________________ 46 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका व्यभिचारोन्नायकस्यासङ्ग्रहेण अव्याप्तिः इति उपाध्यायकृतलक्षणानि दूषयित्वा स्वायामाह - ब्रूम इति / यदि उक्तप्रकारेण विशेषणप्रक्षेपेण द्रव्यत्वपटत्वप्रमेयत्वानीति विशेष्यत्वे सतीति विशेषणप्रक्षेपेणोपाधिव्यभिचारित्वस्य घटावर्तिगुणवत्त्वव्यभिचारित्वस्य शुद्धसाध्यव्यभिचारोन्नायकत्वेनोपाधित्वेन घटावर्तिगुणवत्त्वादेरपि सङ्ग्राह्यत्वं तदा तत्साधारणलक्षणकरणेऽपि नास्मादृशामसामर्थ्यम् येन लक्ष्यतावच्छेदके विशेषणप्रक्षेपेणालक्ष्यत्वेन सन ग्राह्य इत्येव वक्तव्यमितिशौटीर्यं प्रकटइ(य)ति।घटावर्तिगुणवत्त्वादिसङ्ग्राहकं लक्षणमाह- . पर्यवसितेत्यादि। पर्यवसितसाध्यव्यापकत्वे सति तस्य साध्यसा(स)मानाधिकरणत्वे सति इत्यर्थो बोद्धव्यः / तथा चसाध्यसा(स)मानाधिकरणत्वेसति साध्यव्यभिचारिसाधनाव्यापकत्वमिति लक्षणं जातंपर्यवसितेत्यादिना। तथा चघटः पृथिवी द्रव्यत्वात् इत्यत्रघटावर्तिगुणवत्त्वस्य पृथिवीत्वरूपसाध्यसा(स)मानाधिकरणत्वात्पृथिवीत्वरूपसाध्यव्यभिचारिद्रव्यत्वरूपसाधनाव्यापकत्वात् च तस्य सङ्ग्रहः / एवं धूमवान् वढेः इत्यत्र आर्टेन्धनस्य धूमसमा-. . नाधिकरणत्वात् धूमरूपसाध्यव्यभिचारिवहिरूपसाधनाव्यापकत्वाच्च तस्यापि सङ्ग्राह्यत्वम् / लक्षणे व्यावृत्तिम् [21 B] आह - अत्र चेति / निरु(र)धिकरणे आकाशादौ / अविशेषितेनापि कुत्रचिद्व्यभिचारेणे(ण) आकाशादौ / आकाशव्यभिचारेणापि किञ्चिद्विशेषितेन साध्यव्यभिचारोन्नयनसम्भवात् / [यद्वयभिचारित्वेनेत्यत्र यत्पदं वृत्तिमत्त्वपरतया व्याख्यातम् / अत एव तस्यालक्ष्यत्वम्, तद्वारणाय साध्यसा(स)मानाधिकरणेति विशेषणं दत्तं लक्षणे / ननु वृत्तिमत्त्वे सति साध्यव्यभिचारिसाधनाव्यापकत्वमित्येवास्तु, किं साध्यासमानाधिकरणघटितत्वेन इत्यत आह - साध्यविरुद्धेति / तथा च धूमवान् वह्नः इत्यत्र ह्रदत्वे साध्यव्यभिचारिसाधनाव्यापके वृत्तिमत्त्वेऽतिव्याप्तिवारणाय साध्यसा(स)मानाधिकरणेति / सर्वथेति / सर्वतान्त्रिकाणां यत्रोपाधिरिति व्यवहारो नास्तितत्रगगनादौअतिव्याप्तिवारणाय साध्यसमानाधिकरणेति।ननुपर्वतोवह्निमान्धूमात् इत्यत्रव्यञ्जनवत्त्वेवह्निसमानाधिकरणे धूमरूपसाधनाव्यापके अतिव्याप्तिवारणाय साध्यव्यभिचारीति / धूमस्य साध्यव्यभिचारित्वाभावादेव नातिव्याप्तिरिति भावः / ननु उपाधिना स्वव्यभिचारेण साध्यव्यचिभारोऽनुमेयः / तथा चोपाधिज्ञानदशायामे(मि)वोपाधिज्ञानात् पूर्वमपि साधने साध्यव्यभिचारज्ञानात् किमुपाधिज्ञानेन ? कथं चोपाधिज्ञानात् पूर्व साध्यव्यभिचारिज्ञानं साधने भवतु येन तद्घटित उपाधिः ज्ञायेत इत्याशङ्कते - नन्विति / एवं साधननिष्ठसाध्यव्यभिचार उपाधिलक्षणकरणे उपाधिज्ञानकाले एवेत्यकिञ्चित्करणम्, उपाधिज्ञानात् पूर्वमपि तस्योपाधिघटकत्वात् / तथा च विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वेन एवं विशिष्टवैशिष्टयबुद्धौ विशेषणावच्छेदकप्रकारकज्ञानस्य कारणत्वेन वोभयथापि भवदुक्तप्रकारेण उपाधिज्ञानार्थं साधने साध्यव्यभिचारज्ञानं कारणमिति / तथा चोपाधिज्ञानात् पूर्वमपि साध्यव्यभिचारज्ञानापेक्षणात् इति भावः / इति चेत्, भ्रान्तोऽसि / नन्विति / भ्रान्तानामाशङ्का / तां दूषयति - न हीति। अनेन रूपेण यथा लक्षणं कृतं तेनैव रूपेण न व्यभिचारोन्नायकत्वं येनोपाधिज्ञानात् पूर्वमुपाधिज्ञानकाले वा साधने साध्यव्यभिचारज्ञाने साधने साध्य