________________ 47 उपाधिवादः व्यभिचारानुमानं निष्फलं स्यात् इति भावः / उपाधिज्ञानस्य व्यभिचारज्ञानप्रकारमाह - किन्त्वित्यादि शद्धेति / आदिना साधनावच्छिन्नोदासीनधर्मावच्छिन्नसाध्यव्यापकोपाध्योः परिग्रहः / इदं यत् प्रकृते साध्यसमानाधिकरणे सति साध्यव्यभिचारिसाधनाव्यापकत्वमिति लक्षणम् / सकलेति / सकलसङ्ग्राहकम्, साधनावच्छिन्नपक्षधर्मावच्छिन्नोदासीनधर्मावच्छिन्नशुद्धसाध्यव्यापकोपाधीनां सङ्ग्रहार्थमिति / इदमेव दृष्टान्तेन द्रढयति - यथा सव्यभिचारस्य साधारणासाधारणानुपसंहार्यात्मनः लक्षणं मूलेनोभयकोट्युपस्थापकतावच्छेदकं कृतम् / तत्र च साधारणमन्वयेन, असाधारण व्यतिरेकिणा, अनुपसंहारी पक्षे एव / साध्यतदभावकोट्योरुपस्थापकः इति सव्यभिचारलक्षणे व्याख्यातुमुपेक्षितम्। न हि साधारणादेः उभयकोट्युपस्थापकतावच्छेदकप्रकारकं दूषणावहम्, [22 A] किन्तु साध्याभाववद्वृत्तित्वं साध्यवदवृत्तित्वम् अत्यन्ताभावाप्रतियोगिसाध्यवत्त्वम् इत्यादिरूपेणोपस्थितस्य दूषकत्वम्। न तु येन रूपेण लक्षणं कृतं तेन रूपेण दूषकत्वम् / यथा प्रकृतेऽपि। एवमिति। एवं येन रूपेण दूषकत्वं तेन रूपेण न लक्षणं कृतम्, येन रूपेण च लक्षणं कृतं तेन रूपेण न दूषकत्वमिति भवद्भिरभ्युपगन्तव्यम् / अन्यथेति / यदि येन रूपेण लक्षणं कृतं तेनैव रूपेण ज्ञान(त)स्य दूषकत्वं तदेति शेषः / पर्यवसितेत्यादि / यद्धर्मावच्छिन्नसाध्यव्यापकत्वं तद्धर्मावच्छिन्नसाधनाव्यापकत्वमित्याद्यस्फुरणे शुद्धसाध्यव्यापकत्वस्फुरणे धूमव्यापकं वह्रव्यापकम् आर्टेन्धनमिति स्फुरणे धूमव्यापकार्टेन्धनव्यभिचारिवह्रिरित्याद्यस्फुरणे व्यभिचारोन्नायकत्वं साध्यव्यभिचारोन्नायकत्वं न स्यात् / शङ्कते - न चेति / अनुमितिप्रतिबन्धकमनुमितिकारणीभूतव्याप्तिज्ञानप्रतिबन्धकं यद् ज्ञानं तद्विषयतावच्छेदकमुपाधित्वम् / यद्विषयत्वेन ज्ञानस्य व्याप्तिग्रहप्रतिबन्धकत्वं तथोपाधिर्निव(व)क्तव्यः इति अग्रिमग्रन्थः / स भवन्मते न स्यात् येन रूपेण लक्षणं कृतं तस्यानुमितिप्रतिबन्धकतावच्छेदकत्वविरहात् / तस्येति / तस्य अग्रिमग्रन्थस्य यथाश्रुताभिप्रायेण / न हि तत्र ग्रन्थकारस्य निर्भराभिप्रायः / साधनाव्यापकत्वमिति / साधनाव्यापकत्वे उक्ते सव्यभिचारिसाधने उपाधिव्यभिचारित्वरूपहेतोः पूर्व(4) साधनरूपपक्षवृत्तित्वमुक्तम् / तदेवानुमितिकारणीभूतव्यभिचारज्ञानोपयोगि / न त्वेवमिति / एवम् एकरूपेण लक्षणकरणे इतरथाऽपि व्यभिचारोन्नयनसम्भवः / पर्वतो वह्निमान् धूमात् इत्यत्र पाषाणवत्त्वमुपाधिः स्यात् / पर्वतत्वरूपं यः पक्षधर्मः तदवच्छिन्नसाध्यव्यापकत्वे सति / धूमेति / धूमाव्यापकत्वेन ज्ञातस्य पाषाणवत्त्वादेः / वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र उद्भूतरूपावात्वस्य बहिर्द्रव्यत्वावच्छिन्नसाध्यव्यापकत्वसाधनाव्यापकत्वस्य च ज्ञानात् यथा व्यभिचारानुमानं तथा प्रकृतेऽपि स्यात् इति भावः / अन्यथेति / यदि पक्षधर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वमिति ज्ञात(न)स्यापि न दूषकत्वं तदेत्यर्थः / उद्भूतरूपवत्त्वादेरपि उद्भूतरूपस्य बहिर्द्रव्यत्वावच्छिन्नसाध्यप्रत्यक्षत्वव्यापकस्य प्रत्यक्षस्पर्शाश्रयत्वाव्यापकस्य च तद्रूषकत्वं न स्यात् / उपाधिव्यभिचारित्वेन साध्यव्यभिचारित्वं न स्यात् / व्यभिचारानुमाने बाधमुपन्यस्यति - वह्नीति / न हि वहिव्यभिचारो धूमे