्नविनाशित्वंतत्र तत्रभावत्वम्।प्रागभावे व्यभिचारवारणायजन्यत्वेति साधनाव्यापकत्वं पक्षे एव / एतन्मते क्वचित् साधनमेवेत्यत्र एवकारः अप्यर्थः / जन्यत्वस्य पक्षधर्मस्यापि साधनत्वात् वा / साधनमेवेति अपरे / वस्तुतस्तु ध्वंसजन्यभावान्यतरत्वावच्छिन्नविनाशित्वरूपसाध्यस्य व्यापकं तदन्यतरत्वावच्छिन्नजन्यत्वरूपसाधनाव्यापकं भावत्वमुपाधिः सम्भवत्येव / तथा च कथं पर्यवसितो धर्मः साधनमेवेति / वायुः बहिरिन्द्रियजन्यप्रत्यक्षः प्रमेयत्वात् इत्यत्र उद्भूतरूपवत्त्वमुपाधिः / अत्र पर्यवसितो धर्मः द्रव्यत्वमेव / तथा च यत्र द्रव्यत्वावच्छिन्नबहिरिन्द्रियजन्यप्रत्यक्षत्वं तत्रोद्भूतरूपवत्त्वं रूपवत्त्वं वा / यत्र द्रव्यत्वावच्छिन्नप्रमेयत्वं तत्रोद्भूतरूपवत्त्वंरूपवत्त्वंवा नास्ति। यथाघटो वायुर्वेति।साध्यव्यापकत्वंसाधनाव्यापकत्वंचाऽवगन्तव्यम् / अयं धूमवान् वः इत्यत्र व्यञ्जनवत्त्वमुपाधिः / तत्र पर्यवसितो धर्मः महानसत्वम् / तथा च महानसत्वावच्छिन्नसाध्यव्यापकं साधनाव्यापकं च / महानसत्वमिति पर्यवसितो धर्मः स्वमताम(व)ष्टम्भे एव / अन्यथा महानसत्वावच्छिन्नसाध्यस्य व्यापकं व्यञ्जनवत्त्वं न महानसत्वावच्छिन्नसाधनाव्यापकमिति न यज्ञपत्युपाध्यायमते सम्भवति। तन्मते यद्धर्मावच्छिन्नसाध्यव्यापकंतद्धर्मावच्छेदेनैव साधनाव्यापकत्वमित्येव [23A] लक्षणकरणाय / न च इत्थं विशेषणाव्यभिचारिणीति ग्रन्थो न सङ्गच्छते तथा महानसत्वस्य वहिव्यभिचारित्वात् विशेषणा